________________
जम्बूद्वीपप्रज्ञप्ति - उपाङ्गसूत्रम् ७ / २७७
र्यवसानं वाच्यं, पूर्वापरविदेहापेक्षयाऽस्त्येव तदिति चेत् सूर्ययोश्चीर्णचरणं अपरं वा सूर्यद्वयं वाच्यं, ययोश्चारविशेषाद्दक्षिणोत्तरप्रतिपत्तिसमयापेक्षयोत्तसमये पूर्वापरयोः कालविशेषप्रतिपत्तिरित्यादिको भूयान् परवचनावकाश इत्यलं प्रसङ्गेन, 'पुव्वंगेणवि' त्ति पूर्वाङ्गं चतुरशीतिवर्षलक्षप्रमाणं “पुव्वेणवित्ति पूर्वं - पूर्वाङ्गमेव चतुरशीतिवर्षलक्षगुणितं, एवं चतुरशीतिवर्षलक्षगुणितमुत्तरोत्तरं स्थानं भवति, चतुर्नवत्यधिकं चाङ्कशतमन्तिमे स्थाने भवतीति, 'पढमा ओस्सप्पिणी'ति अवसर्पिण्याः प्रथमो विभागः प्रथमाऽवसर्पिणी चाङ्कशतमन्तिमे स्थाने भवतीति, 'पढमा ओस्सप्पिणी'ति अवसर्पिण्याः प्रथमो विभागः प्रथमाऽवसर्पिणी ।
४८२
'जया णं भंते! दाहिणद्धे पढमा ओस० पडि० तया णं उत्तरद्धेवि', इत्यादि व्यक्तं, नवर नैवास्त्यवसर्पिणी नैवास्त्युत्सर्पिणी, कुत इत्याह- अवस्थितः - सर्वथा एकस्वरूपस्तत्र कालः प्रज्ञप्तः श्रमण ! हे आयुष्मन् ! इति, अथ प्रस्तुताधिकारमुपसंहरन्नाह - इत्येषा - अनन्तरोक्तस्वरूपा जंबूद्वीपप्रज्ञप्ति - आद्यद्वीपस्य यथावस्थितस्वरूपनिरूपिका ग्रन्थपद्धतिस्तस्यामस्मिन्नुपाङ्गे इत्यर्थः, सूत्रे च विभक्तिव्यत्ययः प्राकृतत्वात्, सूर्याधिकारप्रतिबद्धा पदपद्धतिर्वस्तूनां - मण्डलसङ्ख्यादीनां समासः– सूर्यप्रज्ञप्तयादिमहाग्रन्थापेक्षया संक्षेपस्तेन समाप्ता भवति ।
अथ चन्द्रवक्तव्यप्रश्नमाह- 'जंबुद्दीवे ण' मित्यादि, जंबूद्वीपे भदन्त ! द्वीपे चन्द्रावुदीचीनप्राचीनदिग्भागे उद्गत्य प्राचीनदक्षिणदिग्भागे आगच्छतः इत्यादि यथा सूरवक्तव्यता तथा चन्द्रवक्तव्यता, यथा वाशब्दोऽत्र गम्यः पञ्चमशतस्य दशमे उद्देशके चन्द्रनाम्नि कियत्पर्यन्तं सूत्रं ग्राह्यमित्याह-यावदवस्थितः तत्र कालः प्रज्ञप्तः हे श्रमण ! हे आयुष्मन् ! इति, अत्राप्युपसंजिहीर्षुराह - 'इच्चेसा' इत्यादि, व्याख्यानं पूर्ववत्, परं सूर्यप्रज्ञप्तिस्थाने चन्द्रप्रज्ञप्तिर्वाच्या । एतेषां ज्योतिष्काणां चारविशेषात् संवत्सरविशेषाः प्रवर्त्तवन्त इति तद्भेदप्रश्नमाह
मू. (२७८) कति णं भंते! संवच्छरा पन्नत्ता ?, गो० ! पंच संवच्छरा पं०, तं०-नक्खत्तसंवच्छरे जुगसं० पमाणस े लक्खणसंवच्छरे सणिच्छरसंवच्छरे । नक्खत्तसंवच्छरे णं भंते ! कइविहे प० ?, गो० ! दुवालसविहे पं०, सावणे भद्दवए आसोए जाव आसाढे, जं वा विहफई महग्गहे दुवालसेहिं संवच्छरेहिं सव्वनक्खत्तमंडलं समाणेइ सेत्तं नक्खत्तसंवच्छरे ।
जुगसंवच्छरे णं भंते! कतिविहे प०गो० पंचविहे पं०, तंजहा - चंदे चंदे अभिवद्धिए चंदे अमिवद्धिए चेवेति, पढमस्स णं भंते ! चन्दसंवच्छरस्स कइ पव्वा प०?, गो० चोव्वीसं पव्वा प० । बितिअस्स णं भंते! चंदसंवच्छरस्स कइ पव्वा प०, गो० ! चउव्वीसं पव्वा प० एवं पुच्छा ततिअस्स, गो० ! छव्वीसं पव्वा प०, चउत्थस्स चंदसंवच्छरस्स चोव्वीसं पव्वा, पंचमस्स णं अहिवद्धिअस्स छव्वीसं पव्वा य प० एवामेव सपुव्वावरेणं पंचसंवच्छरिए जुए एगे चउव्वीसे पव्वसए प० सेत्तं जुगसंवच्छरे ।
पमाणसंवच्छरे णं भंते! कतिविहे पन्नत्ते ?, गोअमा! पंचविहे पन्नत्ते, तंजहा - नक्खत्ते चन्दे उऊ आइचे अभिवद्धिए, सेत्तं पमाणसंवच्छरे इति ।
लक्खणसंवच्छरे णं भंते! कतिविहे पन्नत्ते ?, गोअमा ! पंचविहे प े, तंजहा
वृ. तत्र नक्षत्रेषु भवो नाक्षत्रः, किमुक्तं भवति ? - चन्द्रश्चारं चरन् यावता कालेनाभिजित आरभ्योत्तराषाढानक्षत्रपर्यन्तं गच्छति तत्प्रमाणो नाक्षत्रो मासः, यदिवा चन्द्रस्य नक्षत्रमण्डले
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org