Book Title: Agam Suttani Satikam Part 13 Jambudwip pragnapati
Author(s): Dipratnasagar, Deepratnasagar
Publisher: Agam Shrut Prakashan

View full book text
Previous | Next

Page 475
________________ जम्बूद्वीपप्रज्ञप्ति - उपाङ्गसूत्रम् ७/२७६ ४७२ गच्छइ मंडलं एक्कवीसा ए भागसहस्सेहिं नवहि अ सट्टेहिं सएहिं छेत्ता । जया णं भंते! नक्खत्ते सव्वबाहिरं मंडलं उवसंकमित्ता चारं चरइ तया णं एगमेगेणं मुहुत्तेणं केवइअं खेत्तं गच्छइ ?, गोयमा ! पंच जोअणसहस्साइं तिन्नि अ एगूणवीसे जोअणसए सोलस य भागसहस्सेहिं तिन्नि अ पन्नट्टे भागसए गच्छइ, मंडलं एगवीसाए भागसहस्सेहिं नवहि अ सट्टेहिं सएहिं छेत्ता, एते णं भंते! अट्ठ नक्खत्तमंडला कतिहिं चंदमंडलेहिं समोअरंति गो० ! अठ्ठहिं चंदमंडलेहिं समोअरंति, तंजहा पढमे चंदमंडले ततिए छठ्ठे सत्तमे अठ्ठमे दसमे इक्कारसमे पन्नरसमे चंदमंडले, एगमेगेणं भंते! मुहुत्ते केवइआई भागसयाइं गच्छइ ?, गो० ! जं जं मंडलं उवसंकमित्ता चारं चरइ तस्स २ मंडलपरिक्खेवस्स सत्तरस अठ्ठे भागसए गच्छइ, मंडलं सयसहस्सेणं अठ्ठानउइए अ सएहिं छेत्ता इति । एगमेगेणं भंते! मुहुत्तेणं सूरिए केवइआई भागसयाइं गच्छइ ?, गोअमा ! जं जं मंडलं उवसंकमित्ता चारं चरइ तस्स २ मंडलपरिक्खेवस्स अठ्ठारसतीसे भागसए गच्छइ, मंडलं सयसहस्सेहिं अठ्ठाणततीएस सएहिं छेत्ता, एगमेगेणं भंते! मुहुत्तेणं नक्खत्ते केवइआई भागसयाइं गच्छइ ?, गो० ! जं जं मंडलं उवसंकमित्ता चारं चरइ तस्स तस्स मंडलपरिक्खेवस्स अट्ठारस पणतीसे भागसए गच्छइ मंडलं सयसहस्सेणं अठ्ठाणउईए अ सएहिं छेत्ता । वृ. 'कइ णं भंते!' इत्यादि, कति भदन्त ! नक्षत्रमण्डलानि प्रज्ञप्तानि ?, गौतम ! अष्ट नक्षत्र मण्डलानि प्रज्ञप्तानि, अष्टाविंशतेरपि नक्षत्राणां प्रतिनियतस्वस्वमण्डलेष्वेतावत्स्वेव सञ्चरणात्, यथा चैतेषु सञ्चरणं तथा निरूपयिष्यति एतदेव क्षेत्रविभागेन प्रश्नयति- जंबूद्वीपे द्वीपे कियत्क्षेत्रमवगाह्य कियन्ति नक्षत्रमण्डलानि प्रज्ञप्तानि ?, गौतम ! जंबूद्वीपे द्वीपे अशीतंअशीत्यधिकं योजनशतमवगाह्यात्रान्तरे द्वे नक्षत्रमण्डले प्रज्ञप्ते, लवणसमुद्रे कियदवगाह्य कियन्ति नक्षत्रमण्डलानि प्रज्ञप्तानि ?, गौतम ! लवणसमुद्रे त्रीणि त्रिंशदधिकानि योजनशतान्यवगाह्यात्रान्तरे षट् नक्षत्रमण्डलानि प्रज्ञप्तानि अत्रोपसंहारवाक्येनोक्तसङ्ख्यां मीलयति एवमेव सपूर्वापरेण जंबूद्वीपे द्वीपे लवणसमुद्रे चाष्टौ नक्षत्रमण्डलानि भवन्ति इत्याख्यातं, मकारोऽत्रागमिकः । अथ मण्डलचारक्षेत्रप्ररूपणा - 'सव्वब्भन्तरा' इत्यादि, सर्वाभ्यन्तराद् भदन्त ! नक्षत्रमण्डलात् कियत्या अबाधया सर्वबाह्यं नक्षत्रमण्डलं प्रज्ञप्तम् ?, गौतम ! पञ्चदशोत्तराणि योजनशतान्यबाधया सर्वबाह्यं नक्षत्रमण्डलं प्रज्ञप्तं, इदं च सूत्रं नक्षत्रजात्यपेक्षया बोद्धव्यं, अन्यथा सर्वाभ्यन्तरमण्डलस्थायिनामभिजिदादिद्वादशनक्षत्राणामवस्थितमण्डलकत्वेन सर्वबाह्यमण्डलस्यैवाभावात्, तेनायमर्थ सम्पन्नः - सर्वाभ्यन्तरनक्षत्रमण्डलजातीयात् सर्वबाह्यं नक्षत्रमण्डलजातीयं इयत्या अबाधया प्रज्ञप्तमिति बोध्यं । अथाभ्यन्तरादिमण्डलस्थायिनामष्टाविंशतेर्नक्षत्राणां परस्परमन्तरनिरूपणा - 'नक्खत्त' - इत्यादि, नक्षत्रमण्डलस्य- नक्षत्रविमानस्य नक्षत्रविमानस्यच भदन्त ! कियत्या अबाधया अन्तरं प्रज्ञप्तम् ?, गौतम ! द्वे योजने नक्षत्रविमानस्य नक्षत्रविमानस्य चाबाधयाऽन्तरं प्रज्ञप्तम्, अयमर्थः- अष्टास्वपि मण्डलेषु यत्र २ मण्डले यावन्ति नक्षत्राणां विमानानि तेषामन्तरबोधकमिदं सूत्रं, यथा अभिजिन्नक्षत्रविमानस्य श्रवणनक्षत्रविमानस्य च परस्परमन्तरं द्वे योजने, न तु नक्षत्रसत्कसर्वाभ्यन्तरादिमण्डलानामन्तरसूचकं, अन्यथा नक्षत्रमण्डलानां Jain Education International For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 473 474 475 476 477 478 479 480 481 482 483 484 485 486 487 488 489 490 491 492 493 494 495 496 497 498 499 500 501 502 503 504 505 506 507 508 509 510 511 512 513 514 515 516 517 518 519 520 521 522 523 524 525 526 527 528 529 530 531 532 533 534 535 536 537 538 539 540 541 542 543 544 545 546 547 548 549 550 551 552 553 554 555 556 557 558 559 560 561 562 563 564