________________
जम्बूद्वीपप्रज्ञप्ति - उपाङ्गसूत्रम् ७/२७६
४७२
गच्छइ मंडलं एक्कवीसा ए भागसहस्सेहिं नवहि अ सट्टेहिं सएहिं छेत्ता ।
जया णं भंते! नक्खत्ते सव्वबाहिरं मंडलं उवसंकमित्ता चारं चरइ तया णं एगमेगेणं मुहुत्तेणं केवइअं खेत्तं गच्छइ ?, गोयमा ! पंच जोअणसहस्साइं तिन्नि अ एगूणवीसे जोअणसए सोलस य भागसहस्सेहिं तिन्नि अ पन्नट्टे भागसए गच्छइ, मंडलं एगवीसाए भागसहस्सेहिं नवहि अ सट्टेहिं सएहिं छेत्ता, एते णं भंते! अट्ठ नक्खत्तमंडला कतिहिं चंदमंडलेहिं समोअरंति गो० ! अठ्ठहिं चंदमंडलेहिं समोअरंति, तंजहा
पढमे चंदमंडले ततिए छठ्ठे सत्तमे अठ्ठमे दसमे इक्कारसमे पन्नरसमे चंदमंडले, एगमेगेणं भंते! मुहुत्ते केवइआई भागसयाइं गच्छइ ?, गो० ! जं जं मंडलं उवसंकमित्ता चारं चरइ तस्स २ मंडलपरिक्खेवस्स सत्तरस अठ्ठे भागसए गच्छइ, मंडलं सयसहस्सेणं अठ्ठानउइए अ सएहिं छेत्ता इति । एगमेगेणं भंते! मुहुत्तेणं सूरिए केवइआई भागसयाइं गच्छइ ?, गोअमा ! जं जं मंडलं उवसंकमित्ता चारं चरइ तस्स २ मंडलपरिक्खेवस्स अठ्ठारसतीसे भागसए गच्छइ, मंडलं सयसहस्सेहिं अठ्ठाणततीएस सएहिं छेत्ता, एगमेगेणं भंते! मुहुत्तेणं नक्खत्ते केवइआई भागसयाइं गच्छइ ?, गो० ! जं जं मंडलं उवसंकमित्ता चारं चरइ तस्स तस्स मंडलपरिक्खेवस्स अट्ठारस पणतीसे भागसए गच्छइ मंडलं सयसहस्सेणं अठ्ठाणउईए अ सएहिं छेत्ता ।
वृ. 'कइ णं भंते!' इत्यादि, कति भदन्त ! नक्षत्रमण्डलानि प्रज्ञप्तानि ?, गौतम ! अष्ट नक्षत्र मण्डलानि प्रज्ञप्तानि, अष्टाविंशतेरपि नक्षत्राणां प्रतिनियतस्वस्वमण्डलेष्वेतावत्स्वेव सञ्चरणात्, यथा चैतेषु सञ्चरणं तथा निरूपयिष्यति एतदेव क्षेत्रविभागेन प्रश्नयति- जंबूद्वीपे द्वीपे कियत्क्षेत्रमवगाह्य कियन्ति नक्षत्रमण्डलानि प्रज्ञप्तानि ?, गौतम ! जंबूद्वीपे द्वीपे अशीतंअशीत्यधिकं योजनशतमवगाह्यात्रान्तरे द्वे नक्षत्रमण्डले प्रज्ञप्ते, लवणसमुद्रे कियदवगाह्य कियन्ति नक्षत्रमण्डलानि प्रज्ञप्तानि ?, गौतम ! लवणसमुद्रे त्रीणि त्रिंशदधिकानि योजनशतान्यवगाह्यात्रान्तरे षट् नक्षत्रमण्डलानि प्रज्ञप्तानि अत्रोपसंहारवाक्येनोक्तसङ्ख्यां मीलयति एवमेव सपूर्वापरेण जंबूद्वीपे द्वीपे लवणसमुद्रे चाष्टौ नक्षत्रमण्डलानि भवन्ति इत्याख्यातं, मकारोऽत्रागमिकः ।
अथ मण्डलचारक्षेत्रप्ररूपणा - 'सव्वब्भन्तरा' इत्यादि, सर्वाभ्यन्तराद् भदन्त ! नक्षत्रमण्डलात् कियत्या अबाधया सर्वबाह्यं नक्षत्रमण्डलं प्रज्ञप्तम् ?, गौतम ! पञ्चदशोत्तराणि योजनशतान्यबाधया सर्वबाह्यं नक्षत्रमण्डलं प्रज्ञप्तं, इदं च सूत्रं नक्षत्रजात्यपेक्षया बोद्धव्यं, अन्यथा सर्वाभ्यन्तरमण्डलस्थायिनामभिजिदादिद्वादशनक्षत्राणामवस्थितमण्डलकत्वेन सर्वबाह्यमण्डलस्यैवाभावात्, तेनायमर्थ सम्पन्नः - सर्वाभ्यन्तरनक्षत्रमण्डलजातीयात् सर्वबाह्यं नक्षत्रमण्डलजातीयं इयत्या अबाधया प्रज्ञप्तमिति बोध्यं । अथाभ्यन्तरादिमण्डलस्थायिनामष्टाविंशतेर्नक्षत्राणां परस्परमन्तरनिरूपणा - 'नक्खत्त' - इत्यादि, नक्षत्रमण्डलस्य- नक्षत्रविमानस्य नक्षत्रविमानस्यच भदन्त ! कियत्या अबाधया अन्तरं प्रज्ञप्तम् ?, गौतम ! द्वे योजने नक्षत्रविमानस्य नक्षत्रविमानस्य चाबाधयाऽन्तरं प्रज्ञप्तम्, अयमर्थः- अष्टास्वपि मण्डलेषु यत्र २ मण्डले यावन्ति नक्षत्राणां विमानानि तेषामन्तरबोधकमिदं सूत्रं, यथा अभिजिन्नक्षत्रविमानस्य श्रवणनक्षत्रविमानस्य च परस्परमन्तरं द्वे योजने, न तु नक्षत्रसत्कसर्वाभ्यन्तरादिमण्डलानामन्तरसूचकं, अन्यथा नक्षत्रमण्डलानां
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org