Book Title: Agam Suttani Satikam Part 13 Jambudwip pragnapati
Author(s): Dipratnasagar, Deepratnasagar
Publisher: Agam Shrut Prakashan

View full book text
Previous | Next

Page 485
________________ जम्बूद्वीपप्रज्ञप्ति - उपाङ्गसूत्रम् ७ / २७७ र्यवसानं वाच्यं, पूर्वापरविदेहापेक्षयाऽस्त्येव तदिति चेत् सूर्ययोश्चीर्णचरणं अपरं वा सूर्यद्वयं वाच्यं, ययोश्चारविशेषाद्दक्षिणोत्तरप्रतिपत्तिसमयापेक्षयोत्तसमये पूर्वापरयोः कालविशेषप्रतिपत्तिरित्यादिको भूयान् परवचनावकाश इत्यलं प्रसङ्गेन, 'पुव्वंगेणवि' त्ति पूर्वाङ्गं चतुरशीतिवर्षलक्षप्रमाणं “पुव्वेणवित्ति पूर्वं - पूर्वाङ्गमेव चतुरशीतिवर्षलक्षगुणितं, एवं चतुरशीतिवर्षलक्षगुणितमुत्तरोत्तरं स्थानं भवति, चतुर्नवत्यधिकं चाङ्कशतमन्तिमे स्थाने भवतीति, 'पढमा ओस्सप्पिणी'ति अवसर्पिण्याः प्रथमो विभागः प्रथमाऽवसर्पिणी चाङ्कशतमन्तिमे स्थाने भवतीति, 'पढमा ओस्सप्पिणी'ति अवसर्पिण्याः प्रथमो विभागः प्रथमाऽवसर्पिणी । ४८२ 'जया णं भंते! दाहिणद्धे पढमा ओस० पडि० तया णं उत्तरद्धेवि', इत्यादि व्यक्तं, नवर नैवास्त्यवसर्पिणी नैवास्त्युत्सर्पिणी, कुत इत्याह- अवस्थितः - सर्वथा एकस्वरूपस्तत्र कालः प्रज्ञप्तः श्रमण ! हे आयुष्मन् ! इति, अथ प्रस्तुताधिकारमुपसंहरन्नाह - इत्येषा - अनन्तरोक्तस्वरूपा जंबूद्वीपप्रज्ञप्ति - आद्यद्वीपस्य यथावस्थितस्वरूपनिरूपिका ग्रन्थपद्धतिस्तस्यामस्मिन्नुपाङ्गे इत्यर्थः, सूत्रे च विभक्तिव्यत्ययः प्राकृतत्वात्, सूर्याधिकारप्रतिबद्धा पदपद्धतिर्वस्तूनां - मण्डलसङ्ख्यादीनां समासः– सूर्यप्रज्ञप्तयादिमहाग्रन्थापेक्षया संक्षेपस्तेन समाप्ता भवति । अथ चन्द्रवक्तव्यप्रश्नमाह- 'जंबुद्दीवे ण' मित्यादि, जंबूद्वीपे भदन्त ! द्वीपे चन्द्रावुदीचीनप्राचीनदिग्भागे उद्गत्य प्राचीनदक्षिणदिग्भागे आगच्छतः इत्यादि यथा सूरवक्तव्यता तथा चन्द्रवक्तव्यता, यथा वाशब्दोऽत्र गम्यः पञ्चमशतस्य दशमे उद्देशके चन्द्रनाम्नि कियत्पर्यन्तं सूत्रं ग्राह्यमित्याह-यावदवस्थितः तत्र कालः प्रज्ञप्तः हे श्रमण ! हे आयुष्मन् ! इति, अत्राप्युपसंजिहीर्षुराह - 'इच्चेसा' इत्यादि, व्याख्यानं पूर्ववत्, परं सूर्यप्रज्ञप्तिस्थाने चन्द्रप्रज्ञप्तिर्वाच्या । एतेषां ज्योतिष्काणां चारविशेषात् संवत्सरविशेषाः प्रवर्त्तवन्त इति तद्भेदप्रश्नमाह मू. (२७८) कति णं भंते! संवच्छरा पन्नत्ता ?, गो० ! पंच संवच्छरा पं०, तं०-नक्खत्तसंवच्छरे जुगसं० पमाणस े लक्खणसंवच्छरे सणिच्छरसंवच्छरे । नक्खत्तसंवच्छरे णं भंते ! कइविहे प० ?, गो० ! दुवालसविहे पं०, सावणे भद्दवए आसोए जाव आसाढे, जं वा विहफई महग्गहे दुवालसेहिं संवच्छरेहिं सव्वनक्खत्तमंडलं समाणेइ सेत्तं नक्खत्तसंवच्छरे । जुगसंवच्छरे णं भंते! कतिविहे प०गो० पंचविहे पं०, तंजहा - चंदे चंदे अभिवद्धिए चंदे अमिवद्धिए चेवेति, पढमस्स णं भंते ! चन्दसंवच्छरस्स कइ पव्वा प०?, गो० चोव्वीसं पव्वा प० । बितिअस्स णं भंते! चंदसंवच्छरस्स कइ पव्वा प०, गो० ! चउव्वीसं पव्वा प० एवं पुच्छा ततिअस्स, गो० ! छव्वीसं पव्वा प०, चउत्थस्स चंदसंवच्छरस्स चोव्वीसं पव्वा, पंचमस्स णं अहिवद्धिअस्स छव्वीसं पव्वा य प० एवामेव सपुव्वावरेणं पंचसंवच्छरिए जुए एगे चउव्वीसे पव्वसए प० सेत्तं जुगसंवच्छरे । पमाणसंवच्छरे णं भंते! कतिविहे पन्नत्ते ?, गोअमा! पंचविहे पन्नत्ते, तंजहा - नक्खत्ते चन्दे उऊ आइचे अभिवद्धिए, सेत्तं पमाणसंवच्छरे इति । लक्खणसंवच्छरे णं भंते! कतिविहे पन्नत्ते ?, गोअमा ! पंचविहे प े, तंजहा वृ. तत्र नक्षत्रेषु भवो नाक्षत्रः, किमुक्तं भवति ? - चन्द्रश्चारं चरन् यावता कालेनाभिजित आरभ्योत्तराषाढानक्षत्रपर्यन्तं गच्छति तत्प्रमाणो नाक्षत्रो मासः, यदिवा चन्द्रस्य नक्षत्रमण्डले Jain Education International For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 483 484 485 486 487 488 489 490 491 492 493 494 495 496 497 498 499 500 501 502 503 504 505 506 507 508 509 510 511 512 513 514 515 516 517 518 519 520 521 522 523 524 525 526 527 528 529 530 531 532 533 534 535 536 537 538 539 540 541 542 543 544 545 546 547 548 549 550 551 552 553 554 555 556 557 558 559 560 561 562 563 564