Book Title: Agam Suttani Satikam Part 13 Jambudwip pragnapati
Author(s): Dipratnasagar, Deepratnasagar
Publisher: Agam Shrut Prakashan

View full book text
Previous | Next

Page 483
________________ ४८० जम्बूद्वीपप्रज्ञप्ति - उपाङ्गसूत्रम् ७/२७७ स्यात्तदा कथं पूर्वेणापरेण च रात्रि स्यादिति वक्तुंयुज्येत ?, अर्द्धद्वयग्रहणेन सर्वक्षेत्रस्य गृहीतत्वात्, इतश्च दक्षिणार्द्धादिशब्देन दक्षिणादिभागमात्रमवसेयं, नत्वर्द्ध, तदा च जंबूद्वीपे द्वीपे मंदरस्य पर्वतस्य पूर्वस्यामपरस्यां च रात्रिर्भवति, तत्रैकस्यापि सूर्यस्याभावात् । इत्येवं काक्वा प्रश्ने कृते भगवानाह - 'हंता ! गोअमे' त्यादि, यदा जंबूद्वीपे द्वीपे दक्षिणार्द्धे दिवसो यवद्रात्रिर्भवतीत्यन्तं प्रत्युच्चारणीयं । त्रपरावृत्या दिवसरात्रिविभागं पृच्छन्नाह - यदा भदन्त ! जंबूद्वीपे द्वीपे मंदरस्य पर्वतस्य पूर्वेण दिवसो भवति तदा पश्चिमायामपि दिवसो भवति, प्रागुक्तयुक्तेरेव यदा च पश्चिमायां दिवसस्तदा मेरोर्दक्षिणोत्तरयो रात्रि, प्रश्नसूत्रं चैतत्, 'हंता ! गोअमे' त्यादि उत्तरसूत्रं तथैव, उक्तः सामान्यतो दिवसरात्रिविभागः, सम्प्रति तमेव विशेषत आह-यदा भदन्त ! जंबूद्वीपे द्वीपे दक्षिणार्द्धे उत्कर्षतोऽष्टादशमुहूर्त्ते दिवसो भवतीत्यादिकं सूत्रं प्रायो निगदसिद्धं, तथापि किञ्चिदेतदवृत्यादिगतं लिख्यते-इह किल सूर्यस्य चतुरशीत्यधिकं मण्डलशतं भवति, तत्र किल जंबूद्वीपमध्ये पञ्चषष्टिर्मण्डलानि भवन्ति, एकोनविंशत्यधिकं च शतं तेषां लवणसमुद्रमध्ये भवति, तत्र सर्वाभ्यन्तरे मण्डले यदा सूर्यो भवति तदाऽष्टादशमुहूर्तो दिवसो भवति, यदा सर्वबाह्ये मण्डले सूर्यो भवति तदा सर्वजघन्यो द्वादशमुहूर्ती दिवसो भवति, ततश्च द्वितीयमण्डलादारभ्य प्रतिमण्डलं द्वाभ्यां मुहूर्तैकषष्टिभागाभ्यां दिनस्य वृद्धी त्र्यशीत्यधिकशततममण्डले षट् मुहूर्त्ता वर्द्धन्त इत्येवमष्टादशमुहूर्तो दिवसो भवति । 1 अत एव द्वादशमुहूर्ता रात्रिर्भवति, त्रिंशन्मुहूर्त्तत्वादहोरात्रस्य, 'अट्ठारसमुहुत्ताणंतरे' त्ति यदा सर्वाभ्यन्तर-मण्डलानन्तरे मण्डले सूर्यो भवति तदा मुहूर्तैकषष्टिभागाद्वयहीनोऽष्टादशमुहूर्त्तो दिवसो भवति, स चाष्टादशमुहूर्त्ताद्दिवसादनन्तरोऽष्टादशमुहूर्त्तानन्तर इति व्यपदिष्टः, तदा द्वाभ्यां मुहूर्तेक षष्टिभागाभ्यामधिका द्वादशमुहूर्ता रात्रिर्भवति यावता भागेन दिनं हीयते तावता रात्रिर्वर्द्धते, त्रिंशन्मुहूर्तत्वादहोरात्रस्येति, एवं एएणं कमेणं' ति एवमित्युपसंहारे एतेनानन्तरोक्तेनोपायेन 'जया णं भंते! जंबुद्दीवे दीवे दाहिणद्धे' इत्येतेनेत्यर्थः, 'ऊसारे अव्वं 'ति दिनमानं ह्रस्वीकार्यं, तदेव दर्शयति-तत्र सर्वाभ्यन्तरमण्डलानन्तरमण्डलादार - भ्यैकत्रिंशत्तममण्डलार्द्धे यदा सूर्यस्तदा सप्तदशमुहूर्तो दिवसो भवति, पूर्वोक्तहानिक्रमेण त्रयोदशमुहूर्त्ता च रात्रिरिति, 'सत्तर समुहुत्ताणंतरे' त्ति मुहूर्तैकषष्टिभागद्वयहीनसप्तदशमुहूर्त्तप्रमाणी दिवसोऽयं च द्वितीयादारभ्य द्वात्रिंशत्तममण्डलार्द्धे भवति, एवमनन्तरत्वमन्यत्राप्यह्यं, मुहर्तेकषष्टिभागद्वयेन सातिरेकत्वं, एवं सर्वत्र, 'सोलसमुहुत्ते दिवसेत्ति, द्वितीयादारभ्यैकषष्टितममण्डले षोडशमुहूर्तो दिवसो भवति, 'पन्नरसमुहुत्ते दिवसे' त्तिद्विनवतितमण्डलार्द्धे वर्त्तमाने सूर्ये 'चोद्दसमुहुत्ते दिवसे' त्ति द्वाविंशत्युत्तरशततमे मण्डले 'तेरसमुहुत्ते दिवसे' त्ति सार्द्धद्विपञ्चशदुत्तरशततमे मण्डले 'बारसमुहुत्ते दिवसे'त्ति त्र्यशीत्यधिकशततमे मण्डले सर्वबाह्ये इत्यर्थः ! । कालाधिकारादिदमाह - 'जया णं भंते! जंबुद्दीवे २ दाहिणद्धे वासाण' मित्यादि, 'वासाण'मिति चतुर्मासप्रमाणवर्षाकालस्य सम्बन्धी प्रथमः- आद्यः समयः क्षणः प्रतिपद्यते, सम्पद्यते भवतीत्यर्थः, तदोत्तरार्द्धेऽपि वर्षाणां प्रथमः समयो भवति, समकालनैयत्येन दक्षिणार्द्धे उत्तरार्द्धे च सूर्ययोश्चारभावात्, यदा चोत्तरार्द्धे वर्षाकालस्य प्रथमः समयः तदा जंबूद्वीपे द्वीपे मंदरस्य पर्तस्य पूर्वापरयोर्दिशोरनन्तरपुरस्कृते समये अनन्तरो - निर्व्यवधानो दक्षिणार्द्धवर्षाप्रथमतापेक्षया स Jain Education International For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 481 482 483 484 485 486 487 488 489 490 491 492 493 494 495 496 497 498 499 500 501 502 503 504 505 506 507 508 509 510 511 512 513 514 515 516 517 518 519 520 521 522 523 524 525 526 527 528 529 530 531 532 533 534 535 536 537 538 539 540 541 542 543 544 545 546 547 548 549 550 551 552 553 554 555 556 557 558 559 560 561 562 563 564