Book Title: Agam Suttani Satikam Part 13 Jambudwip pragnapati
Author(s): Dipratnasagar, Deepratnasagar
Publisher: Agam Shrut Prakashan

View full book text
Previous | Next

Page 473
________________ ४७० जम्बूद्वीपप्रज्ञप्ति-उपाङ्गसूत्रम् ७/२७५ अथ तृतीयं 'जया ण'मित्यादि, यदा भदन्त ! चन्द्रः अभ्यन्तरतृतीयमण्डलमुपसंक्रम्य चारंचरति तदा एकैकेन मुहूर्तेन कियत् क्षेत्रं गच्छति?, गौतम ! पञ्च योजनसहस्राणि अशीति च योजनानि त्रयोदश च भागसहस्राणि त्रीणि च एकोनत्रिंशदधिकानि भागशतानि गच्छति, मण्डलं त्रयोदशभिः सहनैरित्यादि पूर्ववत्, अत्रोपपत्तिर्यथा-अत्र मण्डले परिरयः ३१५५४९ एतद् द्वाभ्यामेकविंशत्यधिकाभयां शताभ्यां गुण्यते जातं ६९७३६३२९, एषां त्रयोदशभिः सहस्र सप्तभिः शतैः पञ्चविंशत्यधिकैर्भागे हृते लब्धानि पञ्च सहस्राण्यशीत्यधिकानि ५०८०, शेषं त्रयोदश सहस्राणि त्रीणि शताण्येकोनत्रिंशदधिकानि भागानां १३३२९/... ____ अथ चतुर्थादिमण्डलेष्वतिदेशमाह-एवं खलु एएण'मित्यादि, पूर्ववत्, निष्क्रामन् चन्द्रस्तदनन्तरात्यावतशब्दात् मण्डलात्तदनन्तरंमण्डलं संक्रामन् २ त्रीणि २ योजनानिषन्नवतिं च पञ्चपञ्चाशदधिकानि भागशतान्येकैकस्मिन् मण्डले मुहूर्तगतिभिवर्द्धयन् २ सर्वबाह्यमण्डलमुपसंक्रम्य चारं चरति, कथमेतदवसीयत इति चेत्, उच्यते, प्रतिचन्द्रमण्डलं परिरयवृद्धिढे शते त्रिंशदधिके, अस्य च त्रयोदशसहनदिकेन राशिना भागे ते लब्धानि त्रीणि योजनानिशेषं षन्नवति पञ्चपञ्चाशदधिकानि भागशतानि ३ ९६५५/,,, अथ पश्चानुपूर्व्या पृच्छति-'जया णमित्यादि, यदा भदन्त ! चन्द्रः सर्वबाह्यमण्डलमुपसंक्रम्य चारं चरति तदा एकैकेन मुहूर्तेन कियत् क्षेत्रंगच्छति?, गौतम! पञ्चयोजनसहस्राणि एकंचपञ्चविंशत्यधिकंयोजनशतमेकोनसप्ततिं च नवधिकानि भागशतानि गच्छति, मण्डलं त्रयोदशभिर्भागसहनैः सप्तभिश्च यावच्छब्दात् पञ्चविंशत्यधिकैः शतैर्विभझअयष अत्रोपपत्ति-अत्रमण्डले परिरयपरिमाणं३१८३१५ एतद् द्वाभ्यामेकविंसत्यधिकाभ्यांशताभ्यांगुण्यते जातं७०३४७६१५एषांत्रोयदशभिःसहनेःसप्तभिः शतैः पञ्चविंशत्यधिकैर्भागे हृते लब्धानि ५१२५ शेषं भागा ६९९०/... ____ अथात्र मण्डले दृष्टिपथप्राप्ततामाह-'तया णमिति, तदा-सर्वबाह्यमण्डलचरणकाले इहगतानांमनुष्याणामेकत्रिंशता योजनसहनैः अष्टभिश्चैकत्रिंशदधिकैः योजनशतैश्चन्द्रश्चक्षुस्पर्श शीघ्रमागच्छति, अत्र सूर्याधिकारोक्तं 'तीसाए सहिभाए इत्यधिकंमन्तव्यं, उपपत्तिस्तु प्राग्वत्, अथ द्वितीयं मण्डलं-'जया णमित्यादि, यदा भदन्त ! सर्वबाह्यानन्तरं द्वितीयमित्यादि प्रश्नः प्राग्वत्, गौतम! पञ्च योजनसहस्राणि एकंचैकविंशत्यधिकंयोजनशतं एकादशचषष्ट्यधिकानि भागसहस्राणि गच्छति, मण्डलं त्रयोदशभिर्यावतपदात् सहन सप्तभिः शतैः पञ्चविंशत्यधिकैः छित्वा, अत्रोपपत्ति-अत्रमण्डले परिरयः ३१८०८५ एतद् वाभ्यामेकविंशत्यधिकाभ्यां शताभ्यां गुण्यते जातं७०२९६७८५ एषां १३७२५ एभिर्भागे हृते लब्धं ५१२१ शेषं १०६०, अथ तृतीयं-'जया ण मित्यादि, प्रश्नः प्राग्वत्, गौतम ! पञ्च योजनसहस्राण्येकं चाष्टादशाधिकं योजनशतं चतुर्दश च पञ्चाधिकानि भागशतानि गच्छति, मण्डलं त्रयोदशभिः सहनै सप्तभिः शतैः पञ्चविंशत्यधिकैः छित्वा, अत्रोपपत्ति-अत्रमण्डले परिरयप्रमाणं ३१७८५५ एतद्धाभ्यामेकविंशत्यधिकाभ्यांशताभ्यां गुण्यतेजातं७०२४५९५५ एषां १३७२५ एभिर्भागे हृते लब्धं ५११८शेष भागा४०५/-... अथ चतुर्थादिमण्डलेष्वतिदेशमाह-‘एवं खलु'इत्यादि, एतेनोपायेन यावच्छब्दात् 'पविसमाणेचंदे तयानंतराओ मंडलाओ तयनंतरं मंडल मिति ग्राह्यं, १३७२५ Jain Education International For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 471 472 473 474 475 476 477 478 479 480 481 482 483 484 485 486 487 488 489 490 491 492 493 494 495 496 497 498 499 500 501 502 503 504 505 506 507 508 509 510 511 512 513 514 515 516 517 518 519 520 521 522 523 524 525 526 527 528 529 530 531 532 533 534 535 536 537 538 539 540 541 542 543 544 545 546 547 548 549 550 551 552 553 554 555 556 557 558 559 560 561 562 563 564