________________
४७०
जम्बूद्वीपप्रज्ञप्ति-उपाङ्गसूत्रम् ७/२७५ अथ तृतीयं 'जया ण'मित्यादि, यदा भदन्त ! चन्द्रः अभ्यन्तरतृतीयमण्डलमुपसंक्रम्य चारंचरति तदा एकैकेन मुहूर्तेन कियत् क्षेत्रं गच्छति?, गौतम ! पञ्च योजनसहस्राणि अशीति च योजनानि त्रयोदश च भागसहस्राणि त्रीणि च एकोनत्रिंशदधिकानि भागशतानि गच्छति, मण्डलं त्रयोदशभिः सहनैरित्यादि पूर्ववत्, अत्रोपपत्तिर्यथा-अत्र मण्डले परिरयः ३१५५४९ एतद् द्वाभ्यामेकविंशत्यधिकाभयां शताभ्यां गुण्यते जातं ६९७३६३२९, एषां त्रयोदशभिः सहस्र सप्तभिः शतैः पञ्चविंशत्यधिकैर्भागे हृते लब्धानि पञ्च सहस्राण्यशीत्यधिकानि ५०८०, शेषं त्रयोदश सहस्राणि त्रीणि शताण्येकोनत्रिंशदधिकानि भागानां १३३२९/... ____ अथ चतुर्थादिमण्डलेष्वतिदेशमाह-एवं खलु एएण'मित्यादि, पूर्ववत्, निष्क्रामन् चन्द्रस्तदनन्तरात्यावतशब्दात् मण्डलात्तदनन्तरंमण्डलं संक्रामन् २ त्रीणि २ योजनानिषन्नवतिं च पञ्चपञ्चाशदधिकानि भागशतान्येकैकस्मिन् मण्डले मुहूर्तगतिभिवर्द्धयन् २ सर्वबाह्यमण्डलमुपसंक्रम्य चारं चरति, कथमेतदवसीयत इति चेत्, उच्यते, प्रतिचन्द्रमण्डलं परिरयवृद्धिढे शते त्रिंशदधिके, अस्य च त्रयोदशसहनदिकेन राशिना भागे ते लब्धानि त्रीणि योजनानिशेषं षन्नवति पञ्चपञ्चाशदधिकानि भागशतानि ३ ९६५५/,,, अथ पश्चानुपूर्व्या पृच्छति-'जया णमित्यादि, यदा भदन्त ! चन्द्रः सर्वबाह्यमण्डलमुपसंक्रम्य चारं चरति तदा एकैकेन मुहूर्तेन कियत् क्षेत्रंगच्छति?, गौतम! पञ्चयोजनसहस्राणि एकंचपञ्चविंशत्यधिकंयोजनशतमेकोनसप्ततिं च नवधिकानि भागशतानि गच्छति, मण्डलं त्रयोदशभिर्भागसहनैः सप्तभिश्च यावच्छब्दात् पञ्चविंशत्यधिकैः शतैर्विभझअयष अत्रोपपत्ति-अत्रमण्डले परिरयपरिमाणं३१८३१५ एतद् द्वाभ्यामेकविंसत्यधिकाभ्यांशताभ्यांगुण्यते जातं७०३४७६१५एषांत्रोयदशभिःसहनेःसप्तभिः शतैः पञ्चविंशत्यधिकैर्भागे हृते लब्धानि ५१२५ शेषं भागा ६९९०/...
____ अथात्र मण्डले दृष्टिपथप्राप्ततामाह-'तया णमिति, तदा-सर्वबाह्यमण्डलचरणकाले इहगतानांमनुष्याणामेकत्रिंशता योजनसहनैः अष्टभिश्चैकत्रिंशदधिकैः योजनशतैश्चन्द्रश्चक्षुस्पर्श शीघ्रमागच्छति, अत्र सूर्याधिकारोक्तं 'तीसाए सहिभाए इत्यधिकंमन्तव्यं, उपपत्तिस्तु प्राग्वत्, अथ द्वितीयं मण्डलं-'जया णमित्यादि, यदा भदन्त ! सर्वबाह्यानन्तरं द्वितीयमित्यादि प्रश्नः प्राग्वत्, गौतम! पञ्च योजनसहस्राणि एकंचैकविंशत्यधिकंयोजनशतं एकादशचषष्ट्यधिकानि भागसहस्राणि गच्छति, मण्डलं त्रयोदशभिर्यावतपदात् सहन सप्तभिः शतैः पञ्चविंशत्यधिकैः छित्वा, अत्रोपपत्ति-अत्रमण्डले परिरयः ३१८०८५ एतद् वाभ्यामेकविंशत्यधिकाभ्यां शताभ्यां गुण्यते जातं७०२९६७८५ एषां १३७२५ एभिर्भागे हृते लब्धं ५१२१ शेषं १०६०,
अथ तृतीयं-'जया ण मित्यादि, प्रश्नः प्राग्वत्, गौतम ! पञ्च योजनसहस्राण्येकं चाष्टादशाधिकं योजनशतं चतुर्दश च पञ्चाधिकानि भागशतानि गच्छति, मण्डलं त्रयोदशभिः सहनै सप्तभिः शतैः पञ्चविंशत्यधिकैः छित्वा, अत्रोपपत्ति-अत्रमण्डले परिरयप्रमाणं ३१७८५५ एतद्धाभ्यामेकविंशत्यधिकाभ्यांशताभ्यां गुण्यतेजातं७०२४५९५५ एषां १३७२५ एभिर्भागे हृते लब्धं ५११८शेष भागा४०५/-... अथ चतुर्थादिमण्डलेष्वतिदेशमाह-‘एवं खलु'इत्यादि, एतेनोपायेन यावच्छब्दात् 'पविसमाणेचंदे तयानंतराओ मंडलाओ तयनंतरं मंडल मिति ग्राह्यं,
१३७२५
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org