SearchBrowseAboutContactDonate
Page Preview
Page 472
Loading...
Download File
Download File
Page Text
________________ वक्षस्कारः-७ ४६९ मुहूर्तभागगत्यवसरे विधास्यते, मुहूर्तानां सवर्णनार्थमेकविंशत्यधिकशतद्वयेन गुणने त्रयोविंशत्यंशप्रक्षेपे च जातं १३७२५, अतः समभागानयनार्थं मण्डलस्याप्येकविंशत्यधिकशतद्वयेन गुणनं सङ्गतमेवेति। अयंभावः यथासूर्यषष्ट्या मुहूर्तेर्मण्डलंसमापयतिशीघ्रगतित्वाद् लघुविमानगामितवाच्च तथा चन्द्रो द्वाषष्ट्या मुहूर्तेः स्त्रयोविंशत्येक विंशत्यधिक धिकशतद्वयभागैर्मंडलं पूरयति मन्दगतित्वाद् गुरुविमानगामित्वाच्च, तेन मण्डलपूर्तिकालेन मण्डलपरिधिभक्तः सन्मुहूर्तगतिं प्रयच्छतीति सर्वसम्मतं, आह-- एकविंशत्यधिकशतद्वयभागकरणे किंबीजमितिचेद्, उच्यते, मण्डलकालानयने अस्यैव छेदकराशेः समानयनात्, मण्डलकालनिरूपणार्थमिदंत्रैराशिकं-यदिसप्तदशभिशतैः मण्डलकालानयने अस्यैवछेदकराशेः समानयनात्, मण्डलकालनिरूपणार्थमिदं रात्रिन्दिवानां लभ्यन्ते ततो द्वाभ्यामर्द्धमण्डलाभ्यामेकेनमण्डलेनेतिभावः कति रात्रिन्दिवानि लभ्यन्ते?, राशित्रयस्थापना१७६८।१८३०२ अत्रान्त्येन राशिनाद्विकलक्षणेनमध्यस्य राशेः १८३० रूपस्य गुणने जातानि षट्त्रिंशच्छतानि षष्ट्यधिकानि ३६६० तेषामायेन राशिना १७६८ रूपेण भागे हृते लब्धे द्वे रात्रिन्दिवे, शेषं तिष्ठति चतुर्विंशत्यधिकं शतं १२४ तत एकस्मिन् रात्रिन्दिवे त्रिंशन्मुहूर्ता इति तस्य त्रिंशता गुणने जातानि सप्तत्रिंशच्छतानि विंशत्यधिकानि ३७२० तेषां सप्तदर्शभि शतैः अष्टषष्ट्यधिकैर्भागे हृते लब्धौ मुहूत्र्ती, शेषाः १८४, अथ छेद्यच्छेदकराश्योरष्टकेनापर्तने जातः छेद्यो राशिस्त्रयोविंशति छेदकराशिरेकविंशत्यधिकशतद्वयरूप इति । अथास्य दृष्टिपथप्राप्ततामाह-'तया णं इहगयस्स'इत्यादि, तदा इहगतानां मनुष्याणां सप्तचत्वारिंशता योजनसहनैाभ्यां च त्रिषष्ट्यधिकाभ्यां योजनशताभ्यामेकविंशत्या च षष्टिभागैर्योजनस्य चन्द्रः चक्षुस्पर्श शीघ्रमागच्छति, अत्रोपपत्ति सूर्याधिकारे दर्शितापिकिञ्चिद्विशेषाधानाय दर्शाते, यथा सूर्यस्य सर्वाभ्यन्तरमण्डले जंबूद्वीपचक्रवालपरिधेर्दशभागीकृतस्य दश त्रिभागान् यावत्तापक्षेत्र तथास्यापि प्रकाशक्षेत्रं तावदेव पूर्वतोऽपरतश्च तस्याः चक्षुपथप्राप्ततापरिमाणमायाति, यत्तु षष्टिभागीकृतयोजनसत्कैकविंशतिभागाधिकत्वंतत्तु सम्प्रदायगम्यं, अन्यथा चन्द्राधिकारे साधिकद्वाषष्टिमुहूर्तप्रमाणमण्डलपूर्तिकालस्य छेदराशित्वेन भणनात् सूर्याधिकारे वाच्यस्य षष्टिमुहूर्तप्रमाणमण्डलपूर्तिकालरुपस्य छेदराशेरनुपपद्यमानत्वात्। अथ द्वितीयमण्डले मुहूर्तगतिमाह-'तया णं एगमेगेणं मुहुत्तेण'मिति गम्यते, कियत् क्षेत्रंगच्छति?, गौतम! पञ्च योजनसहस्राणि सप्तसप्ततिं च योजनानिषट्त्रिंशतंच चतुःसप्तत्यधिकानि भागशतानि गच्छति, मण्डलं त्रयोदशभि सहसैः यावत्पदात् ‘सत्तहि अ पणवीसेहि सएहि मिति ग्रहामु, छित्वा-विभज्य, एतत् सूत्रप्राग्भावितार्थमिति नेह पुनरुच्यते, अत्रोपपत्तिः द्वितीयचन्द्रमण्डले परिरयपरिमाणं३१५३१९ एतत्द्वाभ्यामेकविंशत्यधिकाभ्यांशताभ्यांगुण्यते जातं ६९६८५४९९ एषां त्रयोदशभिः सहसैः सप्तभिः शतैः पञ्चविंशत्यधिकैर्भागे लब्धानि पञ्च योजनसहस्राणि सप्तत्यधिकानि ५०७७, शेष षटत्रिशच्छतानि चतुःसप्तत्यधिकानि भागानां १३७२५ ३६०/१३७२५ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003317
Book TitleAgam Suttani Satikam Part 13 Jambudwip pragnapati
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherAgam Shrut Prakashan
Publication Year2000
Total Pages564
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Agam, Canon, & agam_jambudwipapragnapti
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy