Book Title: Agam Suttani Satikam Part 13 Jambudwip pragnapati
Author(s): Dipratnasagar, Deepratnasagar
Publisher: Agam Shrut Prakashan

View full book text
Previous | Next

Page 480
________________ वक्षस्कारः-७ ४७७ राशिस्त्रिभिः शतैः सप्तषष्ट्यधिकैर्गुण्यते जातानि त्रीण्येव शतानि सप्तषष्ट्यधिकानि तैर्मध्यो राशिगुण्यते जाताश्चतस्रः कोट्यो द्वेलक्षे षन्नवति सहस्राणिषट्शतानि, तेषामाद्येन राशिना एकविंशतिसहस्राणिनवशतानिषष्ट्यधिकानि इत्येवंरूपेण भागो हियते, लब्धान्यष्टादशशतानि पञ्चत्रिंशदधिकानि, एतावतो भागानक्षत्रं प्रतिमुहूर्त गच्छति, इदं च भागात्मकं गतिविचारणं चन्द्रादित्रयस्य यथोत्तरं गतिशीघ्रत्वे सप्रयोजनं, तथाहि सर्वेभ्यो नक्षत्राणि शीघ्रगतीनि, मण्डलस्योक्तागीकृतस्य पञ्चत्रिंशदधिकाष्टादशशतभागानामेकैकस्मिन् मुहूर्तेआक्रमणात्, तेभ्यो मन्दगतयः सूर्या, एकैकस्मिन् मुहूर्ते त्रिंशदधिकाष्टादशभागानामाक्रमणात्, तेभ्यश्चन्द्रा मन्दगतयः एकैकस्मिन् मुहूर्ते अष्टषष्ट्यधिकसप्तशतभागानामाक्रमणात्, ग्रहास्तु वक्रानुवक्रादिगतिभावतोऽनियतगतिकास्तेन न तेषां मण्डलादिचिन्ता नापि गतिप्ररूपणा, तारकाणामप्यवस्थितमण्डलकत्वाच्चन्द्रादिभि सह योगाभावचिन्तनाच्च न मण्डलादिप्ररूपणा कृता । सम्प्रति सूर्यस्योदगमनास्तमयनेअधिकृत्यबहवो मिथ्याभिनिविष्टबुद्धयो विप्रतिपन्नास्तेन तद्विप्रतिपत्तिमपाकर्तु प्रश्नमाह मू. (२७७) जंबुद्दीवेणं भंते! दीवे सूरिआउदीणपाईणमुग्गच्छ पाईणदाहिणमागच्छंति १पाइणदाहिणमुग्गच्छ दाहिणपडिणमागच्छंति २ दाहिणपडीणमुग्गच्छ पडीणउदीणमागच्छंत ३ पडीणउदीममुग्गच्छ उदीणपाईणमागच्छंति ४?, हंता गोअमा! जहा पंचमसए पढमे उद्देसे जाव नेवत्थि उस्सप्पिणी अवट्ठिए णं तत्थ काले पं० समणाउसो !, इच्चेसा जंबुद्दीवपन्नत्ती सूरपन्नत्ती वत्थुसमासेणं सम्मत्ता भवइ । जंबुद्दीवे णं भंते ! दीवे चंदिमा उदीणपाईणमुग्गच्छ पाईणदाहिणमागच्छंति जहा सूरवत्तव्वया जहा पंचमसयस्स दसमे उद्देसे जाव अवट्ठिएणंतत्थ काले प०सम०, इच्चेसा जंबुद्दीवपन्नत्ती वत्थुसमासेणं सम्मत्ता भवइ । वृ. 'जंबुद्दीवे ण'मित्यादि, जंबूद्वीपे भदन्त ! द्वीपे द्वौ सूर्यौ जंबूद्वीपे द्वयोरेव भावात्, उदीचीनप्राचीनं उदगेव उदीचीनंत तदुदीच्या आसन्नत्वात् प्राचीनंच प्राच्याः प्रत्यासन्नत्वादुदीचीनप्राचीनं, अत्र स्वार्थे इन् प्रत्ययः, दिगन्तरं क्षेत्रदिगपेक्षयोत्तरपूर्वस्यामीशानकोणे इत्यर्थः, अत्र प्राकृतत्वात् सप्तम्यर्थे द्वितीया, उद्गत्य-पूर्वविदेहापेक्षयोदयं प्राप्य प्राचीनदक्षिणे दिगन्तरे प्रागदक्षिणस्यामाग्रेयकोणे इत्यर्थः आगच्छतः क्रमेणैवास्तं यात इत्यर्थः, इहचोदगमनमस्तमयनं चद्रष्टलोकविवक्षयाऽवसेयं, तथाहि-येषामध्श्यौसन्तौ श्यौ तौ स्यातां, ते तयोरुदयं व्यवहरन्ति, येषां तु दृश्यौ सन्तावश्यौ तौ स्तस्ते तयोस्तमयं व्यवहरन्तीत्यनियतावुदयास्तमयाविति, अत्र काकुपाठात् प्रश्नोऽवगन्तव्यः, ततो भरतादिक्षेत्रापेक्षया प्रागदक्षिणस्यामुदगत्य दक्षिणप्रतीच्यामागच्छतस्तत्रापि दक्षिणप्रतीच्यामपरविदेहापेक्षयेद्गत्य प्रतीचीनोदीचीने-वायव्यकोणे आगच्छतस्तत्रापि च वायव्यामैरावतादिक्षेत्रायोद्गत्योदीचीनप्रतीचीनेईशानकोणे आगच्छतः, एवं सामान्यतः सूर्ययोरुदयविधिः ।विशेषतः पुनरेवं-यदैकः सूर्य आग्नेयकोणे उद्गच्छति तत्रोदगतश्च भरतादीनि मेरुदक्षिणदिग्वर्तीनि क्षेत्राणि प्रकाशयति तदा परोऽपि वायव्यकोणे उद्गतो मेरुत्तरदिग्भा-वीन्यैरावतादीनि क्षेत्राणि प्रकाशयति, भारतश्चसूर्यो मण्डलभ्राम्या भ्रमन् नैऋतकोणे उद्गतः सन्नपरमहाविदेहान् प्रकाशयति, ऐरावतस्तु ऐशान्यामुद्गतः पूर्वविदेहान Jain Education International For Private & Personal Use Only ___www.jainelibrary.org

Loading...

Page Navigation
1 ... 478 479 480 481 482 483 484 485 486 487 488 489 490 491 492 493 494 495 496 497 498 499 500 501 502 503 504 505 506 507 508 509 510 511 512 513 514 515 516 517 518 519 520 521 522 523 524 525 526 527 528 529 530 531 532 533 534 535 536 537 538 539 540 541 542 543 544 545 546 547 548 549 550 551 552 553 554 555 556 557 558 559 560 561 562 563 564