Book Title: Agam Suttani Satikam Part 13 Jambudwip pragnapati
Author(s): Dipratnasagar, Deepratnasagar
Publisher: Agam Shrut Prakashan

View full book text
Previous | Next

Page 456
________________ वक्षस्कारः-७ ४५३ सर्वाभ्यन्तरमण्डलवर्ती सूर्यो मंदरदिशिजंबूद्वीपस्य पूर्वतोऽपरतश्चाशीत्यदिकं शतं योजनानामवगाह्यचारंचरतितेनाशीत्यधिकशतयोजनानि द्विगुणानि ३६० अस्य वर्गदशगुणवर्गमूलानयने जातानि ११३८ एतच्च द्वीपपरिधितः ३१६२२७ रूपात् शोध्यते ततः स्थितं ३१५०८९, अस्य दशभिर्भागेआगतं ३१५०८अवशिष्टभागाः, अनयोरंशच्छेदयोः षड्भिर्गुणने जातं, */- अथास्य राशेस्त्रिगुणनेसम्पद्यतेयथोक्तराशिः, तथाहि-९४५२६२/.. इदंच सूक्ष्मेक्षिकया दर्शितं, न चैतत् स्वमत्युप्रेक्षितमिति भाव्यं, श्रीमुनिचन्द्रसूरिकृतसूर्यमंडलविचारेऽस्य सुविचारितत्वात्, प्रस्तुतेचस्थूलन-याश्रयणेन द्वीपर्यन्तमात्रविवक्षणेन सूत्रोक्तं प्रमाणं सम्पद्यते, द्वीपोदधिपरिधेरेव सर्वत्राप्यागमेदशांशकल्पनादिश्रवणात्, अनेनपरिधितः परतोलवणोदषड्भागं यावत्प्राप्यमाणेतापक्षेत्रेतच्चक्रवालक्षेत्रानुसारेणतत्र विष्कम्भसम्भवात्परमविष्कम्भस्तत्रकथनीय इति निरस्तं, अयमेव चतुर्नवतिसहस्रपञ्चशतादियोजनादिको राशिर्बहुबहुश्रुतैः प्रमाणीकृतः करणसंवादित्वात्, तथाहि-स्वस्वमण्डलपरिधि षष्ट्य भक्तो मुहूर्तगतिं प्रयच्छति, सा च दिवसार्द्धगतमुहूर्तराशिना गुणिताचक्षुस्पर्श साचोदयतः सूर्यस्याग्रतोयावानस्तमयतश्च पृष्ठतोऽपि तावानिति द्विगुणितः सन् तापक्षेत्रं भवति, एतच्च चक्षुस्पर्शद्वारे सुव्यक्तं निरूपितमस्ति, इदं च तापक्षेत्रकरणं सर्वबा- ह्यमण्डलसत्कतापक्षेत्रबाहानिरूपणे विभावयिष्यत इति नात्रोदाह्रियते, यदुक्तं चेत् दशभागान् प्रकाशयति इति, तत्र भागः षणमुहूर्ताक्रमणीयक्षेत्रप्रमाणः, कथं ? सर्वाभ्यन्तरे मण्डले चरति सूर्ये दिवसोऽष्टादशमुहूर्त्तमानः नवमुहूर्ताक्रमणीयेच क्षेत्रे स्थितः सूर्यो दृश्यो भवति तत एतावप्रमाणं सूर्यात्प्राक्तापक्षेत्रंतावच्च अपरतोऽपि, इत्यं चाष्टादशमुहूर्ताक्रमणयक्षेत्रप्रमाणमेकस्य सूर्यस्य तापक्षेत्रं, तच्च किल दशभागत्रयात्मकं ततो भवत्येकस्मिन् दशभागे षण्मुहूर्ताक्रमणीयक्षेत्रप्रमाणतेति । सम्प्रतिसामस्त्येनायामतस्तापक्षेत्रपरिमाणंपिपृच्छिषुराह-'तयाण'मित्यादि, यदा भगवन् एतावांस्तापक्षेत्रपरमविष्कम्भ इति गम्यं तदा भगवंस्तापक्षेत्रं सामस्त्येन दक्षिणोत्तरायततया कियदायामेन प्रज्ञप्तम् ?, भगवानाह-गौतम! अष्टसप्ततिंयोजनसहस्राणि त्रीणिच त्रयस्त्रिंशदधिकानि योजनशतानि योजनस्यैकस्य त्रिभागं च यावदायामेन प्रज्ञप्तं, पञ्चचत्वारिंशद्योजनसहस्राणि द्वीपगतानि, त्रयस्त्रिंशद्योजनसहस्राणि त्रीणि च योजनशतानि त्रयस्त्रिंशदधिकानि उपरिच योजनविभागयुक्तानि लवणगतानि, द्वयोः सङ्कलने यथोक्तं मानं, इदं च दक्षिणोत्तरत आयाम-परिमाणमवस्थितं न क्वापि मण्डलचारे विपरिवर्तेतेति । मू. (२६१) मेरुस्स मज्झयारे जाव य लवणस्स रुंदछब्भागो। तावायामो एसो सगडुद्धीसंठिओ नियमा॥ वृ. एनमेवार्थं सामस्त्येन द्रढयति-'मेरुस्स मज्झयारे' इत्यादि, इह मेरुणा सूर्यप्रकाशः प्रतिहन्यत इत्येकेषां मतं नेत्यपरेषां, तत्राद्यानां मते इतंय सम्मतिरूपा गाथा, तस्मिन् पक्षे एवं व्याख्येया-करणं कारो मध्ये कारो मध्यकारः-मध्ये करणं मेरोस्ततस्मिन् सति, कोऽर्थः ? - चक्रवालक्षेत्रतापक्षेत्रस्य मेरुं मध्ये कृत्वा यावल्लवणस्य रुंदस्य-निर्देशस्य भावप्रधानत्वाद्रुन्दतायाः-विस्तारस्यषड्भागः-षष्ठोभागः एतावप्रमाणः तापस्य-तापक्षेत्रस्यायामः, तन्नमेरोरारम्य Jain Education International For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 454 455 456 457 458 459 460 461 462 463 464 465 466 467 468 469 470 471 472 473 474 475 476 477 478 479 480 481 482 483 484 485 486 487 488 489 490 491 492 493 494 495 496 497 498 499 500 501 502 503 504 505 506 507 508 509 510 511 512 513 514 515 516 517 518 519 520 521 522 523 524 525 526 527 528 529 530 531 532 533 534 535 536 537 538 539 540 541 542 543 544 545 546 547 548 549 550 551 552 553 554 555 556 557 558 559 560 561 562 563 564