Book Title: Agam Suttani Satikam Part 13 Jambudwip pragnapati
Author(s): Dipratnasagar, Deepratnasagar
Publisher: Agam Shrut Prakashan

View full book text
Previous | Next

Page 466
________________ वक्षस्कारः-७ ४६३ ततः पञ्चत्रिंशचतुर्दशभिर्गुण्यन्ते जातानि चत्वारि योजनशतानि नवत्यधिकानि येऽपि च त्रिंशदेकषष्टिभागास्तेऽपि चतुर्दशभिर्गुण्यन्ते जातानि चत्वारि शतानि विंशत्यधिकानि, अयं चराशिरेकषष्टिभागात्मकस्तेन एकषष्टिभागास्तिष्ठन्ति, येच एकस्यैकषष्टिभागस्य सत्काश्चत्वारः सप्तभागास्तेऽपि चतुर्दशभिर्गुण्यन्ते जाताः षट्पञ्चाशत तेषां सप्तभिर्भागे हृते लब्धा अष्टावेकषष्टिभागास्तेऽनन्तरोक्तचतुःपञ्चाशतिप्रक्षिप्यन्तेजाता द्वाषष्टिः तत्रैकषष्टिभागैर्योजनं लब्धं तच्च योजनराशौ प्रक्षिप्यते एकश्चैकषष्टिभागः शेषः ४९७ योजन'..।। इदं च मण्डलान्तरक्षेत्रं, योऽपि च बिम्बक्षेत्रराशिस्त्रयोदशयोजनसप्तचत्वारिंशदेकषष्टिभागात्मकः सोऽपि मण्डलान्तरराशौप्रक्षिप्यतेजातंयोजनानि ५१०, यश्चपूर्वोद्धरितः एकः एकषष्टिभागः स सप्तचत्वारिंशति प्रक्षिप्यते जातं ४८ एकषष्टिभागाः, ननु पञ्चदशसुमण्डलेषु चतुर्दशान्तरालसम्भावाच्चतुर्दशभिर्भजनं युक्तिमत्, सप्तवत्वारो भागा इति कथं सङ्गच्छते ? उच्यते मण्डलान्तरक्षेत्र राशेः ४९७', मण्डलान्तरैश्चतुर्दशभिर्भजने लब्धानि ३५ योजनानि, उद्धरितस्य योजनराशेरेकषष्ट्या गुणने मूलराशिसत्कैकषष्टिभागप्रक्षेपे च जातं ४२८ एषां चतुर्दशभिर्भजने आगतोऽशराशिः ३० शेषा अष्टौ तेषां चतुर्दशभिर्भागाप्राप्तौ लाघवार्थं द्वाभ्यामपवर्तने जातं भाज्यभाजकराश्योः । इति सुस्थं। मू. (२७१) चंदमंडलस्सणं भंते !चंदमंडलस्स केवइआए अबाहाए अंतरे पं० ? गो०! पणतीसं २ जोअणाइं तीसंच एगसहिभाए जोअणस्स एगसट्ठिभआगं च सत्तहा छेत्ता चत्तारि चुण्णिआभाए चंदमंडलस्स चंदमंडलस्स अबाहाए अंतरे पन्नत्ते । वृ.सम्प्रतिमण्डलान्तरप्ररूपणाप्रश्नमाह-चंदमंडलस्सणमित्यादि, चन्द्रमण्डलस्यभदन्त चन्द्रमण्डलस्य कियत्याअवाधयाअन्तरं प्रज्ञप्तम्?, गौतम! पञ्चविंशत्पञ्चत्रिंशद्योजनानि त्रिंशच्चैकषष्टिभागान्योजनस्य एकंच एकषष्टिभागंसप्तधा छित्वाचतुरश्चूर्णिकाभागान्, एतच्चचन्द्रमण्डलस्य २ अबाधया अन्तरं प्रज्ञप्तं, अत्र सप्त चत्वारश्चूर्णिका यथा समायान्ति तथाऽनन्तरं व्याख्यातं । मू. (२७२) चंदमंडलेणं भंते! केवइअंआयामविक्खंभेणं केवइअंपरिक्खेवेणं केवइअं बाहल्लेणं पन्नते?, गोअमा! छप्पन्नं एगसट्ठिभाएजोअणस्सआयामविक्खम्भेणंतंतिगुणंसविसेसं परिक्खेवेणंअट्ठावीसंच एगसट्ठिभाए जोअणस्स बाहल्लेणं४। वृ. सम्प्रति मण्डलायामादिमानद्वारम्-‘चंदमण्डले णं भंते ! केवइयं आयाम' इत्यादि, चन्द्रमण्डलं भगवन्! कियदायामविष्कम्माभ्यां कियत्परिक्षेपेण कियद्वाहल्येन-उच्चैस्त्वेन प्रज्ञप्तम् गौतम!षट्पञ्चाशतमेकषष्टिभागान् योजनस्यायामविष्कम्भाभ्यां, एकस्ययोजनस्य एकषष्टिभागीकृतस्य यावत्प्रमाणा भागास्तावतप्रमाणषटपञ्चाशदभागप्रमाणमित्यर्थः, तत्त्रिगुणं सविशेषं-साधिकंपरिक्षेपेण करणरीत्या द्वेयोजने पञ्चपञ्चाशदभागाः साधिका इत्यर्थः, अष्टाविंशतिमेकषष्टिभागान् योजनस्य बाहल्येन । अथ मंदरमधिवृत्य प्रथमादिमण्डलाबाधाप्रश्नमाह मू. (२७३) जंबुद्दीवेदीवे मंदरस्स पव्वयस्स केवइआएआबाहाए सव्वब्भंतरएचंदमंडले पन्नत्ते?, गोअमा! चोआलीसंजोअणसहस्साइंअट्ठय वीसे जोअणसए अबाहाए सव्वब्भंतरे चंदमंडले पन्नत्ते, जंबुद्दीवे २ मंदरस्स पव्वयस्स केवइयाए अबाहाए अब्भंतराणंतरे चंदमंडले Jain Education International For Private & Personal Use Only ___www.jainelibrary.org

Loading...

Page Navigation
1 ... 464 465 466 467 468 469 470 471 472 473 474 475 476 477 478 479 480 481 482 483 484 485 486 487 488 489 490 491 492 493 494 495 496 497 498 499 500 501 502 503 504 505 506 507 508 509 510 511 512 513 514 515 516 517 518 519 520 521 522 523 524 525 526 527 528 529 530 531 532 533 534 535 536 537 538 539 540 541 542 543 544 545 546 547 548 549 550 551 552 553 554 555 556 557 558 559 560 561 562 563 564