Book Title: Agam Suttani Satikam Part 13 Jambudwip pragnapati
Author(s): Dipratnasagar, Deepratnasagar
Publisher: Agam Shrut Prakashan

View full book text
Previous | Next

Page 464
________________ वक्षस्कारः -७ ४६१ वण्णे भवइ । इंदट्ठाणे णं भंते! केवइअं कालं उववाएणं विरहिए ?, गो० ! जहन्नेणं एवं समयं उक्कोसेणं छम्मासे उववाएणं विरहिए । बहिआ णं भंते! माणुसुत्तरस्स पव्वयस्स जे चंदिम जाव तारारूवा तं चेव नेअव्वं नामत्तं विमाणोव्वण्णा नो चारोववण्णगा चारठिईआ नो गइरइआ नो गइसमावण्णगा पक्किट्ठगसंठाणसंठिएहिं जो अणसयसाहस्सिएहिं, तावखित्तेहिं संयसास्सिआहिं वेउव्विआहिं बाहिराहिं परिसाहिं महयाहयनट्ट जाव भुंजमाणा सुहलेसा मंदलेसा मंदातवलेसा चित्तंतरलेसा अन्नोन्नसमोगाढाहिं साहिं कूडाविव ठाणठिआ सव्वओ समंता ते पएसे ओभासंति उज्जोवेति पभासेतित्ति । तेसि णं भंते! देवाणं जाहे इंदे चुए से कहमियाणिं पकरेति जाव जहन्नेणं एक्कं समयं उक्कोसेणं छम्मासा इति । वृ. 'तेसि ण' मित्यादि, तेषां भदन्त ! ज्योतिष्कदेवानां यदा इन्द्रश्चच्यवते तदा ते देवा इदानीं - इन्द्रविरहकाले कथं प्रकुर्वन्ति ?, भगवानाह - गौतम ! तदा चत्वारः पञ्च वा सामानिका देवाः संभूय एकबुद्धितया भूत्वेत्यर्थः तत्स्थानं - इन्द्रस्थानमुपसम्पद्य विहरन्ति - तदिन्द्रस्थानं परिपालयन्ति, कियन्तं कालमिति चेदत आह-यावदन्यस्तत्र इन्द्र उपपन्नः - उत्पन्नो भवति । इदानीमिन्द्रविरहकालं प्रश्नयन्नाह - 'इंदट्ठाणे ण' मित्यादि, इन्द्रस्थानं भदन्त ! कियन्तं कालमुपपातेन - इन्द्रोत्पादेन विरहितं प्रज्ञप्तम् ?, भगवानाह - गौतम ! जघन्येनैकं समयं यावत् उत्कर्षेण षण्मासान् यावत्ततः परमवश्यमन्यस्येन्द्रस्वोत्पादसम्भवात् इति । सम्प्रति समयक्षेत्र - हिर्वर्त्तिज्योतिष्काणां स्वरूपं पृच्छति - 'बहिआ ण 'मित्यादि, बहिस्ताद् भगवन् ! मानुषोत्तरस्य पर्वतस्य ये चन्द्रादयो देवास्ते किमूर्ध्वोपपन्ना इत्यादि प्रश्नसूत्रं प्राग्वत्, निर्वचनसूत्रे तु नोर्ध्वोपपन्नाः, नापि कल्पोपपन्नाः, किन्तु विमानोपपन्नाः तथा नो चारोपपन्नाः नो चारयुक्ताः, किन्तु चारस्थितिकाः, अत एव नो गतिरतयो नापि गतिसमान्नकाः, पक्वेष्टकासंस्थानसंस्थितैर्योजनशतसाहसिकैस्तापक्षेत्रैस्तान् प्रदेशान् अवभासयन्तीत्यादिक्रियायोगः, पक्वेष्टकासंस्थानं चात्र यथा पक्वेष्टका आयामतो दीर्घा भवति विस्तरतस्तु स्तोका चतुरनाच, तेषामपि मनुष्यक्षेत्राद्वहिर्वर्तिनां चन्द्रसूर्यामामातपक्षेत्राणि आयामतोऽनेकयो जनलक्षप्रमाणानि विष्कम्भत एकलक्षयोजनप्रमाणानि । इयमत्र भावना - मानुषोत्तरपर्वतात् योजनलक्षाद्धतिक्रमे करणविभावनोक्तकरणानुसारेण प्रथणा चन्द्रसूर्यपङ्क्तिस्ततो योजनलक्षातिक्रमेद्वितीया पंक्तिस्तेन प्रथमपंक्तिगतचन्द्रसूर्याणामेतावांस्तापक्षेत्रस्यायामः विस्तारश्च, एकसूर्यादपरः सूर्यो लक्षयोजनातिक्रमे तेन लक्षयोजनप्रमाणः, इयं च भावना प्रथमपंक्त्यपेक्षया बोद्धव्या, एवमग्रेऽपि भाव्यं, 'सयसाहस्सिएहिं' इत्यादि प्राग्वत्, कथंभूता इत्याह- सुखलेश्याः, एतच्च विशेषणं चन्द्रान् प्रति, तेन ते नातिशीततेजसः मनुष्यलोके इव शीतकालादौ न एकान्ततः शीतरश्मय इत्यर्थः, मन्दलेश्या एतच्च सूर्यान् प्रति, तेन ते नात्युष्णतेजसः मनुष्यलोके इव निदाघ समये न एकान्तत उष्णरश्मय इत्यर्थः, एतदेव व्याचष्टे - मन्दातपलेश्या - मन्दा - नातयुष्णस्वभावा आतपरूपा लेश्या - रश्मिसंघातो येषां ते तथा, तथा च चित्रान्तरलेश्याः - चित्रमन्तरं लेश्या च येषां ते तथा, भावार्थश्चास्य चित्रमन्तरं सूर्याणां चन्द्रान्तरितत्वात्, चित्रलेश्या चन्द्रमसां शीतरश्मित्वात् सूर्याणामुष्णरश्मित्वात्, काभिरवभासयन्तीत्याह - अन्योऽन्य Jain Education International For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 462 463 464 465 466 467 468 469 470 471 472 473 474 475 476 477 478 479 480 481 482 483 484 485 486 487 488 489 490 491 492 493 494 495 496 497 498 499 500 501 502 503 504 505 506 507 508 509 510 511 512 513 514 515 516 517 518 519 520 521 522 523 524 525 526 527 528 529 530 531 532 533 534 535 536 537 538 539 540 541 542 543 544 545 546 547 548 549 550 551 552 553 554 555 556 557 558 559 560 561 562 563 564