________________
वक्षस्कारः-७
४६३
ततः पञ्चत्रिंशचतुर्दशभिर्गुण्यन्ते जातानि चत्वारि योजनशतानि नवत्यधिकानि येऽपि च त्रिंशदेकषष्टिभागास्तेऽपि चतुर्दशभिर्गुण्यन्ते जातानि चत्वारि शतानि विंशत्यधिकानि, अयं चराशिरेकषष्टिभागात्मकस्तेन एकषष्टिभागास्तिष्ठन्ति, येच एकस्यैकषष्टिभागस्य सत्काश्चत्वारः सप्तभागास्तेऽपि चतुर्दशभिर्गुण्यन्ते जाताः षट्पञ्चाशत तेषां सप्तभिर्भागे हृते लब्धा अष्टावेकषष्टिभागास्तेऽनन्तरोक्तचतुःपञ्चाशतिप्रक्षिप्यन्तेजाता द्वाषष्टिः तत्रैकषष्टिभागैर्योजनं लब्धं तच्च योजनराशौ प्रक्षिप्यते एकश्चैकषष्टिभागः शेषः ४९७ योजन'..।।
इदं च मण्डलान्तरक्षेत्रं, योऽपि च बिम्बक्षेत्रराशिस्त्रयोदशयोजनसप्तचत्वारिंशदेकषष्टिभागात्मकः सोऽपि मण्डलान्तरराशौप्रक्षिप्यतेजातंयोजनानि ५१०, यश्चपूर्वोद्धरितः एकः एकषष्टिभागः स सप्तचत्वारिंशति प्रक्षिप्यते जातं ४८ एकषष्टिभागाः, ननु पञ्चदशसुमण्डलेषु चतुर्दशान्तरालसम्भावाच्चतुर्दशभिर्भजनं युक्तिमत्, सप्तवत्वारो भागा इति कथं सङ्गच्छते ? उच्यते मण्डलान्तरक्षेत्र राशेः ४९७', मण्डलान्तरैश्चतुर्दशभिर्भजने लब्धानि ३५ योजनानि, उद्धरितस्य योजनराशेरेकषष्ट्या गुणने मूलराशिसत्कैकषष्टिभागप्रक्षेपे च जातं ४२८ एषां चतुर्दशभिर्भजने आगतोऽशराशिः ३० शेषा अष्टौ तेषां चतुर्दशभिर्भागाप्राप्तौ लाघवार्थं द्वाभ्यामपवर्तने जातं भाज्यभाजकराश्योः । इति सुस्थं।
मू. (२७१) चंदमंडलस्सणं भंते !चंदमंडलस्स केवइआए अबाहाए अंतरे पं० ? गो०! पणतीसं २ जोअणाइं तीसंच एगसहिभाए जोअणस्स एगसट्ठिभआगं च सत्तहा छेत्ता चत्तारि चुण्णिआभाए चंदमंडलस्स चंदमंडलस्स अबाहाए अंतरे पन्नत्ते ।
वृ.सम्प्रतिमण्डलान्तरप्ररूपणाप्रश्नमाह-चंदमंडलस्सणमित्यादि, चन्द्रमण्डलस्यभदन्त चन्द्रमण्डलस्य कियत्याअवाधयाअन्तरं प्रज्ञप्तम्?, गौतम! पञ्चविंशत्पञ्चत्रिंशद्योजनानि त्रिंशच्चैकषष्टिभागान्योजनस्य एकंच एकषष्टिभागंसप्तधा छित्वाचतुरश्चूर्णिकाभागान्, एतच्चचन्द्रमण्डलस्य २ अबाधया अन्तरं प्रज्ञप्तं, अत्र सप्त चत्वारश्चूर्णिका यथा समायान्ति तथाऽनन्तरं व्याख्यातं ।
मू. (२७२) चंदमंडलेणं भंते! केवइअंआयामविक्खंभेणं केवइअंपरिक्खेवेणं केवइअं बाहल्लेणं पन्नते?, गोअमा! छप्पन्नं एगसट्ठिभाएजोअणस्सआयामविक्खम्भेणंतंतिगुणंसविसेसं परिक्खेवेणंअट्ठावीसंच एगसट्ठिभाए जोअणस्स बाहल्लेणं४।
वृ. सम्प्रति मण्डलायामादिमानद्वारम्-‘चंदमण्डले णं भंते ! केवइयं आयाम' इत्यादि, चन्द्रमण्डलं भगवन्! कियदायामविष्कम्माभ्यां कियत्परिक्षेपेण कियद्वाहल्येन-उच्चैस्त्वेन प्रज्ञप्तम् गौतम!षट्पञ्चाशतमेकषष्टिभागान् योजनस्यायामविष्कम्भाभ्यां, एकस्ययोजनस्य एकषष्टिभागीकृतस्य यावत्प्रमाणा भागास्तावतप्रमाणषटपञ्चाशदभागप्रमाणमित्यर्थः, तत्त्रिगुणं सविशेषं-साधिकंपरिक्षेपेण करणरीत्या द्वेयोजने पञ्चपञ्चाशदभागाः साधिका इत्यर्थः, अष्टाविंशतिमेकषष्टिभागान् योजनस्य बाहल्येन । अथ मंदरमधिवृत्य प्रथमादिमण्डलाबाधाप्रश्नमाह
मू. (२७३) जंबुद्दीवेदीवे मंदरस्स पव्वयस्स केवइआएआबाहाए सव्वब्भंतरएचंदमंडले पन्नत्ते?, गोअमा! चोआलीसंजोअणसहस्साइंअट्ठय वीसे जोअणसए अबाहाए सव्वब्भंतरे चंदमंडले पन्नत्ते, जंबुद्दीवे २ मंदरस्स पव्वयस्स केवइयाए अबाहाए अब्भंतराणंतरे चंदमंडले
Jain Education International
For Private & Personal Use Only
___www.jainelibrary.org