________________
४६२
जम्बूद्वीपप्रज्ञप्ति-उपाङ्गसूत्रम् ७/२६८ सवगाढाभि-परस्परं संश्लिष्टाभिर्लेश्याभिः, तथाहि
चन्द्रमसांसूर्याणांचप्रत्येकंलेश्या यजनशतसहस्रप्रमाणविस्ताराचन्द्रसूर्याणांचसूचीपंक्त्या व्यवस्थितानां परस्परमन्तरंपञ्चाशद्योजनसहस्राणिततश्चन्द्रप्रभामिश्राःसूर्यप्रभाः सूर्यप्रभामिश्राश्चन्द्रप्रभाः, इत्थं चन्द्रसूर्यप्रभाणां मिश्रीभावः एषां स्थिरत्वदृष्टान्तेनद्योतयति-कूटानीव-पर्वतोपरिव्यवस्थितशिखराणीव स्थानस्थिताः-सदैवैकत्र स्थाने स्थिताः, सर्वतः समन्तात्, तान् प्रदेशान्-स्वस्वप्रत्यासन्नान् अवभासयन्ति उद्योतयन्ति तापयन्ति प्रभासयन्तीत्यादि प्राग्वत् । एषामपीन्द्राभावे व्यवस्थां प्रश्नयनाह-'तेसिणं भंते ! देवाणमित्यादि प्राग्वत् ।
इतिकृतापञ्चदशानुयोगद्वारैः सूर्यप्ररूपणा, अथचन्द्रवक्तमाह-तत्र सप्तानुयोगद्वाराणि, मण्डलसङ्ख्याप्ररूपमा १ मण्डलक्षेत्रप्ररूपणा २ प्रतिमण्डलमन्तरप्ररूपणा३मण्डलायामादिमानं ४ मंदरमधिकृत्य प्रथमादिमण्डलाबाधा ५ सर्वाभ्यन्तरादिमण्डलायामादि ६ मुहूर्तगतिः ७। तत्रादौ मण्डलसङ्ख्याप्रलपणां पृच्छति
मू. (२६९) कइणंभंते ! चंदमंडला पं०?, गो०! पन्नरस चंदमंडला पन्नत्ता! जंबुद्दीवे णं भंते ! दीवे केवइअं ओगाहित्ता केवइआ चंदमंडला पं० ?, गो० ! जंबुद्दीवे २ असीयं जोअणसयं ओगाहित्ता पंच चंदमंडला पन्नत्ता । लवणे णं भंते ! पुच्छा, गो० ! लवणे णं समुढे तिन्नितीसे जोअणसएओगाहित्ताएत्थणंदस चंदमंडला पन्नता, एवामेवसपुव्वावरेणंजंबुद्दीवे दीवे लवणे य समुहे पन्नरस चंदमंडला भवंतीतिमक्खायं । ।
वृ.कति भदन्त! चन्द्रमण्डलानिप्रज्ञप्तानि?, भगवानाह-गौतम! पञ्चदशचन्द्रमण्डलानि प्रज्ञप्तानि । अथैषां मध्ये कति द्वीपे कति लवणे इति व्यक्त्यर्थः पृच्छति-जंबूद्वीपे भदन्त! द्वीपे कियदवगाह्य कियन्ति चन्द्रमण्डलानि प्रज्ञप्तानि?, गौतम ! जंबूद्वीपे २ अशीत्यधिकं योजनशतमवगाह्य पञ्च चन्द्रमण्डलानि प्रज्ञप्तानि। अथ लवणसमुद्रे भदन्त ! प्रश्नः, गौ० लवणसमुद्रे त्रिंशदधिकानि त्रीणि योजशतानि अवगाह्य अत्रान्तरे दश चन्द्रमण्डलानि प्रज्ञप्तानि, एवमेव सपूर्वापरेण जंबूद्वीपे द्वीपेलणसमुद्रे पञ्चदश चन्द्रमण्डलानि भवन्तीति आख्यातमिति।
मू. (२७०) सव्वब्अंतराओ मंभंते! चंदमंडलाओणं केवइआए अबाहाए सव्वबाहिरए चंदमंडले पं०?, गोअमा! पंचदसुत्तरे जोअणसए अबाहाए सव्वबाहिरए चंदमंडले पन्नते।
वृ.अथ मण्डलक्षेत्रप्ररूपणां प्रश्नयन्नाह-सव्वअंतराओण'मित्यादि, सर्वाभ्यन्तराद् - भदन्त !चन्द्रमण्डलात् कियत्या अबाधया सर्वबाह्यं चन्द्रमण्डलं प्रज्ञप्तं ? किमुक्तं भवति? -चन्द्रमण्डलैः सर्वाभ्यन्तरादिभिः सर्वबाह्यान्तैर्यव्याप्तमाकाशंतन्मण्डलक्षेत्रंतत्रचचक्रवालताय विष्कम्भः पञ्च योजनशतानि दशोत्तराणि अष्टचत्वारिंशच्चैकषष्टिभागायोजनस्य इदंचव्याख्यातोऽधिकंबोध्यं, तथाहि-चन्द्रस्य मण्डलानिपञ्चदश चन्द्रबिम्बस्यचविष्कम्भः एकषष्टिभागात्मकयोजनस्य षट्पञ्चाशदभागाः तेन ते पञ्चदशभिर्गुण्यन्ते जातं ८४० तत एतेषां योजनानयनार्थं एकषष्ट्या भागे हृते लब्धानि त्रयोदश योजनानि शेषाः सप्तचत्वारिंशत्, तथा पञ्चदशानां मण्डलानामन्तराणि चतुर्दश, एकैकस्यान्तरस्यप्रमाणं पञ्चत्रिंशद्योजनानि त्रिंशच्च एकषष्टिभागा योजनस्य एकस्य च एकषष्टिभागस्य सप्तधाच्छिन्नस्य सत्काश्चत्वारोभागाः।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org