Book Title: Agam Suttani Satikam Part 13 Jambudwip pragnapati
Author(s): Dipratnasagar, Deepratnasagar
Publisher: Agam Shrut Prakashan

View full book text
Previous | Next

Page 460
________________ वक्षस्कारः -७ ४५७ मुहूर्तेऽपि व्याख्येयं द्वयोः समगमकत्वात्, मध्यान्तिकमुहूर्त्ते तु लेश्याया अभितापेन - प्रतापेन सर्वतस्तेजः प्रतापेनेत्यर्थः, मूले च दूरे च दृश्येते, मध्याह्ने ह्यासन्नोऽपि सूर्यस्तीव्रतेजसा दुर्दर्शत्वेन दूरप्रतीतिं जनयति एवमेवासन्नत्वेन दीप्तलेश्याकत्वं दिनवृद्धिधर्म्मादयो भावा दूरतरत्वेन मन्दलेश्याकत्वं दिनहानिशीतादयश्च वाच्याः । मू. (२६४) जंबुद्दीवे णं भंते! दीवे सूरिआ किं तीअं खेत्तं गच्छंति पडुप्पन्नं खेत्तं गच्छंति अनागयं खेत्तं गच्छंति ?, गो० ! नो तीअं खेत्तं गच्छंति पडुप्पन्नं खेत्तं गच्छंति नो अनागयं खेत्तं गच्छंत्ति, तं भंते! किं पुढं गच्छंति जाव नियमा छद्दिसिंति, एवं ओभासेति । तं भंते! किं पुठ्ठे ओभासेति ? एवं आहारपयाइं नेअव्वाइं पुट्ठोगाढमनंतर अणुमहआदिविसयाणुपुव्वी अ जाव निअमा छद्दिसिं, एवं उज्जोवेति तवेति पभासेति । वृ. उद्गमनास्तमयनादीनि च ज्योतिष्काणां गतिप्रवृत्ततया जायन्ते इति तेषां गमनप्रश्नायैकादशं द्वारमाह-जंबूद्वीपे भदन्त ! द्वीपे सूर्यौ किमतीतं गतिविषयीकृतं क्षेत्रं गच्छतः - अतिक्रामतः उत प्रत्युत्पन्नं - वर्त्तमानं गतिविषयीक्रियमाणं उत अनागतं गतिविषयीकरिष्यमाणं, एतेन इह च यदाकाशखण्डं सूर्य स्वतेजसा व्याप्नोति तत्क्षेत्रमुच्यते तेनास्यातीतेत्यादिव्यवहारविषयत्वं नोपपद्यते अनादिनिधनत्वादिति शङ्का निरस्ता, भगवानाह - गौ० नोशब्दस्य निषेधार्थत्वान्नातीतं क्षेत्रं गच्छतः, अतीतक्रियाविषयीकृते वर्त्तमान- क्रियाया एवासम्भवात्, प्रत्युत्पन्नं गच्छतः वर्त्तमानक्रियाविषये वर्त्तमानक्रियायाः सम्भवात्, नो अनागतं अनागतक्रियाविषयेऽपि तदसम्भवात्, अत्र प्रस्तावाद् गतिविषयं क्षेत्रं की क स्यादिति प्रष्टुमाह 'तं भंते! किं पुट्ठे' इत्यादि, अत्र यावत्पदसंग्रहोऽयं - 'पुठ्ठे गच्छंति, गोअमा ! पुठ्ठे गच्छंति, नो अटुं गच्छंति, तं भंते! किं ओगाढं गच्छंति अनोगाढं गच्छंति ?, गोअमा ! ओगाढं गच्छंति, नो अणोगाढं गच्छति, तं भंते! किं अनंतरोगाढं गच्छंति, परंपरोगाढं गच्छति ?, गोअमा ! अनंतरोगाढं गच्छंति नो परंपरोगाढं गच्छंति, तं भंते! किं अणुं गच्छंति बायरं गच्छति ?, गोमा ! अपि गच्छंति बायरंपि गच्छंति । तं भंते ! किं उद्धं गच्छंति अहे गच्छंति तिरियं गच्छंति ?, गो० तिन्निवि । तं भंते! किं आई गच्छंति मज्झे गच्छंति पज्जवसाणे गच्छंति ? गो० तिन्निवि, तं भंते! किं सविसयं गच्छंति, अविसयं गच्छंति ?, गोअमा ! सविसयं गच्छंति, नो अविसयं गच्छंति, तं भंते! किं आणुपुव्विं गच्छंति अणाणुपुव्विं गच्छंति ?, गो० ! आणुपुव्वि गच्छंति नो अणापुव्विं गच्छंति, तं भंते! किं एगदिसिं गच्छंति छद्दिसिं गच्छंति?, गो० ! नियमा छद्दिसिं गच्छंति' त्ति, अत्र व्याख्या तद् भदन्त ! क्षेत्रं किं स्पृष्टं -सूर्यबिम्बेन सह स्पर्शमागतं गच्छतः - अतिक्रामतः उतास्पृष्टं, अत्र पृच्छकस्यायमाशयः- गम्यमानं हि क्षेत्रं किञ्चितस्पृष्टमतिक्रम्यते यथाऽपवरकक्षेत्रं किंचिच्चास्पृष्टं यथा देहलीक्षेत्रमतोऽत्र कः प्रकार इति, भगवानाह - स्पृष्टं गच्छतः नास्पृष्टं, अत्र सूर्यबिम्बेन सह स्पर्शन सूर्यबिम्बावगाहक्षेत्राद्वहिरपि सम्भवति स्पर्शनाया अवगाहनातोऽधिकविषयत्वात्, ततः प्रश्नयति-तद्भदन्त ! स्पृष्टं क्षेत्र अवगाढं - सूर्यबिम्बेनाश्रयीकृतंअधिष्ठितमित्यर्थः उतानवगाढं तेनानाश्रयीकृतं नाधिष्ठितमित्यर्थः, भगवानाह - गौतम ! अवगाढं क्षेत्रं गच्छतः नानावगाढं, Jain Education International For Private & Personal Use Only www.jainelibrary.org


Page Navigation
1 ... 458 459 460 461 462 463 464 465 466 467 468 469 470 471 472 473 474 475 476 477 478 479 480 481 482 483 484 485 486 487 488 489 490 491 492 493 494 495 496 497 498 499 500 501 502 503 504 505 506 507 508 509 510 511 512 513 514 515 516 517 518 519 520 521 522 523 524 525 526 527 528 529 530 531 532 533 534 535 536 537 538 539 540 541 542 543 544 545 546 547 548 549 550 551 552 553 554 555 556 557 558 559 560 561 562 563 564