________________
वक्षस्कारः -७
४५७
मुहूर्तेऽपि व्याख्येयं द्वयोः समगमकत्वात्, मध्यान्तिकमुहूर्त्ते तु लेश्याया अभितापेन - प्रतापेन सर्वतस्तेजः प्रतापेनेत्यर्थः, मूले च दूरे च दृश्येते, मध्याह्ने ह्यासन्नोऽपि सूर्यस्तीव्रतेजसा दुर्दर्शत्वेन दूरप्रतीतिं जनयति एवमेवासन्नत्वेन दीप्तलेश्याकत्वं दिनवृद्धिधर्म्मादयो भावा दूरतरत्वेन मन्दलेश्याकत्वं दिनहानिशीतादयश्च वाच्याः ।
मू. (२६४) जंबुद्दीवे णं भंते! दीवे सूरिआ किं तीअं खेत्तं गच्छंति पडुप्पन्नं खेत्तं गच्छंति अनागयं खेत्तं गच्छंति ?, गो० ! नो तीअं खेत्तं गच्छंति पडुप्पन्नं खेत्तं गच्छंति नो अनागयं खेत्तं गच्छंत्ति, तं भंते! किं पुढं गच्छंति जाव नियमा छद्दिसिंति, एवं ओभासेति ।
तं भंते! किं पुठ्ठे ओभासेति ? एवं आहारपयाइं नेअव्वाइं पुट्ठोगाढमनंतर अणुमहआदिविसयाणुपुव्वी अ जाव निअमा छद्दिसिं, एवं उज्जोवेति तवेति पभासेति ।
वृ. उद्गमनास्तमयनादीनि च ज्योतिष्काणां गतिप्रवृत्ततया जायन्ते इति तेषां गमनप्रश्नायैकादशं द्वारमाह-जंबूद्वीपे भदन्त ! द्वीपे सूर्यौ किमतीतं गतिविषयीकृतं क्षेत्रं गच्छतः - अतिक्रामतः उत प्रत्युत्पन्नं - वर्त्तमानं गतिविषयीक्रियमाणं उत अनागतं गतिविषयीकरिष्यमाणं, एतेन इह च यदाकाशखण्डं सूर्य स्वतेजसा व्याप्नोति तत्क्षेत्रमुच्यते तेनास्यातीतेत्यादिव्यवहारविषयत्वं नोपपद्यते अनादिनिधनत्वादिति शङ्का निरस्ता, भगवानाह - गौ० नोशब्दस्य निषेधार्थत्वान्नातीतं क्षेत्रं गच्छतः, अतीतक्रियाविषयीकृते वर्त्तमान- क्रियाया एवासम्भवात्, प्रत्युत्पन्नं गच्छतः वर्त्तमानक्रियाविषये वर्त्तमानक्रियायाः सम्भवात्, नो अनागतं अनागतक्रियाविषयेऽपि तदसम्भवात्, अत्र प्रस्तावाद् गतिविषयं क्षेत्रं की क स्यादिति प्रष्टुमाह
'तं भंते! किं पुट्ठे' इत्यादि, अत्र यावत्पदसंग्रहोऽयं - 'पुठ्ठे गच्छंति, गोअमा ! पुठ्ठे गच्छंति, नो अटुं गच्छंति, तं भंते! किं ओगाढं गच्छंति अनोगाढं गच्छंति ?, गोअमा ! ओगाढं गच्छंति, नो अणोगाढं गच्छति, तं भंते! किं अनंतरोगाढं गच्छंति, परंपरोगाढं गच्छति ?, गोअमा ! अनंतरोगाढं गच्छंति नो परंपरोगाढं गच्छंति, तं भंते! किं अणुं गच्छंति बायरं गच्छति ?, गोमा ! अपि गच्छंति बायरंपि गच्छंति । तं भंते ! किं उद्धं गच्छंति अहे गच्छंति तिरियं गच्छंति ?, गो० तिन्निवि । तं भंते! किं आई गच्छंति मज्झे गच्छंति पज्जवसाणे गच्छंति ? गो० तिन्निवि, तं भंते! किं सविसयं गच्छंति, अविसयं गच्छंति ?, गोअमा ! सविसयं गच्छंति, नो अविसयं गच्छंति, तं भंते! किं आणुपुव्विं गच्छंति अणाणुपुव्विं गच्छंति ?, गो० ! आणुपुव्वि गच्छंति नो अणापुव्विं गच्छंति, तं भंते! किं एगदिसिं गच्छंति छद्दिसिं गच्छंति?, गो० ! नियमा छद्दिसिं गच्छंति' त्ति, अत्र व्याख्या
तद् भदन्त ! क्षेत्रं किं स्पृष्टं -सूर्यबिम्बेन सह स्पर्शमागतं गच्छतः - अतिक्रामतः उतास्पृष्टं, अत्र पृच्छकस्यायमाशयः- गम्यमानं हि क्षेत्रं किञ्चितस्पृष्टमतिक्रम्यते यथाऽपवरकक्षेत्रं किंचिच्चास्पृष्टं यथा देहलीक्षेत्रमतोऽत्र कः प्रकार इति, भगवानाह - स्पृष्टं गच्छतः नास्पृष्टं, अत्र सूर्यबिम्बेन सह स्पर्शन सूर्यबिम्बावगाहक्षेत्राद्वहिरपि सम्भवति स्पर्शनाया अवगाहनातोऽधिकविषयत्वात्, ततः प्रश्नयति-तद्भदन्त ! स्पृष्टं क्षेत्र अवगाढं - सूर्यबिम्बेनाश्रयीकृतंअधिष्ठितमित्यर्थः उतानवगाढं तेनानाश्रयीकृतं नाधिष्ठितमित्यर्थः, भगवानाह - गौतम ! अवगाढं क्षेत्रं गच्छतः नानावगाढं,
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org