________________
४५८
जम्बूद्वीपप्रज्ञप्ति-उपाङ्गसूत्रम् ७/२६४
आश्रितस्यैव त्यजनयोगात्, अथ यद्भदन्त! अवगाढंतदनन्तरावगाढं-अव्यवधानेनाश्रयीकृतं उतपरम्परावगाढं-व्यवधानेनाश्रयीकृतं ?, भगवानाह-गौतम! अनन्तरावगाढंनपुनः परम्परावगाढं, किमुक्तं भवति?-यस्मिन्नाकाशखण्डे यो मण्डलावयवोऽव्यवधानेनावगाढः स मण्डलावयवस्तमेवाकाशखण्डं गच्छति न पुनरपरमण्डलावयवावगाढं तस्य व्यवहितत्वेन परम्परावगाढत्वात्, तच्चाल्पमनल्पमपियादित्याह-तद्भदन्त ! अणुंगच्छतःबादरंवा?,गौतम अण्वपि सर्वाभ्यन्तरमण्डलक्षेत्रापेक्षया बादरमपि सर्वबाह्यमण्डलक्षेत्रापेक्षया, तत्तच्चक्रवालक्षेत्रानुसारेण गमनसम्भवात्, गमनंच ऊर्ध्वाधस्तिर्यग्गतित्रयेऽपि सम्भवेदिति प्रश्नयति
तद्भदन्त ! क्षेत्रमूर्ध्वमधस्तिर्यग्वा गच्छतः ?, गौतम ! ऊर्ध्वमपि तिर्यगप्यधोऽपि, ऊर्ध्वाधस्तिर्यक्त्वंच योजनैकषष्टिभागरूपचतुर्विंशतिभागप्रमाणोत्सेधापेक्षया द्रष्टव्यं, अन्यथा 'जावनियमाछद्दिसिं' इतिचरमसूत्रेण सह विरोधः स्यात्, इदंचव्याख्यानं प्रज्ञापनोपाङ्गतैकादश भाषापदाष्टाविंशतितमाहारपदगतो/धस्तिर्यग्विषयकनिर्वचनसूत्रव्याख्यानुसारेण कृतमिति बोध्यं, गमनं च क्रिया सा च बहुसामयिकत्वात्रिकालनिर्वर्तनीया स्यादित्यादिमध्यादिप्रश्नः, तद्भदन्त! किमादौगच्छतः किंमध्येउतपर्यवसानेवा?, भगवानाह-गौतम! षष्टिमुहूर्तप्रमाणस्य मण्डलसंक्रमकालस्यादावपि मध्येऽपि पर्यवसानेऽपिवा गच्छतः, उक्तप्रकारत्रयेण मंडलकालसमापनात्।अथ तद्भदन्त! स्वविषयं-स्वोचितं क्षेत्रंगच्छतः उत अविषयंवा स्वानुचितमित्यर्थः, गौ० स्वविषयं स्पृष्टावगाढनिरन्तरावगाढस्वरूपं गच्छतः न अविषयं-अस्पृष्टानवगाढपरम्परावगाढक्षेत्राणांगमनायोग्यत्वात्, तद्भदन्त! आनुपूर्व्या क्रमेण यथासन्नंगच्छतः उतअनानुपूर्व्या-क्रमेणानासन्नमित्यर्थः, सूत्रे द्वितीया तृतीयार्थे, गौ० आनुपूर्व्या गच्छतः नानानुपूर्व्या व्यवस्थाहानेः,प्रागुक्तमेव दिकप्रश्नंव्यक्त्या आह-तद्भदन्त! किमेकदिग्विषयकं क्षेत्रं गच्छतः यावत्षदिग्विषयकं?,गौ० नियमात् षड्दिशि, तत्रपूर्वादिषुतिर्यगदिक्षुउदितः सन्स्फुटमेव गच्छन् श्यते, ऊर्ध्वाधोदिग्गमनंच यथोपपद्यते तथा प्राग्दर्शितं।
सम्प्रत्येतदतिदेशेनावभासनादिसूत्राण्याह-एवंओभासेति'इत्यादि, एव'मितिगमनसूत्रप्रकारेण अवभासयतः-ईषदुद्योतयतः, यथा स्थूरतरमेव दृश्यते, तमेव प्रकारमीषदर्शयतितद्भदन्त ! क्षेत्रं स्पृष्टं-सूर्यस्तेजसा व्याप्तं अवभासयतः उतास्पृष्टं?, भगवानाह-स्पृष्टं नास्पृष्टं, दीपादिभास्वरद्रव्याणां प्रभाया गृहादिस्पर्सपूर्वकमेवावभासकत्वदर्शनात्, एवं-स्पृष्टपदरीत्या आहारपदानि-चतुर्थोपाङ्गगताष्टाविंशतितमपदे आहारग्रहणविषयकानि पदानि-द्वाराणि नेतव्यानि, तद्यथा-'पुट्ठो' इत्यादि,प्रथमतः स्पृष्टविषयंसूत्रं, ततोऽवगाढसूत्रं ततोऽणुबादरसूत्रं तत ऊर्ध्वाधःप्रभृतिसूत्रं, तत आई इति उपलक्षणमेतत् आदिमध्यावसानसूत्रं ततो विषयसूत्रं तदनन्तरमानुपूर्वीसूत्रं, ततो यावत् नियमात्षड्दिशीतिसूत्रं, अत्र यथासम्भवं विपक्षसूत्राम्युपलक्षणाद् ज्ञेयानि, अत्र चोर्ध्वादिदिग्भावना सूत्रकृत् स्वयमेव वक्ष्यति, एवमुदद्योतयतो-भृशं प्रकाशयतः यथा स्थूलमेव ६श्यते, तापयतः-अपनीतशीतं कुरुतः, यथा सूक्ष्म पिपीलिकादि दृश्यते तथा कुरुतः, प्रभासयतः-अतितापयोगादविशेषतोऽपनीतशीतं कुरुतो यथा सूक्ष्मतरं दृश्यते, उक्तमेवार्थं शिष्यहिताय प्रकारान्तरेण प्रश्नयितुं द्वादशद्वारमाहJain Education International
For Private & Personal Use Only
www.jainelibrary.org