________________
४५६
जम्बूद्वीपप्रज्ञप्ति - उपाङ्गसूत्रम् ७/२६२ सर्वजघन्य दिवसो द्वादशमुहूर्तप्रमाणोऽतो द्वादशभिः सा गुण्यते तथा च कृते ६३६६३ इत्येवंरूपो राशि स्यात् । यदिवोक्तपरिधिर्द्विगुणितो दशभिर्भज्यते तदाप्यमयमेव राशिर्द्विधाकरमरीतिलब्धस्तत्किमेतस्मात् सूत्रोक्तराशिर्विभिद्यते ?, उच्यते, सूत्रकारेण द्वीपपरिध्यपेक्षयैव करणरीतेर्दर्श्यमानत्वान्नात्र दोषः, अभ्यन्तरमण्डले परिधिर्यथा न न्यूनीक्रियते तथा बाह्यमंडले नाधिकीक्रियते तत्र विवक्षैव हेतुरिति ॥ सम्प्रति सूर्याधिकारादेत्सम्बन्धिनं दूरासन्नादिदर्शनरूपं विचारं वक्तुं दशमं द्वारमाह
मू. (२६३) जंबुद्दीवे णं भंते ! दीवे सूरिआ उग्गमणमुहुत्तंसि दूरे अ मूले अदीसंति मज्झति अमुहुत्तंसि मूले अ दूरे अ दीसंति अत्यमणमुहुत्तंसि दूरे अ मूले अ दीसंति ?, हंता गो० तं चैव जाव दीसंति, जंबुद्दीवे णं भंते! सूरिआ उग्गमणमुहुत्तंसि अ मज्झतिअमुहुत्तंसि अ अत्थमणमुहुत्तंसि अ सव्वत्थ समा उच्चत्तेणं ?, हंता तं चेव जाव उच्चत्तेणं । जइ णं भंते! जंबुद्दीवे दीवे सूरिआ उग्गमणमुहुत्तंसि अ मज्झं० अत्थ० सव्वत्थ समा उच्चत्तेणं, कम्हा णं भंते! जंबुद्दीवे दीवे सूरिया उग्गमणमुहुत्तंसि दूरे अ मूले अदीसंति०, गो० लेसापडिघाएणं उग्गमणमुहुत्तंसि दूरे अमूले अदीसंति इति लेसाहितावेणं मज्झति अमुहुत्तंसि मूले अ दूरे अदीसंति लेसापडिघाएणं अत्थमणमुहुत्तंसि दूरे अ मूले अदीसंति, एवं खलु गो० जाव दिसंति ।
वृ. जंबूद्वीपे द्वीपे भदन्त ! सूर्यौ उद्गमनमुहूर्त्ते - उदयोपलक्षिते मुहूर्ते एवमस्तमनमुहूर्ते, सूत्र यकारलोप आर्षत्वात्, दूरे च द्रष्टस्थानापेक्षया विप्रकृष्टे मूले च-द्रष्टप्रतीत्यपेक्षया आसन्ने दृश्यते, द्रष्टारो हि स्वरूपतः सप्तचत्वारिंशता योजनसहस्रैः समधिकैर्व्यवहितमुदगमनास्तमनयोः सूर्यं पश्यन्ति, आसन्नं पुनर्मन्यन्ते, विप्रकृष्टं सन्तमपि न प्रतिपद्यन्ते, 'मध्यान्तिकमुहूर्त' इति मध्यो- मध्यमो ऽन्तो- विभागो गमनस्य दिवसस्य वा मध्यान्तः स यस्य मुहूर्त्तस्यास्ति स मध्यान्तिकः स चासौ मुहूर्त्तश्चेति मध्यान्तिको - मध्याह्नमुहूर्त्त इत्यर्थः, तत्र मूले चासन्ने देशे द्रष्टस्थानापेक्षया दूरे च - विप्रकृष्टे देशे द्रष्टप्रतीत्यपेक्षया सूर्यौ दृश्येते द्रष्टा हि मध्याह्ने उदयास्तमयनदर्शनापेक्षय आसन्नं रविं पश्यति, योजनशताष्टकेनैव तदाऽस्य व्यवहितत्वात् मन्यते पुनरुदयास्तमयनप्रतीत्यपेक्षया व्यवहितं इति, अत्र सर्वत्र काका प्रश्नोऽवसेयः, अत्र भगवानाह -
तदेव यद्भवताऽनन्तरमेव प्रश्नविषयीकृतं तत्तथैवेत्यर्थः यावद् ध्श्यते इति ।
अत्र चर्मध्शां जायमाना प्रतीतिर्मा ज्ञानध्शां प्रतीत्या सह विसंवदत्विति संवादाय पुनर्गौतमः पृच्छति - 'जंबुद्दीवे ण' मित्यादि, जंबूद्वीपे भदन्त ! द्वीपे उदगमनमुहूर्ते च मध्यान्तिकमुहूर्ते च अस्तमयनमुहूर्त्ते च अत्र चशब्दा वाशब्दार्थो सूर्यौ सर्वत्र - उक्तकालेषु समौ उच्चत्वेन, अत्रापि काकुपाठात् प्रश्नावगति, भगवानाह - तदेव यद्भवता मां प्रति पृष्टं यावदुच्चत्वेनेति, सर्वत्रउद्गमनमुहूर्त्तादिषु समौ समव्यवधानावुच्चत्वेन समभूतलापेक्षयाऽष्टौ योजनशतानीतिकृत्वा, न हि सतीं जनप्रतीतिं वयमपलपाम इति भगवदुक्तमेवानुवदन्नत्र विप्रतिपत्तीबीजं प्रष्टुमाह'जइ ण' मित्यादि, प्रश्नसूत्रं स्पष्टं, उत्तरसूत्रे गौतम! लेश्यायाः - सूर्यमंडलगततेजसः प्रतिघातेन दूरतरत्वादुद्गमनदेशस्य तदप्रसरणेनेत्यर्थः उद्गमनमुहूर्ते दूरे च मूले च दृश्यते, लेश्याप्रतिघाते हि सुखश्यत्वेन स्वभावेन दूरस्थोऽपि सूर्य आसन्नप्रतीतिं जनयति, एवमस्तमय
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org