________________
४५५
शाभावरूपस्य तमसः संस्थानासंभवेन कुतस्तत्पृच्छौचितीमंचति ?, उच्यते, नीलं शीतं बहलं तम इत्यादिपुदगलधर्माणामभ्रान्तसार्वजनीनव्यवहारसिद्धत्वेनास्य पौदगलिकत्वे सिद्धे संस्थानस्यापि सिद्धेः, यथा चास्य पौद्गलिकत्वं तथाऽन्यत्र पूर्वाचार्यै सुचर्चितत्वान्नात्र विस्तारभिया चर्च्यते इति, ऊर्ध्वमुखकलम्बुकापुष्पसंस्थानसंस्थिता अन्धकारसंस्थिति प्रज्ञप्ता, अन्तः संकुचिता बहिर्विस्तृतेत्यादि तदेव-तापक्षेत्रसंस्थित्यधिकारोक्तमेव ग्राह्यं कियत्पर्यन्तमित्याह - यावत्तस्याःअन्धकारसंस्थितेः सर्वाभ्यन्तरिका बाहा मंदरपर्वतान्ते षड् योजनसहस्राणि त्रीणि चतुर्विंशत्यधिकानि योजनशतानि षट् च दशभागान् योजनस्य परिक्षेपेण । अत्रोपपत्तिं सूत्रकृदेवाह - 'से ० प्राग्वत्, उत्तरसूत्रे यो मेरुपरिक्षेपः स त्रयोविंशतिषट्शताधिकैकत्रिंशद्योजनसहस्रमानस्तं परिक्षेपं द्वाभ्यां गुणयित्वा सर्वाभ्यन्तरमण्डलस्थे सूर्ये तापक्षेत्रसत्कानां त्रयाणां भागानामपान्तराले रजनिक्षेत्रस्य दशभागद्वय २ मानत्वात् दशभिर्विभज्य - दशभिर्भागे हियमाणे एष परिक्षेपविशेष आख्यात इति वदेदेतद्भगवन् ! गौ० स्वशिष्येभ्यः, ३१६२३ एतद् द्वाभ्यां गुण्यते जातानि त्रिषष्टिसहस्राणि द्वे शते षट्चत्वारिंशदधिके एषां दशभिर्भागे लब्धं यथोक्तं मानं ।
अथ बाहामाह-‘तीसे ण’मित्यादि, तस्याः - अन्धकारसंस्थितेः सर्वबाह्यबाहा पूर्वतोऽपरतश्च परमविष्कम्भो लवणसमुद्रान्ते त्रिषष्टिं योजनसहस्राणि द्वेच पंचचत्वारिंशदधिके योजनशते षट् च दशभागान् योजनस्य परिक्षेपेणेति, अत्रोपपत्तिं सूत्रकृदेवाह - 'से ण' मित्यादि, व्यक्तं, नवरं जंबूद्वीपपरिक्षेपः ३१६२२८ तंपरिक्षेपं प्रागुक्तहेतुना द्वाभ्यां गुणयित्वा दशभिर्भागे हियमाणे एष परिक्षेपविशेष आख्यात इति वदेत्, अथास्या अवस्थितबाहामाह - तदा सर्वाभ्यन्तरमण्डलचारकाले अन्धकारं कियदायामेन प्रज्ञप्तम् ?, गौ० अष्टसप्ततिं योजनसहस्राणि त्रीणिच त्रयस्त्रिंशदधिकानि योजनशतानि योजनत्रिभागं चैकं, अवस्थिततापक्षेत्रसंस्थित्यायाम इवायमपि बोध्यः, तेन मंदरार्द्धसत्कपंचसहस्रयोज - नान्यधिकानि मन्तव्यानि सूर्यप्रकाशाभाववति क्षेत्रे स्वत एवान्धकारप्रसरणात् कन्दरादौ तथा प्रत्यक्षदर्शनात्, सूत्रेऽविवक्षितान्यपि व्याख्यातो विशेषप्रतिपत्तिरिति दर्शितानि । अथ पश्चानुपूर्व्या तापक्षेत्रसंस्थितिं पृच्छति
'जया ण 'मित्यादि, यदा भगवन् ! सूर्य सर्वबाह्यमण्डलमुपसंक्रम्य चारं चरति तदा किंसंस्थानसंस्थिता तापक्षेत्रसंस्थिति प्रज्ञप्ता ?, गौतम ! ऊर्ध्वमुखकलम्बुकापुष्पसंस्थानसंस्थिता प्रज्ञप्ता, तदेव-अभ्यन्तरमण्डलगततापक्षेत्रसंस्थितिसत्कमेव सर्वमवस्थितानवस्थितबाहादिकं नेतव्यं, नवरमिदं नानात्वं- विशेषः यदन्धकार संस्थितेः पूर्वं सर्वाभ्यन्तरमंडलगततापक्षेत्र संस्थिति प्रकरणे वर्णितं ६३२४५ ६,, इत्येवंरूपं प्रमाणं तत्तापक्षेत्र संस्थितेः प्रमाणं नेतव्यं, द्वीपपरिधिदशभागसत्कभागद्वयप्रमाणत्वात्, यत्तापक्षेत्रसंस्थितेः पूर्ववर्णितम् ९४८६८ /,, इत्येवंरूपं प्रमाणं तदन्धकारसंस्थिर्नेतव्यं द्वीपपरिधि - दशभागसत्कभागत्रयप्रमाणत्वात्, यदत्र तापक्षेत्रस्याल्पत्वं तमसश्चानल्पत्वं तत्र मंदलेश्याकत्वं हेतुरिति, एवं सर्वाभ्यन्तरमण्डलेऽभ्यन्तरबाहाविष्कम्भे यत्तापक्षेत्रपरिमाणं ९४८६%, इत्येवंरूपं तदत्रान्धकारसंस्थितेर्ज्ञेयं, यच्च तत्रैव विष्कम्भेऽन्धकारसंस्थितेः ६३२४, इत्येवं तापक्षेत्रस्यात्र मन्तव्य, ननु इदं सर्वबाह्यमंण्डलसत्कतापक्षेत्रप्ररूपणं, यदि तन्मंडलपरिधौ ३१८३१५ रूपे षष्टिभक्ते लब्धा ५३०५ रूपा मुहूर्त्तगति तदा च
१०
For Private & Personal Use Only
www.jainelibrary.org
वक्षस्कारः -७
Jain Education International