Book Title: Agam Suttani Satikam Part 13 Jambudwip pragnapati
Author(s): Dipratnasagar, Deepratnasagar
Publisher: Agam Shrut Prakashan

View full book text
Previous | Next

Page 447
________________ ४४४ - - - जम्बूद्वीपप्रज्ञप्ति-उपाङ्गसूत्रम् ७/२५८ थप्राप्तताकरणत्वात्, ततो यथोक्तमत्र मण्डले दृष्टिपथप्राप्ततापरिमाणं भवति, यद्यप्युपान्त्यमण्डलष्टिपथप्राप्ततापरिमाणात्पञ्चाशीतिर्योजनानिनवषष्टिभागायोजनस्य एकस्यषष्टिभागस्य सत्काःषष्टिरेकषष्टिभागाः इत्येवंराशौ शोधितेइदमुपपद्यतेएतच्च प्राग्भावितंतथापि प्रस्तुतमण्डलस्योत्तरायणगतमण्डलानामवधिभूतत्वेनान्यमण्डलकरणनिरपेक्षतया करणान्तरमकारि। इदंचसर्वाभ्यन्तरानन्तरमण्डलात्पूर्वानुपूर्व्यागण्यमानंत्र्यशीत्यधिकशततम,प्रतिमण्डलं चाहोरात्रगणनादहोरात्रोऽपि त्र्यशीत्यधिकशततमस्तेनायं दक्षिणायनस्य चरमो दिवस इत्याधभिधातुमाह-एसणंपढमेछम्मासे एसणमित्यादि, एष चदक्षिणायनसत्कव्यशीत्यधिकशतदिनरूपोराशि प्रथमः षण्मासः-अयनरूपः कालविशेषः, षट्सङ्ख्याकाःमासाः पिण्डीभूता यत्रेतिव्युत्पत्तेरिदंसमाधेयं, अन्यथाप्रथमः षण्मास इत्येकवचनानुपपत्तिरिति, अथवा पात्र्यादि गणान्तः पाठात् स्त्रत्वाभावे अदन्तद्विगुत्वेऽपि न ङीप्रत्ययस्तेनैव तत्प्रथमं षण्मासं आर्षत्वात् पुंस्त्वं, एतच्च प्रथमस्य षण्मासस्य दक्षिणायनरूपस्य पर्यवसानं, अथ सर्वबाह्यमण्डलचारानन्तरं सूर्यो द्वितीयं षण्मासं प्राप्नुवन् गृह्णन् इत्यर्थः प्रथमे अहोरात्रे उत्तरायणस्येति गम्यं, बाह्यानन्तरं पश्चानुपूर्व्या द्वितीयं मण्डलमुपसंक्रम्य चारं चरति । अतात्र गत्यादिप्रश्नार्थं सूत्रमाह_ 'जया णं यदा भगवन् ! सूर्य बाह्यानन्तर- माक्तनं द्वितीयं मण्डलमुपसंक्रम्य चारं चरतितदाभगवन्! एकैकेन मुहूर्तेन कियत्क्षेत्रंगच्छति?, भगवानाह-गौ० पञ्च योजनसहस्राणि त्रीणिच चतुरुत्तराणियोजनशतानि सप्तपञ्चाशतंचषष्टिभागान् योजनस्यैकैकेन मुहूर्तेन गच्छति तथाहि-अस्मिन् मण्डले परिरयपरिमाणंत्रीणि लक्षाणिअष्टादशसहस्राणि द्वेशते सप्तनवत्यधिके योजनानां ततोऽस्य षष्ट्या भागे हृते लब्धं यथोक्तमत्र मण्डले मुहूर्तगतिप्रमाणं, अत्रापि दृष्टिपथप्राप्तताप-रिमाणमाह-तदा इहगतस्य मनुष्यस्येति प्राग्वत् एकत्रिंशता योजनसहनैः षोडशाधिकैः नवभिश्च योजनशतैरेकोनचत्वारिंशता च षष्टिभागैर्योजनस्य एकं च षष्टिभागमेकषष्टिधा छित्वा तस्य सत्कैः षष्ट्या चूर्णिकाभागैः सूर्यश्चक्षुस्पर्शमागचछति, तथाहि अस्मिन् मण्डले सूर्ये चारं चरति दिवसो द्वादशमुहूर्तप्रमाणो द्वाभ्यां मुहूर्तेकषष्टिभागाभ्यामधिकः तेषां चार्द्ध षड् मुहूर्तीः एके मुहूर्तेकषष्टिभागेनाभ्यधिकास्ततः सवर्णनार्थं षडपि मुहूर्ता एकषष्ट्या गुण्यन्ते तत एकः षष्टिभागस्तत्राधिकः प्रक्षिप्यते, ततो जातानि त्रिणिशतानि सप्तषष्ट्यधिकानिएकषष्टिभागानांततः प्रस्तुतमण्डले यत्परिमाणं त्रीणि लक्षाणिअष्टादशसहस्राणि द्वे शते सप्तनवत्यधिके, इदं च योजनराशिं षष्ट्या गुणयित्वा सवर्णिता मुहूर्तगतिरिति यथा व्यवह्रियते तथा प्रागुक्तम्, एतदेभिस्त्रिभिः शतैः सप्तषष्ट्याऽधिकैर्गुण्यते जाता एकादश कोट्योऽष्टषष्टिर्लक्षाश्चतुर्दशसहस्राणि नवशतानि नवनवत्यधिकानि, एतस्य एकषष्ट्यागुणितया षष्ट्या भागो ह्रियते लब्धान्येकत्रिंशत्सहस्राणि नव शतानि षोडशोत्तराणि, शेषमुद्धरति चतुर्विंशतिशतानि एकोनचत्वारिंशदधिकानि न चातो योजनान्यायान्ति ततः षष्टिभागानयनार्थमेकषष्ट्या भागो ह्रियते लब्धा एकोनचत्वारिंशत् षष्टिभागाः एकस्य चषष्टिभागस्य सत्काः षष्टिरेकषष्टिभागाः ।अथ तृतीयं मण्डलं _ 'से पविसमाणे' इत्यादि, अथ प्रविशन्-जंबूद्वीपाभिमुखं चरन् सूर्य द्वितीयेऽहोरात्रे उत्तरायणसत्केइत्यर्थः बाह्यतृतीयंमण्डलमुपसंक्रयचारंचरति, तदाकिमित्याह-'जयाणमित्यादि, Jain Education International For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 445 446 447 448 449 450 451 452 453 454 455 456 457 458 459 460 461 462 463 464 465 466 467 468 469 470 471 472 473 474 475 476 477 478 479 480 481 482 483 484 485 486 487 488 489 490 491 492 493 494 495 496 497 498 499 500 501 502 503 504 505 506 507 508 509 510 511 512 513 514 515 516 517 518 519 520 521 522 523 524 525 526 527 528 529 530 531 532 533 534 535 536 537 538 539 540 541 542 543 544 545 546 547 548 549 550 551 552 553 554 555 556 557 558 559 560 561 562 563 564