Book Title: Agam Suttani Satikam Part 13 Jambudwip pragnapati
Author(s): Dipratnasagar, Deepratnasagar
Publisher: Agam Shrut Prakashan

View full book text
Previous | Next

Page 386
________________ वक्षस्कारः - ५ ३८३ दिक्कुमार्यो महत्तरिकाः प्रत्येकं २ आसनानि चलितानि पश्यन्ति दृष्ट्वा चावधिं प्रयुञ्जन्ति प्रयुज्य च भगवन्तं तीर्थकरमवधिना आभोगयंति आभोग्य च अन्यमन्यं शब्दयन्ति शब्दयित्वा च एवमवादिषुः यदवादिषुस्तदाह- 'उप्पन्ने' इत्यादि, उत्पन्नः खलु भो ! जंबूद्वीपे द्वीपे भगवांस्तीर्थकरः तज्ञ्जीतमेतत्-कल्प एषोऽतीतप्रत्युत्पन्नानागतानामधोलोकवास्तव्यानामष्टानां दिक्कुमारीमहत्तरिकाणां भगवतो जन्ममहिमां कर्त्तु, तद् गच्छामो वयमपि भगवतो जन्ममहिमां कुर्म्म इतिकृत्वा धातूनामनेकार्थत्वान्निश्चित्य मनसा एवं - अनन्तरोक्तं वदन्ति, उदित्वा च प्रत्येकं २ आभियोगिकान् देवान् शब्दयन्ति, शब्दयित्वा च एवमवादिषुः किमवादिषुरित्याह 'खिप्पामेव ' इत्यादि, भो देवानुप्रियाः ! क्षिप्रमेव अनेकस्तम्भशतसन्नविष्टानि लीलास्थितशालभञ्जिकाकानीत्येवमनेन क्रमेण विमानवर्णको भणितव्यः, स चायं - 'ईहाभिगउसभतुरगणरमगरविहगवालगकिन्नररुरुसरभचमरकुञ्जरवणलयपउमलयभत्तिचित्ते खंभुग्गयवइरवेइआपरिंगयाभिरामे विज्जाहरजमलजुअलजन्तजुत्ते विवअच्चीसहस्समालिणीए रूवगसहस्सकलिए भिसमाणे भिब्मिसमामे चक्खुल्लो अणलेसे सुहफासे सस्सिरीअरूवे घंटावलिअमहुरमणहरसरे सुभे कंते दरिसणिजे निउणोवि अमिसिमिसेंतमणिरयणघंटिआजालपरिक्खित्ते'त्ति, कियत्पर्यन्तमित्याहयावद्योजनविस्तीर्णानि दिव्यानि यानाय - इष्टस्थाने गमनाय विमानानि अथवा यानरूपाणिवाहनरूपाणि विमानानि यानविमानानि विकुर्वत - वैक्रियशक्त्या सम्पादयत विकुर्वित्वा च एनामाज्ञप्तिं प्रत्यर्पयत, अथ यानविमानवर्णकव्याख्या प्राग्वद् ज्ञेया, तोरणादिवर्णकेषु एतद्विशेषणगणस्य व्याख्यातत्वात्, ततस्ते किं चक्रुरित्याह- 'तए ण' मित्यादि ततस्ते आभियोगिका देवा अनेकस्तम्भशतसन्निविष्टानि यावदाज्ञां प्रत्यर्पयन्ति, अथैताः किं कुर्वन्तीत्याह - 'तए णं ताओ' इत्यादि, ततस्ता अधोलोकवास्तव्या अष्टौ दिककुमारीमहत्तरिकाः हट्ठतुट्ठेत्याद्येकदेशदर्शनेन सम्पूर्ण आलापको ग्राह्यः, स चायं - हठ्ठतुट्ठचित्तमानंदिआ पीअमणा परमसोमणस्सिआ हरिसवसविसप्पमाणहिअया विअसिअव-रकमलनयणा पचलिअवरकडगतुडिअकेऊरमउडकुण्डलहारविरायंतरइअवच्छा पालंबलंबमाण - धोलंतभूसणधरा ससंभमं तुरिअं चवलं सीहासणाओ अब्मुट्टेन्ति २ त्ता पायपीढाओ पचोरुहंति २ त्ता' इति प्रत्येकं २ चतुर्भि : सामानिकसहस्रैः चतसृभिश्च महत्तरिकाभिर्यावदन्यैर्बहुभिर्देवैर्देवीभिश्च सार्द्ध संपरिवृताः तानि दिव्यानि यानविमानान्यारोहंति, आरोहणोत्तरकालं येन प्रकारेण सूतिकागृहमुपतिष्ठन्ते तथाऽऽह'दुरुहित्ता' इत्यादि, आरुह्य च सर्वद्धर्या सर्वद्युत्या घनमृदङ्गं - मेघवद् गम्भीरध्वनिकं मृदङ्गं पणवो - मृत्पटहः, उपलक्षणमेतत् तेनान्येषामपि तूर्याणा संग्रहः, एतेषां प्रवादितानां यो रवस्तेन, तया उत्कृष्टया यावत्करणात् 'तुरिआए चलाए' इत्यादिपदसंग्रहः प्राग्वत् देवगत्या यत्रैव भगवतस्तीर्थकरस्य जन्मनगरं यत्रैव च तीर्थकरस्य जन्मभवनं तत्रैवोपागच्छंति उपागत्य च भगवतस्तीर्थकरस्य जन्मभवनं तैर्दिव्यैर्यानविमानैस्त्रकृत्वः आदक्षिणप्रदक्षिणं कुर्वन्ति, त्रीन् वारान् प्रदक्षिणयन्तीत्यर्थः, त्रि प्रदक्षिणणीकृत्य च उत्तरपौरस्त्ये दिग्भागे-ईशानकोणे ईषच्चतुरङ्गुलमसम्प्राप्तानि धरणितले तानि दिव्यानि यानविमानानि स्थापयन्तीति । अथ यच्चक्रुस्तदाह स्थापयित्वा च प्रत्येकं २ अष्टावपीत्यर्थः चतुर्भिः सामानिकसहस्रैर्यावत् सार्द्धं सम्परिवृता दिव्येभ्यो यानविमानेभ्यः प्रत्यवरोहंति प्रत्यवरुह्य च सर्वद्धर्ज्या यावच्छब्दात् सर्वद्युत्यादिपरिग्रहः Jain Education International For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 384 385 386 387 388 389 390 391 392 393 394 395 396 397 398 399 400 401 402 403 404 405 406 407 408 409 410 411 412 413 414 415 416 417 418 419 420 421 422 423 424 425 426 427 428 429 430 431 432 433 434 435 436 437 438 439 440 441 442 443 444 445 446 447 448 449 450 451 452 453 454 455 456 457 458 459 460 461 462 463 464 465 466 467 468 469 470 471 472 473 474 475 476 477 478 479 480 481 482 483 484 485 486 487 488 489 490 491 492 493 494 495 496 497 498 499 500 501 502 503 504 505 506 507 508 509 510 511 512 513 514 515 516 517 518 519 520 521 522 523 524 525 526 527 528 529 530 531 532 533 534 535 536 537 538 539 540 541 542 543 544 545 546 547 548 549 550 551 552 553 554 555 556 557 558 559 560 561 562 563 564