Book Title: Agam Suttani Satikam Part 13 Jambudwip pragnapati
Author(s): Dipratnasagar, Deepratnasagar
Publisher: Agam Shrut Prakashan

View full book text
Previous | Next

Page 436
________________ वक्षस्कारः-७ ४३३ भवतीत्याख्यातं मया चान्यैस्तीर्थकृभिः । मू. (२५३) सव्वब्भंतराओ णं भंते ! सूरमंडलाओ केवइआए अबाहाए सव्वबाहिरए सूरमंडले पं०?, गोयमा! पंचदसुत्तरे जोअणसए अबाहाए सव्वबाहिरए सूरमंडले पन्नते २ । वृ.गतंमण्डलसङ्ख्याद्वारम्, अथमण्डलक्षेत्रद्वारं, तत्रसूत्रं-'सव्वब्मंतराओणमित्यादि, सर्वाभ्यन्तरात्-प्रथमात् सूर्यमण्डलात्भदन्त! कियत्याअबाधया-कियताअन्तरेण सर्वबाह्यसर्वेभ्यः परं यतोऽनन्तरं नैकमपीत्यर्थः सूर्यमण्डलं प्रज्ञप्तम् ?, गौतम ! दशोत्तराणि पञ्च योजनशतानि अबाधया-अन्तरालत्वाप्रतिघातरूपया सर्वबाह्यं सूर्यमण्डलं प्रज्ञप्तम्, अत्रानुक्ता अपि अष्टच- त्वारिंशदेकषष्टिभागाः ‘ससिरविणो लवणंमि अ जोअण सय तिण्णि तीस अहिआई'इति वचनादधि- का ग्राह्याः, अन्यथोक्तसङ्ख्यानानां मण्डलानामनवकाशात्, कथमेतदवसीयते?, उच्यते सर्वसङ्ख्ययाचतुरशीत्यधिकंमण्डलशतं, एकैकस्य चमण्डलस्य विष्कम्भोऽष्टचत्वारिंशदेकषष्टिभागा योजनस्य, ततश्चतुरशीत्यधिकं शतमष्टाचत्वारिंशता गुण्यते, जातान्यष्टाशीति शतानिद्वात्रिंशदधिकानि, एतेषा योजनानयनार्थमेकषष्ट्या भागोहियते, हतेचलब्धंचतुश्चत्वारिंशदधिकं योजनशतं शेषमवतिष्ठतेऽष्टचत्वारिंशत्, चतुरशीत्यधिकशतसङ्ख्यानां च मण्डलानामपान्तरालानि त्र्यशीत्यधिकशतसङ्ख्यानि, सर्वत्रापि ह्यपान्तरालानि रूपोनानि भवन्ति तथा च प्रतीतमेतत् चतसृणामङ्गुलीनामपान्तरालानि त्रीणीति, एकैकं मण्डलान्तरालं च द्वियोजनप्रमाणं, ततस्त्रयशीत्यधिकंशतं द्विकेन गुण्यते,जातानित्रीणिशतानिषट्षष्ट्यधिकानि ३६६, पूर्वोक्तं च चतुश्चत्वारिंशं शतमत्र प्रक्षिप्यते, ततो जातानि पञ्चशतानि दशोत्तराणि योजनानि अष्टचत्वारिंशदेकषष्टिभागायोजनस्य, अनेन चमण्डलक्षेत्रस्य प्रमाणमभिहितं,मण्डलक्षेत्रनाम सूर्यमण्डलैः सर्वाभ्यन्तरादिभिः सर्वबाह्यपर्यवसानैाप्तमाकाशं, तच्चक्रवालविष्कम्मतोऽवसेयम् । उक्तंच___ मू. (२५४) सूरमंडलस्स णं भंते ! सूरमंडलस्स य केवइयं अबाहाए अंतरे पन्नते?, गोअमा! दो जोअणाई अबाहाए अंतरे पन्नते ३।। वृ.अथ मण्डलान्तरद्वारम्-'सूरमंडल इत्यादि, भगवन् ! सूर्यमण्डलस्य सूर्यमण्डलस्य च कियदबाधया अव्यवधानेनान्तरं प्रज्ञप्तम् ?, कोऽर्थः ?-पूर्वस्मादपरं मण्डलं कियददूरं इत्यर्थः, अत्र यथा योजनद्वयमुपपद्यते तथाऽनन्तरमेव मण्डलसव्याद्वारे दर्शितम् । गतं मण्डलान्तरद्वारं, अथ बिम्बायामविष्कम्भादिद्वारम् मू. (२५५) सूरमंडलेणंभंते! केवइअंआयामविक्खंभेणं केवइअंपरिक्खेवेणं केवइअं बाहल्लेणं बाहल्लेणं पन्नते ?, गोअमा! अडयालीसं एगसट्ठिभाए जोअणस्स आयामविक्खंभेणं तंतिगुणं सविसेसं परिक्खेवेणं चउवीसं एगसट्ठिभाए जोअणस्स बाहल्लेणं पन्नत्ते इति ४। वृ. 'सूरमंडलेणमित्यादि, सूर्यमण्डलंणमितिप्राग्वत्भगवन् ! कियदायामविष्कम्भाभ्यां प्रज्ञप्तं, अयमर्थ:-एकयोजनस्यैकषष्टिभागाःकल्प्यन्तेतद्रूपायेऽष्टचत्वारिंशद्भागास्तावप्रमाणावस्यायामविष्कम्भावित्यर्थः, तत्रिगुणं सविशेष-साधिकं परिक्षेपेण, अष्टचत्वारिंशत्रिगुणिता 1328] For Private & Personal Use Only Jain Education International www.jainelibrary.org

Loading...

Page Navigation
1 ... 434 435 436 437 438 439 440 441 442 443 444 445 446 447 448 449 450 451 452 453 454 455 456 457 458 459 460 461 462 463 464 465 466 467 468 469 470 471 472 473 474 475 476 477 478 479 480 481 482 483 484 485 486 487 488 489 490 491 492 493 494 495 496 497 498 499 500 501 502 503 504 505 506 507 508 509 510 511 512 513 514 515 516 517 518 519 520 521 522 523 524 525 526 527 528 529 530 531 532 533 534 535 536 537 538 539 540 541 542 543 544 545 546 547 548 549 550 551 552 553 554 555 556 557 558 559 560 561 562 563 564