Book Title: Agam Suttani Satikam Part 13 Jambudwip pragnapati
Author(s): Dipratnasagar, Deepratnasagar
Publisher: Agam Shrut Prakashan

View full book text
Previous | Next

Page 440
________________ वक्षस्कारः-७ ४३७ जंबूद्वीपपरिरयात् शोध्यन्ते, ततो यथोक्तंपरिक्षेपमानं भवति, अथ । द्वितीयमण्डले - 'अब्मंतराण'मित्यादि, अन्वययोजना सुगमा, तात्पर्यार्थस्त्वयम्- सर्वाभ्यन्तरानन्तरं च-द्वितीयं सूर्यमण्डलमायामविष्कम्भाभ्यां नवनवतिं योजनसहस्राणि षट् च योजनशतानि पञ्चचत्वारिंशदधिकानिपञ्चत्रिंशतं चैकषष्टिभागान्योजनस्य ९९६४५,३५, तथाहि-एकतोऽपि सर्वाभ्यन्तरानन्तरं मंण्डलं सर्वाभ्यन्तरमण्डलगतानष्टचत्वारिंशत्सङ्घयानेक- षष्टिभागान् द्वे च योजने अपान्तराले विमुच्य स्थितमपरतोऽपि, ततः पञ्च योजनानि पञ्चत्रिंश- चैकषष्टिभागा योजनस्य पूर्वमण्डलविष्कम्भादस्य मण्डलस्य विष्कम्भे वर्द्धन्ते, अस्य च सर्वाभ्यन्तरानन्तरमण्डलस्य परिक्षेपस्त्रीणि शतसहस्राणि पञ्चदश सहस्राण्येकं च शतं सप्तोत्तरं योजनानां तथाहि-पूर्वमण्डलादस्य विष्कम्भेपञ्चयोजनानिपञ्चत्रिंशच्चैकषष्टिभागायोजनस्य वर्द्धन्ते, पञ्चानां चयोजनानां पञ्चत्रिंशत्सङ्ख्यैकभागाधिकानांपरिरयः सप्तदशयोजनानिअष्टत्रिंशत-चैकषष्टिभागाः समधिकाः योजनस्य परं व्यवहारतो विवक्ष्यन्ते परिपूर्णानि अष्टादश योजनानि, तानि पूर्वमण्डलपरिक्षेपे यदाऽधिकानि प्रक्षिप्यन्ते तदा यथोक्तं द्वितीयमण्डलपरिमाणं स्यात् । तृतीयमण्डले- अब्मंतरतच्चेण मित्यादिव्यक्तं, नवरमुत्तरसूत्रेनवनवतिंयोजनसहस्राणि षट्च एकपञ्चाशानि योजनशतानि नव चैकषष्टिभागान् योजनस्याभ्यन्तरतृतीयाख्यं मण्डलमायामविष्कम्भेण, अत्रोपपत्ति-पूर्वमण्डलायामविष्कम्भे ९९६४५ योजन ३५]., इत्येवंरूपे एतन्मण्डलवृद्धो ५ योजन प्रक्षिप्तायां यथोक्तं मानं भवति, परिक्षेपेण च त्रीणि योजनलक्षाणि पञ्चदश योजनसहस्राणि एकं च पञ्चविंशत्यधिकं योजनशतं, तत्रोपपत्ति-पूर्वमण्डलपरिक्षेप ३१५१०७ योजनरूपे प्रागुक्तयुक्तयाऽऽनीते अष्टादश १८ योजनरूपायां वृद्धौ प्रक्षिप्तायां यथोक्तं मानं भवति, अत्रोक्तातिरिक्तमण्डलायामादिपरिज्ञानाय लाघवार्थमतिदेशमाह-“एवं खलुएतेण एवमुक्तरीत्या मण्डलत्रयदर्शितयेत्यर्थः, एतेनोक्तप्रकारेण निष्कामयन् २ सूर्यस्तदनन्तरात्तदनन्तरंमण्डलं संक्रामन् २ पञ्चपञ्च योजनानि पञ्चत्रिंशतंचैकषष्टिभागान्योजनस्यैकैकस्मिन् मण्डले विष्कम्भवृद्धिमभिवर्द्धयन् २ तथा उक्तरीत्यैवाष्टादश योनानि परिरयवृद्धिमभिवर्द्धयन् २ सर्वबाह्यमण्डलमुपसंक्रम्य चारंचरति। अथ प्रकारान्तरेण प्रस्तुतविचारपरिज्ञाना पश्चानुपूर्व्या पृच्छनाह-सव्वबाहिरए' इत्यादि प्रश्नसूत्रं व्यक्तं, उत्तरसूत्रे एकंयोजनलक्षं षट्षष्ट्यधिकानि योजनशतान्यायामविष्कम्भाभ्यां, उपपत्तिस्तु जंबूद्वीपो लक्ष उभयोः पार्श्वयोश्च प्रत्येकं त्रिंशदधिकानि त्रीणि योजनशतानि लवणान्तरमतिक्रम्य परतो वर्तमानत्वादस्य इदमेव मानं, त्रीणि योजनलक्षाण्यष्टादश च सहस्राणि त्रीणि च पञ्चदशोत्तराणि योजनशतानि 'व्याख्यातो विशेषप्रतिपत्ति'रिति किञ्चिदूनानि परिक्षेपेण भवन्ति, किञ्चिदूनत्वं चात्र परिक्षेपकरणेन स्वयं बोध्यं, संवादश्चात्र विष्कम्भायाममाने लक्षोपरि यानि षष्ट्यधिकानि षट् योजनशतान्युक्तानि तस्य परिरयमानीय तस्य च जंबूद्वीपपरिरये प्रक्षेपणाद् भवति । अथ द्वितीयमण्डलं 'बाहिराणंतरेणंभंते! इत्यादिप्रश्नःप्राग्वत्, उत्तरसूत्रे गौतम! एकं योजनलक्षं षट् चतुःपञ्चाशानि योजनशतानि षड्विंशतिं चैकषष्टिभागान् योजनस्यायामविष्कम्भाभ्यां, संवदति चेदं सर्वबाह्यमण्डलविष्कम्भात्पञ्चत्रिंशदेकषष्टिभागाधिकपञ्चयोजनेषु शोधितेष्विति, त्रीणि योजनलक्षाण्यष्टादश च सहस्राणि द्वे च सप्तनवतियोजनशते परिक्षेपेण, Jain Education International For Private & Personal Use Only www.jainelibrary.org


Page Navigation
1 ... 438 439 440 441 442 443 444 445 446 447 448 449 450 451 452 453 454 455 456 457 458 459 460 461 462 463 464 465 466 467 468 469 470 471 472 473 474 475 476 477 478 479 480 481 482 483 484 485 486 487 488 489 490 491 492 493 494 495 496 497 498 499 500 501 502 503 504 505 506 507 508 509 510 511 512 513 514 515 516 517 518 519 520 521 522 523 524 525 526 527 528 529 530 531 532 533 534 535 536 537 538 539 540 541 542 543 544 545 546 547 548 549 550 551 552 553 554 555 556 557 558 559 560 561 562 563 564