________________
वक्षस्कारः-७
४३७
जंबूद्वीपपरिरयात् शोध्यन्ते, ततो यथोक्तंपरिक्षेपमानं भवति, अथ । द्वितीयमण्डले -
'अब्मंतराण'मित्यादि, अन्वययोजना सुगमा, तात्पर्यार्थस्त्वयम्- सर्वाभ्यन्तरानन्तरं च-द्वितीयं सूर्यमण्डलमायामविष्कम्भाभ्यां नवनवतिं योजनसहस्राणि षट् च योजनशतानि पञ्चचत्वारिंशदधिकानिपञ्चत्रिंशतं चैकषष्टिभागान्योजनस्य ९९६४५,३५, तथाहि-एकतोऽपि सर्वाभ्यन्तरानन्तरं मंण्डलं सर्वाभ्यन्तरमण्डलगतानष्टचत्वारिंशत्सङ्घयानेक- षष्टिभागान् द्वे च योजने अपान्तराले विमुच्य स्थितमपरतोऽपि, ततः पञ्च योजनानि पञ्चत्रिंश- चैकषष्टिभागा योजनस्य पूर्वमण्डलविष्कम्भादस्य मण्डलस्य विष्कम्भे वर्द्धन्ते, अस्य च सर्वाभ्यन्तरानन्तरमण्डलस्य परिक्षेपस्त्रीणि शतसहस्राणि पञ्चदश सहस्राण्येकं च शतं सप्तोत्तरं योजनानां तथाहि-पूर्वमण्डलादस्य विष्कम्भेपञ्चयोजनानिपञ्चत्रिंशच्चैकषष्टिभागायोजनस्य वर्द्धन्ते, पञ्चानां चयोजनानां पञ्चत्रिंशत्सङ्ख्यैकभागाधिकानांपरिरयः सप्तदशयोजनानिअष्टत्रिंशत-चैकषष्टिभागाः समधिकाः योजनस्य परं व्यवहारतो विवक्ष्यन्ते परिपूर्णानि अष्टादश योजनानि, तानि पूर्वमण्डलपरिक्षेपे यदाऽधिकानि प्रक्षिप्यन्ते तदा यथोक्तं द्वितीयमण्डलपरिमाणं स्यात् ।
तृतीयमण्डले- अब्मंतरतच्चेण मित्यादिव्यक्तं, नवरमुत्तरसूत्रेनवनवतिंयोजनसहस्राणि षट्च एकपञ्चाशानि योजनशतानि नव चैकषष्टिभागान् योजनस्याभ्यन्तरतृतीयाख्यं मण्डलमायामविष्कम्भेण, अत्रोपपत्ति-पूर्वमण्डलायामविष्कम्भे ९९६४५ योजन ३५]., इत्येवंरूपे एतन्मण्डलवृद्धो ५ योजन प्रक्षिप्तायां यथोक्तं मानं भवति, परिक्षेपेण च त्रीणि योजनलक्षाणि पञ्चदश योजनसहस्राणि एकं च पञ्चविंशत्यधिकं योजनशतं, तत्रोपपत्ति-पूर्वमण्डलपरिक्षेप ३१५१०७ योजनरूपे प्रागुक्तयुक्तयाऽऽनीते अष्टादश १८ योजनरूपायां वृद्धौ प्रक्षिप्तायां यथोक्तं मानं भवति, अत्रोक्तातिरिक्तमण्डलायामादिपरिज्ञानाय लाघवार्थमतिदेशमाह-“एवं खलुएतेण एवमुक्तरीत्या मण्डलत्रयदर्शितयेत्यर्थः, एतेनोक्तप्रकारेण निष्कामयन् २ सूर्यस्तदनन्तरात्तदनन्तरंमण्डलं संक्रामन् २ पञ्चपञ्च योजनानि पञ्चत्रिंशतंचैकषष्टिभागान्योजनस्यैकैकस्मिन् मण्डले विष्कम्भवृद्धिमभिवर्द्धयन् २ तथा उक्तरीत्यैवाष्टादश योनानि परिरयवृद्धिमभिवर्द्धयन् २ सर्वबाह्यमण्डलमुपसंक्रम्य चारंचरति। अथ प्रकारान्तरेण प्रस्तुतविचारपरिज्ञाना पश्चानुपूर्व्या पृच्छनाह-सव्वबाहिरए' इत्यादि प्रश्नसूत्रं व्यक्तं, उत्तरसूत्रे एकंयोजनलक्षं षट्षष्ट्यधिकानि योजनशतान्यायामविष्कम्भाभ्यां, उपपत्तिस्तु जंबूद्वीपो लक्ष उभयोः पार्श्वयोश्च प्रत्येकं त्रिंशदधिकानि त्रीणि योजनशतानि लवणान्तरमतिक्रम्य परतो वर्तमानत्वादस्य इदमेव मानं, त्रीणि योजनलक्षाण्यष्टादश च सहस्राणि त्रीणि च पञ्चदशोत्तराणि योजनशतानि 'व्याख्यातो विशेषप्रतिपत्ति'रिति किञ्चिदूनानि परिक्षेपेण भवन्ति, किञ्चिदूनत्वं चात्र परिक्षेपकरणेन स्वयं बोध्यं, संवादश्चात्र विष्कम्भायाममाने लक्षोपरि यानि षष्ट्यधिकानि षट् योजनशतान्युक्तानि तस्य परिरयमानीय तस्य च जंबूद्वीपपरिरये प्रक्षेपणाद् भवति ।
अथ द्वितीयमण्डलं 'बाहिराणंतरेणंभंते! इत्यादिप्रश्नःप्राग्वत्, उत्तरसूत्रे गौतम! एकं योजनलक्षं षट् चतुःपञ्चाशानि योजनशतानि षड्विंशतिं चैकषष्टिभागान् योजनस्यायामविष्कम्भाभ्यां, संवदति चेदं सर्वबाह्यमण्डलविष्कम्भात्पञ्चत्रिंशदेकषष्टिभागाधिकपञ्चयोजनेषु शोधितेष्विति, त्रीणि योजनलक्षाण्यष्टादश च सहस्राणि द्वे च सप्तनवतियोजनशते परिक्षेपेण,
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org