________________
वक्षस्कारः - ५
३८३
दिक्कुमार्यो महत्तरिकाः प्रत्येकं २ आसनानि चलितानि पश्यन्ति दृष्ट्वा चावधिं प्रयुञ्जन्ति प्रयुज्य च भगवन्तं तीर्थकरमवधिना आभोगयंति आभोग्य च अन्यमन्यं शब्दयन्ति शब्दयित्वा च एवमवादिषुः यदवादिषुस्तदाह- 'उप्पन्ने' इत्यादि, उत्पन्नः खलु भो ! जंबूद्वीपे द्वीपे भगवांस्तीर्थकरः तज्ञ्जीतमेतत्-कल्प एषोऽतीतप्रत्युत्पन्नानागतानामधोलोकवास्तव्यानामष्टानां दिक्कुमारीमहत्तरिकाणां भगवतो जन्ममहिमां कर्त्तु, तद् गच्छामो वयमपि भगवतो जन्ममहिमां कुर्म्म इतिकृत्वा धातूनामनेकार्थत्वान्निश्चित्य मनसा एवं - अनन्तरोक्तं वदन्ति, उदित्वा च प्रत्येकं २ आभियोगिकान् देवान् शब्दयन्ति, शब्दयित्वा च एवमवादिषुः किमवादिषुरित्याह
'खिप्पामेव ' इत्यादि, भो देवानुप्रियाः ! क्षिप्रमेव अनेकस्तम्भशतसन्नविष्टानि लीलास्थितशालभञ्जिकाकानीत्येवमनेन क्रमेण विमानवर्णको भणितव्यः, स चायं - 'ईहाभिगउसभतुरगणरमगरविहगवालगकिन्नररुरुसरभचमरकुञ्जरवणलयपउमलयभत्तिचित्ते खंभुग्गयवइरवेइआपरिंगयाभिरामे विज्जाहरजमलजुअलजन्तजुत्ते विवअच्चीसहस्समालिणीए रूवगसहस्सकलिए भिसमाणे भिब्मिसमामे चक्खुल्लो अणलेसे सुहफासे सस्सिरीअरूवे घंटावलिअमहुरमणहरसरे सुभे कंते दरिसणिजे निउणोवि अमिसिमिसेंतमणिरयणघंटिआजालपरिक्खित्ते'त्ति, कियत्पर्यन्तमित्याहयावद्योजनविस्तीर्णानि दिव्यानि यानाय - इष्टस्थाने गमनाय विमानानि अथवा यानरूपाणिवाहनरूपाणि विमानानि यानविमानानि विकुर्वत - वैक्रियशक्त्या सम्पादयत विकुर्वित्वा च एनामाज्ञप्तिं प्रत्यर्पयत, अथ यानविमानवर्णकव्याख्या प्राग्वद् ज्ञेया, तोरणादिवर्णकेषु एतद्विशेषणगणस्य व्याख्यातत्वात्, ततस्ते किं चक्रुरित्याह- 'तए ण' मित्यादि ततस्ते आभियोगिका देवा अनेकस्तम्भशतसन्निविष्टानि यावदाज्ञां प्रत्यर्पयन्ति, अथैताः किं कुर्वन्तीत्याह - 'तए णं ताओ' इत्यादि, ततस्ता अधोलोकवास्तव्या अष्टौ दिककुमारीमहत्तरिकाः हट्ठतुट्ठेत्याद्येकदेशदर्शनेन सम्पूर्ण आलापको ग्राह्यः, स चायं - हठ्ठतुट्ठचित्तमानंदिआ पीअमणा परमसोमणस्सिआ हरिसवसविसप्पमाणहिअया विअसिअव-रकमलनयणा पचलिअवरकडगतुडिअकेऊरमउडकुण्डलहारविरायंतरइअवच्छा पालंबलंबमाण - धोलंतभूसणधरा ससंभमं तुरिअं चवलं सीहासणाओ अब्मुट्टेन्ति २ त्ता पायपीढाओ पचोरुहंति २ त्ता' इति प्रत्येकं २ चतुर्भि : सामानिकसहस्रैः चतसृभिश्च महत्तरिकाभिर्यावदन्यैर्बहुभिर्देवैर्देवीभिश्च सार्द्ध संपरिवृताः तानि दिव्यानि यानविमानान्यारोहंति, आरोहणोत्तरकालं येन प्रकारेण सूतिकागृहमुपतिष्ठन्ते तथाऽऽह'दुरुहित्ता' इत्यादि, आरुह्य च सर्वद्धर्या सर्वद्युत्या घनमृदङ्गं - मेघवद् गम्भीरध्वनिकं मृदङ्गं पणवो - मृत्पटहः, उपलक्षणमेतत् तेनान्येषामपि तूर्याणा संग्रहः, एतेषां प्रवादितानां यो रवस्तेन, तया उत्कृष्टया यावत्करणात् 'तुरिआए चलाए' इत्यादिपदसंग्रहः प्राग्वत् देवगत्या यत्रैव भगवतस्तीर्थकरस्य जन्मनगरं यत्रैव च तीर्थकरस्य जन्मभवनं तत्रैवोपागच्छंति उपागत्य च भगवतस्तीर्थकरस्य जन्मभवनं तैर्दिव्यैर्यानविमानैस्त्रकृत्वः आदक्षिणप्रदक्षिणं कुर्वन्ति, त्रीन् वारान् प्रदक्षिणयन्तीत्यर्थः, त्रि प्रदक्षिणणीकृत्य च उत्तरपौरस्त्ये दिग्भागे-ईशानकोणे ईषच्चतुरङ्गुलमसम्प्राप्तानि धरणितले तानि दिव्यानि यानविमानानि स्थापयन्तीति । अथ यच्चक्रुस्तदाह
स्थापयित्वा च प्रत्येकं २ अष्टावपीत्यर्थः चतुर्भिः सामानिकसहस्रैर्यावत् सार्द्धं सम्परिवृता दिव्येभ्यो यानविमानेभ्यः प्रत्यवरोहंति प्रत्यवरुह्य च सर्वद्धर्ज्या यावच्छब्दात् सर्वद्युत्यादिपरिग्रहः
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org