________________
३८४
जम्बूद्वीपप्रज्ञप्ति-उपाङ्गसूत्रम् ५/२१४ कियत्पर्यन्तमित्याह–“संखपणवभेरिझल्लरिख-रमुहिहुडुक्कमुरजमुइंगदुंदुहिनिग्घोसनाइएणं'ति, यत्रैव भगवांस्तीर्थकरमाता चतत्रैवोपागच्छंति, उपागत्यच भगवन्तं तीर्थकरं तीर्थकरमातरं च त्रि प्रदक्षिणयन्ति त्रि प्रदक्षिणीकृत्य च प्रत्येकं कस्तलपरिगृहीतं शिरस्यावर्त मस्तके अअलिं कृत्वा एवं वक्ष्यमाणमवादिषुः, यदवादिषुस्तदाह-नमोऽस्तु ते-तुभ्यं रत्नं-भगवल्लक्षणं कुक्षो धरतीति रत्नकुक्षिधारिके अथवा रलगर्भावद् गर्भधारकत्वेनापरसत्रीकुक्षिभ्योऽतिशायित्वेन रत्नरूपां कुक्षिं धरतीति, शेषं तथैव, तथा जगतो-जगद्वर्तिजनानां सर्वभावानां प्रकाशकत्वेन प्रदीप इव प्रदीपो भगवान् तस्य दीपिके, सर्वजगन्मङ्गलभूतस्य चक्षुरिव चक्षु सकलजगद्भावदर्शकत्वेन तस्य, चः समुच्चये, चक्षुश्च द्रव्यभावभेदाभ्याद्विधा, तत्राद्यंभावचक्षुरसहकृतं नार्थप्रकाशकंतेन भावचक्षुषाभगवानुपमीयते, तच्चामूर्त्तमितिततोविशेषमाह-मूर्तस्य-मूर्त्तिमतः चक्षुर्ग्राह्यस्येत्यर्थः, सर्वज- गज्जीवाना वत्सलस्य-उपकारकस्य उक्तार्थे विशेषणद्वारा हेतुमाह-हितकारको मार्गो-मुक्तिमार्ग सम्यग्ज्ञानदर्शनचारित्ररूपस्तस्य देशिका-उपदेशिका उफदेशदर्शिकेत्यर्थः, तथा विभ्वी-सर्वभाषा- नुगमनेन परिणमनात् सर्वव्यापिनी सगकलश्रोतृजनहृदयसङ्कङ्कान्ततात्पर्यार्था एवंविधा वागऋद्धि-वाकसम्पत्तस्याः प्रभुः-स्वामी सातिशयवचनलब्धिक इत्यर्थः, तस्य तथा, अत्र विशेषणस्य परनिपातः प्राकृतत्वात् ।
जिनस्य-रागद्वेषजेतुः ज्ञानिनः-सातिसयज्ञानयुक्तस्य नायकस्य-धर्मवरचक्रवर्तिनः बुद्धस्य-विदिततत्वस्य बोधकस्य-परेषामावेदिततत्वस्य सकललोकनाथस्य-सर्वप्राणिवर्गस्य बोधिबीजाधानसंरक्षणाभ्यां योगक्षेमकारित्वात् निर्ममस्य-ममत्वरहितस्य प्रवरकुलसमुद्भवस्य जात्या क्षत्रियस्य एवंविधविख्यातगुणस्यलोकोत्तमस्ययत्वमसिजननी तत्वंधन्याऽसिपुण्यवत्यसि कुतार्थाऽसि, वयं हे देवानुप्रिये ! अधोलोकवास्तव्या अष्टौ दिककुमारीमहत्तरिकाः भगवतो जन्ममहिमां करिष्यामस्तेन युष्माभिर्न भेतव्यं, असम्भाव्यमानपरजनापातेऽस्मिन् रहःस्थाने इमा विसशजातीयाः किमितशङ्काकुलं चेतो न कार्यमित्यर्थः, अथैतासामितिकर्तव्यतमाह
'इतिकट्ठ उत्तरपुरस्थिमं दिसीभाग' मित्यादि,इतिकृत्वा-प्रस्तावादित्युक्त्वा ता एवोत्तरपौरस्त्यं दिग्भागमपक्रामन्ति, अपक्रम्यच वैक्रियसमुदघातेनसमवघ्नन्ति समवहत्यचसङ्ख्यातानि योजनानि दण्डं निसृजन्ति, निसृज्य च किं ताः कुर्वन्ति?, तदेवाह-तद्यथा रत्नानां यावत्पदात् 'वइराणंवेरुलिआणंलोहिअक्खाणंमसारगल्लाणं हंसगब्माणं पुलयाणं सोगंधियाणंजोईरसाणं अंजणाणं पुलयाणं रयणाणंजायरूवाणं अंकाणं फलिहाणं रिट्ठाणं अहाबायरे पुग्गले परिसाडेइ, अहासुहुमे पुग्गले परिआएइ, दुचंपि वेउब्विअसमुग्घाएणं समोहणइ २ त्ता' इति पदसंग्रहः, एतत्स विस्तरव्याख्या पूर्वं भरताभियोगिकदेवानां वैक्रियकरणाधिकारे कृता तेन ततो ग्राह्या, वाक्ययोजनार्थं तुकिञ्चिल्लिख्यते, एषां रलानांबादरान् पुदगलान् परिशाटय सूक्ष्मान् पुदगलान् गृह्णन्ति, पुनर्वैक्रियसमुदघातपूर्वकं संवर्तकवातान् विकुर्वन्ति, बहुवचनंचात्र चिकीर्षितकार्यस्य सम्यकसिद्ध्यर्थं पुनः पुनर्वातविकुर्वणाज्ञापनार्थं, विकुळच तेन-तत्कालविकुर्वितेन शिवेनउपद्रवरहितेनमूदुकेन-भूमिसर्पिणा मारुतेन अनुभूतेन-अनूवंचारिणा भूमितल विमलकरणेन मनोहरेण सर्वर्तुकानां-षडऋतुसम्भवानां सुरभिकुसुमानां गंधेनुवासितेन पिण्डिमः-पिण्डितः सन् नि रिमो-दूरंविनिर्गमनशीलो यो गंधस्तेन उद्धरेणबलिष्ठेनेत्यर्थः तिर्यकप्रवातेन-तिर्यक्
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org