Book Title: Agam Suttani Satikam Part 13 Jambudwip pragnapati
Author(s): Dipratnasagar, Deepratnasagar
Publisher: Agam Shrut Prakashan

View full book text
Previous | Next

Page 412
________________ वक्षस्कारः - ५ ४०९ नतु गुणेनेत्याह-विशेषिततराणि - अतिविशिष्टानि भणितव्यानि - वाच्यानि प्रथमकल्पीयदेवविकुर्वणातो ऽच्युतकल्पदेवविकुर्वणाया अधिकतरत्वात्, तथा सिंहासनच्छत्रचामरतिलसमुद्गकयावत्सर्षपसमुद्गकः, अत्र यावत्पदात् कोष्ठसमुद्गकादयो वाच्याः, एषां च व्याख्या प्राग्वत्, तालवृंतानि यावत्करणात् व्यजनानीति ग्रहः, तत्र व्यजनानीति सामांयतो वातोपकरणानि तालवृंतानि तद्विशेषरूपाणि, एषामष्टसहस्रमष्टसहस्रमिति, अष्टसहस्रं धूपकडुच्छुकानामिति । अथ विकुर्वणायाः सार्थकत्वमाह - 'विउव्वित्ता' इत्यादि, विकुर्वित्वा च स्वाभाविकान्देवलोके देवलोकवत् स्वयंसिद्धान् शाश्वतान् वैक्रियांश्च - अनंतरोक्तान् सौवर्णादिकान् यावच्छब्दात् भृङ्गारादयो व्यजनांता ग्राह्याः, धूपकडुच्छुकांश्च सूत्रे साक्षादुपात्तान्, गृहीत्वा च यत्रैव क्षीरोदः समुद्रः तत्रैवागत्य क्षीरोदकं-क्षीररूपमुदकं गृह्णन्ति, ननु मेरुतोऽभिषेकाङ्गभूवस्तुग्रहणाय चलंतस्ते देवास्तदग्रहणोपयोगि वस्तुजातं कलशभृङ्गदारादिकं गृह्णन्तु परं तदनुपयोगि यावच्छब्दोदरप्रविष्टं सिंहासनचामरादिकं तैलसमुदगकादिकं च कथं गृह्णन्तीति चेदुच्यते, विकुर्वणासूत्रस्यातिदेशेन ग्रहणसूत्रस्यातिदिष्टत्वादेतत्सूत्रपाठस्यांतर्गतत्वेऽपि ये ग्रहणोचितास्ते एव गृहीता इति बोध्यं, योग्यतावशादेवार्थप्रतिपत्तेः, यच्च धूपकडुच्छुकानां तत्र ग्रहणं तत्कलशभृङ्गारादिदेवहस्तधूपनार्थमिति, अंयथा सूत्रे साक्षादुपदर्शितस्य धूपकडुच्छुकानां ग्रहणस्य नैरर्थक्यापत्तेः । अथ प्रस्तुतसूत्रं - गृहीत्वा च यानि तत्र क्षीरोदे उत्पलानि पद्मानि यावत्सहनपत्राणि तानि गृह्णन्ति यावत्पदात् कुमुदादिग्रहः, एवमनया रीत्या पुष्करोदात्- उदकादिकं गृह्णन्ति, यत्तु क्षीरोदाद्विनिवृत्तैर्वारुणीवरमंतरा मुक्त्वा पुष्करोदे जलं गृहीतं तद्वारुणीवरवारिणोऽग्राह्यत्वादिति सम्भाव्यते, यावच्छब्दात् समयखित्ते इति ग्राह्यं तेन मनुष्यक्षेत्रे भरतैरावतयोः प्रस्तावात् पुष्करवर्गीपार्द्धसत्कयोः मागधादीनां तीर्थानामुदकं मृत्तिकां च गृह्णन्ति 'एव’मिति समयक्षेत्रस्थपुष्कवरद्वीपार्द्धसत्कानां गङ्गादीनां महानदीनां आदिशब्दात् सर्वमहानदीग्रहः यावत्पदात् उदकमुभयतटमृत्तिकां गृह्णन्ति, क्षुद्रहिमवतः सर्वान् तुवरान्कषायद्रव्याणि आमलकादीनि सर्वाणि जातिभेदेन पुष्पाणि सर्वान् गंधानू - वासादीन् सर्वाणि माल्यानि-ग्रथितादिभेदभिन्नानि सर्वा महौषधीः- राजहंसीप्रमुखाः सिद्धार्थकांश्च - सर्षपान् गृह्णन्ति २ त्वा च पद्मद्रहाद् द्रहोदकमुत्पलादीनि च गृह्णन्ति, एवं क्षुद्रहिमवन्यायेन सर्वक्षेत्रव्यवस्थाकारित्वेन कुलकल्पाः पर्वताः मध्यपदलोपे कुलपर्वता हिमाचलादयस्तेषु वृत्तवैताढ्येषु सर्वमहाद्रहेषुपद्मद्रहादिषु सर्ववर्षेषु-भरतादिषु सर्वचक्रवर्त्तिविजयेषु - कच्छादिषु वक्षस्कारपर्वतेषु - गजदंताकृतिषु माल्यवदादिषु सरलाकृतिषुच चित्रकूटादिषु तथा अंतरनदीषु - ग्राहावत्यादिषु विभाषेतवदेत्, पर्वतेषुतुतुबरादीनां द्रहेषु उत्पलादीनां कर्मक्षेत्रेषु मागधादितीर्थदकमृदां नदीषूदकोभयतटमृदां ग्रहणं वक्तव्यमित्यर्थः, यावत्पदात् देवकुरुपरिग्रहस्तेन कुरुद्वये चित्रविचित्रगिरियमकगिरिकाञ्चनगिरिहृददशकेषु यथासम्भवं वस्तुजातं गृह्णन्ति, यावत्पदात् पुष्करवरद्वीपार्द्धस्य पूर्वापरार्द्धयोर्भरतादिस्थानेषु वस्तुग्रहो वाच्यः, ततो जंबूद्वीपेऽपि तदग्रहस्तथैव वाच्यः कियत्पर्यतं ? सुदर्शने पूर्वार्धमेरौ भद्रशालवने नंदनवने सौमनसवने पण्डकवने च सर्वतुबरान् गृह्णन्ति तथा तस्यैवापरार्धे अनेनैव क्रमेण वस्तुजातं गृह्णन्ति, ततो धातकीखण्डजंबूद्वीपगतो मेरुस्तस्य For Private & Personal Use Only www.jainelibrary.org Jain Education International

Loading...

Page Navigation
1 ... 410 411 412 413 414 415 416 417 418 419 420 421 422 423 424 425 426 427 428 429 430 431 432 433 434 435 436 437 438 439 440 441 442 443 444 445 446 447 448 449 450 451 452 453 454 455 456 457 458 459 460 461 462 463 464 465 466 467 468 469 470 471 472 473 474 475 476 477 478 479 480 481 482 483 484 485 486 487 488 489 490 491 492 493 494 495 496 497 498 499 500 501 502 503 504 505 506 507 508 509 510 511 512 513 514 515 516 517 518 519 520 521 522 523 524 525 526 527 528 529 530 531 532 533 534 535 536 537 538 539 540 541 542 543 544 545 546 547 548 549 550 551 552 553 554 555 556 557 558 559 560 561 562 563 564