________________
वक्षस्कारः - ५
४०९
नतु गुणेनेत्याह-विशेषिततराणि - अतिविशिष्टानि भणितव्यानि - वाच्यानि प्रथमकल्पीयदेवविकुर्वणातो ऽच्युतकल्पदेवविकुर्वणाया अधिकतरत्वात्, तथा सिंहासनच्छत्रचामरतिलसमुद्गकयावत्सर्षपसमुद्गकः, अत्र यावत्पदात् कोष्ठसमुद्गकादयो वाच्याः, एषां च व्याख्या प्राग्वत्, तालवृंतानि यावत्करणात् व्यजनानीति ग्रहः, तत्र व्यजनानीति सामांयतो वातोपकरणानि तालवृंतानि तद्विशेषरूपाणि, एषामष्टसहस्रमष्टसहस्रमिति, अष्टसहस्रं धूपकडुच्छुकानामिति ।
अथ विकुर्वणायाः सार्थकत्वमाह - 'विउव्वित्ता' इत्यादि, विकुर्वित्वा च स्वाभाविकान्देवलोके देवलोकवत् स्वयंसिद्धान् शाश्वतान् वैक्रियांश्च - अनंतरोक्तान् सौवर्णादिकान् यावच्छब्दात् भृङ्गारादयो व्यजनांता ग्राह्याः, धूपकडुच्छुकांश्च सूत्रे साक्षादुपात्तान्, गृहीत्वा च यत्रैव क्षीरोदः समुद्रः तत्रैवागत्य क्षीरोदकं-क्षीररूपमुदकं गृह्णन्ति, ननु मेरुतोऽभिषेकाङ्गभूवस्तुग्रहणाय चलंतस्ते देवास्तदग्रहणोपयोगि वस्तुजातं कलशभृङ्गदारादिकं गृह्णन्तु परं तदनुपयोगि यावच्छब्दोदरप्रविष्टं सिंहासनचामरादिकं तैलसमुदगकादिकं च कथं गृह्णन्तीति चेदुच्यते, विकुर्वणासूत्रस्यातिदेशेन ग्रहणसूत्रस्यातिदिष्टत्वादेतत्सूत्रपाठस्यांतर्गतत्वेऽपि ये ग्रहणोचितास्ते एव गृहीता इति बोध्यं, योग्यतावशादेवार्थप्रतिपत्तेः, यच्च धूपकडुच्छुकानां तत्र ग्रहणं तत्कलशभृङ्गारादिदेवहस्तधूपनार्थमिति, अंयथा सूत्रे साक्षादुपदर्शितस्य धूपकडुच्छुकानां ग्रहणस्य नैरर्थक्यापत्तेः । अथ प्रस्तुतसूत्रं - गृहीत्वा च यानि तत्र क्षीरोदे उत्पलानि पद्मानि यावत्सहनपत्राणि तानि गृह्णन्ति यावत्पदात् कुमुदादिग्रहः, एवमनया रीत्या पुष्करोदात्- उदकादिकं गृह्णन्ति, यत्तु क्षीरोदाद्विनिवृत्तैर्वारुणीवरमंतरा मुक्त्वा पुष्करोदे जलं गृहीतं तद्वारुणीवरवारिणोऽग्राह्यत्वादिति सम्भाव्यते, यावच्छब्दात् समयखित्ते इति ग्राह्यं तेन मनुष्यक्षेत्रे भरतैरावतयोः प्रस्तावात् पुष्करवर्गीपार्द्धसत्कयोः मागधादीनां तीर्थानामुदकं मृत्तिकां च गृह्णन्ति
'एव’मिति समयक्षेत्रस्थपुष्कवरद्वीपार्द्धसत्कानां गङ्गादीनां महानदीनां आदिशब्दात् सर्वमहानदीग्रहः यावत्पदात् उदकमुभयतटमृत्तिकां गृह्णन्ति, क्षुद्रहिमवतः सर्वान् तुवरान्कषायद्रव्याणि आमलकादीनि सर्वाणि जातिभेदेन पुष्पाणि सर्वान् गंधानू - वासादीन् सर्वाणि माल्यानि-ग्रथितादिभेदभिन्नानि सर्वा महौषधीः- राजहंसीप्रमुखाः सिद्धार्थकांश्च - सर्षपान् गृह्णन्ति २ त्वा च पद्मद्रहाद् द्रहोदकमुत्पलादीनि च गृह्णन्ति, एवं क्षुद्रहिमवन्यायेन सर्वक्षेत्रव्यवस्थाकारित्वेन कुलकल्पाः पर्वताः मध्यपदलोपे कुलपर्वता हिमाचलादयस्तेषु वृत्तवैताढ्येषु सर्वमहाद्रहेषुपद्मद्रहादिषु सर्ववर्षेषु-भरतादिषु सर्वचक्रवर्त्तिविजयेषु - कच्छादिषु वक्षस्कारपर्वतेषु - गजदंताकृतिषु माल्यवदादिषु सरलाकृतिषुच चित्रकूटादिषु तथा अंतरनदीषु - ग्राहावत्यादिषु विभाषेतवदेत्, पर्वतेषुतुतुबरादीनां द्रहेषु उत्पलादीनां कर्मक्षेत्रेषु मागधादितीर्थदकमृदां नदीषूदकोभयतटमृदां ग्रहणं वक्तव्यमित्यर्थः, यावत्पदात् देवकुरुपरिग्रहस्तेन कुरुद्वये चित्रविचित्रगिरियमकगिरिकाञ्चनगिरिहृददशकेषु यथासम्भवं वस्तुजातं गृह्णन्ति, यावत्पदात् पुष्करवरद्वीपार्द्धस्य पूर्वापरार्द्धयोर्भरतादिस्थानेषु वस्तुग्रहो वाच्यः, ततो जंबूद्वीपेऽपि तदग्रहस्तथैव वाच्यः कियत्पर्यतं ?
सुदर्शने पूर्वार्धमेरौ भद्रशालवने नंदनवने सौमनसवने पण्डकवने च सर्वतुबरान् गृह्णन्ति तथा तस्यैवापरार्धे अनेनैव क्रमेण वस्तुजातं गृह्णन्ति, ततो धातकीखण्डजंबूद्वीपगतो मेरुस्तस्य
For Private & Personal Use Only
www.jainelibrary.org
Jain Education International