________________
३३०
जम्बूद्वीपप्रज्ञप्ति-उपाङ्गसूत्रम् ४/१५१ त्रिसोपानप्रतिरूपकाणि प्रज्ञप्तानि, एतानिच त्रीणि मिलितानिद्विक्रोशोच्चानि भवन्तिकोशविस्ती
निअतएव प्रान्त द्विक्रोशबाहल्यात्पीठात् उत्तरतामवतरतांचसुखावहद्वारभूतानिवर्णकश्च तावद्वक्तव्योयावत्तोरणानि, तस्सण'मित्यादि, व्यक्तं, 'तीसे णमित्यादि, तस्यामणिपीठिकाया उपरिअत्जम्बूःसुदर्शनानाम्नीप्रज्ञप्ता, अष्टयोजनान्यूर्वोच्चत्वेन अर्द्धयोजनमुद्वेधेन-भूप्रवेशेन, अथास्या एवोच्चत्वस्याष्ट योजनानि विभागतो द्वाभ्यां सूत्राभ्या दर्शयति____ 'तीसे ण मित्यादि, तस्या जम्ब्वाः स्कन्धः-कन्दादुपरितनःशाखाप्रभवपर्यन्तोऽवयवो द्वे योजने ऊर्बोच्चत्वेनार्द्धयोजनंबाहल्येन-पिण्डेन तस्याःशाला विडिमापरपर्यायादिप्रसृता शाखा-मध्यभागप्रभवा ऊर्ध्वगता शाखा षड् योजनान्यूर्वोच्चत्वेन, तथा बहुमध्यदेशभागे प्रकरणाजम्बूरितिगम्यम्, अष्टौ योजनान्यायामविष्कम्भाभ्यां तान्येवास्याः स्कन्धोपरितनभागाचतसृष्वपि दिक्षुप्रत्येकमेकैका शाखा निर्गताताश्च क्रोशोनानिचत्वारियोजनानि, तेन पूर्वापरशाखादैर्ध्यस्कन्धबाहल्सम्बन्ध्यर्द्धयोजनमीलनेनोक्तसङ्ख्यानयनं, बहुमध्यदेशभागश्चात्र व्यावहारिको ग्राह्यः, वृक्षादीनांशाखाप्रभवस्थाने मध्यदेशस्यलोकैर्व्यवह्रियमाणत्वात्, पुरुषस्य कटिभाग इव, अन्यथा विडिमाया द्वियोजनातिक्रमे निश्रयप्राप्तस्य मध्यभागस्य ग्रहणे पूर्वापरशाखाद्वयविस्तारस्य ग्रहणसम्भवः विषमश्रेणिकत्वात्, अथवा बहुमध्यदेशभागःशाखानामिति गम्यते, कोऽर्थ : ?-यतश्चतुर्दिक्शाखामध्यभागस्तस्मिन्नित्यरर्थः, अष्टयोजनानयनं तु तथैव, उच्चत्वेन तुसवग्रिण-सर्वसङ्ख्यया कन्दस्कन्धविडिमापरिमाणमीलनेसातिरेकाण्यष्टौयोजनानीति, अथास्या वर्णकमाह-'तीसेण मित्यादि, तस्याजम्ब्वाअयमेतद्रूपोवर्णावासः प्रज्ञप्तः, वज्रमयानि मूलानि यस्याः सा वज्रमयमूला तथा रजता-रजतमयी सुप्रतिष्ठिता विडिमा-बहुमध्यदेशभागे ऊर्ध्वविनिर्गता शाखा यस्याः सा रजतसुप्रतिष्ठितविडिमा, ततः पतद्वयकर्मधारयः, यावत्पदात् चैत्यवृक्षवर्णकः सर्वोऽप्यत्र वाच्यः, कियत्पर्यन्तमित्याह-अधिकमनोनिवृतिकरी प्रासादीया दर्शनीया इत्यादि । अथास्याः शाखाव्यक्तिमाह
'जंबूए ण'मित्यादि, जम्ब्बाः सुदर्शनायाः चतुर्दिशि चतस्रः शालाः-शाखाः प्रज्ञप्ताः, तासांशालानांबहुमध्यदेशभागे उपरितनविडिमाशालायामित्यध्याहार्यंजीवाभिगमेततादर्शनात्, शेषंसुलभंवैतादयसिद्धकूटगतसिद्धायतनप्रकरणतो ज्ञेयमित्यर्थः, अत्र पूर्वशालादौ यत्र यदस्ति तत्र तद्वक्तुमाह-'तत्थ णमित्यादि, तत्र-तासु चतसृषु शालासु या सा पौरस्त्या शाला सूत्रे प्राकृतत्वात्पुंस्त्वनिर्देशः अत्रभवनं प्रज्ञप्तं क्रोशमायामेन ‘एवमेवेति सिद्धायतनवदिति, अर्द्धक्रोशं विष्कम्भेन देशोनं क्रोशमुच्चत्वेनेति प्रमाणं द्वारादिवर्णकश्च वाच्यः, नवरमत्र शयनीयं वाच्यं, शेषासुदाक्षिणात्यादिशालासुप्रत्येकमेकैकभावेन वयःप्रासादावतंसकाः सिंहासनानि सपरिवाराणि च बोद्धव्यनितेषांप्रमाणंचभवनवत्, तत्र खेदानोदाय भवनेषुशयनीयानप्रासादेषुत्वास्थानसभा इति, ननुभवनानि विषमायामविष्कम्भानि पद्मद्रहादिमूलपद्मभवनादिषुता दर्शनात्प्रासादास्तु समायामविष्कम्भाः दीर्घवैतादयकूटगतेषु वृत्तवैताढ्यगतेषु विजयादिराजधानीगतेषुअन्येष्वपि विमानादिगतेषुचप्रासादेषुसमचतुरनत्वेनसमायामविष्कम्भत्वस्य सिद्धान्तसिद्धत्वात् तत्कथमत्र प्रासादानां भवनतुल्यप्रमाणता घटते?, उच्यते।
"ते पासाया कोसं समूसिआ अद्धकोसविच्छिन्ना' इत्यस्य पूज्यश्रीजिनभद्रगणिक्ष
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org