SearchBrowseAboutContactDonate
Page Preview
Page 334
Loading...
Download File
Download File
Page Text
________________ वक्षस्कारः-४ ३३१ माश्रमणोपज्ञक्षेत्रविचारगाथार्द्धस्य वृत्ती-तेप्रासादाः क्रोशमेकंदेशोनमिति शेषः समुच्छ्रिता-उच्चाः क्रोशार्द्ध-अर्द्धक्रोशं विस्तीर्णा परिपूर्णमेकंक्रोशं दीर्घा इति श्रीमलयगिरिपादाः तथा जम्बूद्वीपसमासप्रकरणे "प्राच्येशाले भवनंइतरेषुप्रासादाः मध्ये सिद्धायतनं सर्वाणि विजयार्द्धमानानी"ति श्रीउमास्वातिवाचकपादाः तथा तपागच्छाधिराजपूज्यश्रीसोमतिलकसूरिकृतनव्यबृहत्क्षेत्रावचारसत्कायाः “पासाया सेसदिसासालासुवेअद्धगिरिगयव्व तओ' इत्यस्या गाथायाअवचूर्णो"शेषासु तिसृषु शाखसु प्रत्येकमेकैकभावेन तत्र त्रयः प्रासादाः-आस्थानोचितानि मन्दिराणि देशोनंक्रोशमुच्चाः क्रोशार्द्ध विस्तीर्णा पूर्ण क्रोशंदीर्घा" इति श्रीगुणरत्लसूरिपादाः यदाहुः तदाशयेन प्रस्तुतोपाङ्गस्योत्तरत्र जम्बूपरिक्षेपकवनवापीपरिगतप्रासादप्रमाणसूत्रानुसारेणचइत्येवं निश्चिनुमो जम्बूप्रकरणप्रासादा विषमायामविष्कम्भा इति, यत्तुश्रीजीवाभिगमसूत्रवृत्तौ 'क्रोशमेकमूर्ध्वमचैस्त्वेन अर्द्धक्रोशं विष्कम्भेने'त्युक्तं तद्गम्भीराशयं न विद्मः। ___अथास्याः पद्मवरवेदिकादिस्वरूपमाह-'जंबू ण'मित्यादि, जम्बूदशभि पद्मवरवेदिकाभिः-प्राकारविशेषरूपाभि सर्वतः समन्तात् सम्परिक्षिप्ता, वेदिकाना वर्णकः प्राग्वत्, इमाश्च मूलजम्बू परिवृत्य स्थिता ज्ञातव्याः, या तु पीठपरिवेष्टिका सा तुप्रागेवोक्ता । अथास्याः प्रथमपरि-क्षेपमाह-'जंबूण मित्यादि, जम्बूःणमिति वाक्यालङ्कारे अन्येनाष्टशतेन-अष्टोत्तरशतेन जम्बूवृक्षाणां 'तदोच्चत्वानां' तस्या मलजम्ब्बाः अर्द्धप्रमाणमुच्चत्वं यासांतास्तथा तासां सर्वतः समन्तात् सम्परिक्षिप्ता उपलक्षणंचैतत्तेनोद्वेधायामविस्ताराअपिअर्द्धप्रमाणाज्ञेयाः, तथाहि-ता अष्टाधिकशतसङ्ख्याजम्ब्बः प्रत्येकंचत्वारियोजनान्युच्चैस्त्वेन क्रोशमेकमवगाहेन एकंयोजनमुच्चः स्कन्धः त्रीणि योजनानि विडिमा सर्वाग्रेणोच्चैस्तेवन सातिरेकाणि चत्वारि योजनानि तत्रैकैका शाखा अर्द्धक्रोशहीने द्वे योजने दीर्घा क्रोशपृथुत्वः स्कन्ध इति भवन्ति सर्वसंख्यया आयामविष्कम्भतश्चत्वारियोजनानि, आसुचानाध्तदेवस्याभरणादि तिष्ठति, एतासांवर्णकज्ञापनायाह'तासिणवण्णओत्ति तासांच वर्णको मूलजम्बूसशएवेति, अथासांयावत्यः पद्मवरवेदिकास्ता आह 'ताओणमित्यादि, उत्तानार्थं, नवरंप्रतिजम्बूवृक्षंषट्षट्पद्मवरवेदिका इत्यर्थः, एतासु च १०८ जम्बूषु अत्र सूत्रे जीवाभिगमे बृहत्क्षेत्रविचारादौ सूत्रकृभिः वृत्तिकृद्भिश्चजिनभवनभवनप्रासादचिन्ता कापि न चक्रे बहवोऽपि च बहुश्रुताः श्राद्धप्रतिक्रमणसूत्रचूरणिका-रादयो मूलजम्बूवृक्षगततत्प्रथणळनखण्डगतकूटाष्टकजिनभवनैः सह सप्तदशोत्तरं शतं जिनभवनानां मन्यमानाः इहाप्येकैकं सिद्धायतनं पूर्वोक्तमानं मेनिरे ततोऽत्र तत्वं केवलिनो विदुरिति । सम्प्रति शेषान् परिक्षेपान् वक्तुं सूत्रचतुष्टयमाह- जम्ब्वाः सुदर्शनायाः उत्तरपूर्वस्याईशानकोणेउत्तरस्यामुत्तर-पश्चिमायां-वायव्यकोणेअत्रान्तरे दिक्त्रयेऽपीत्यर्थःअनाद्दतनाम्नोजम्बूद्वीपाधिपतेर्देवस्य चतुर्णा सामानिकसहस्राणां चत्वारि जम्बूसहस्रणि प्रज्ञप्तानि, 'तीसे ण'मित्यादि, कण्ठ्यं, गाथाबन्धेन पार्षद्यदेवजम्बूराहमू. (१५२) दक्खिणपुरथिमे दक्खिणेण तह अवरदक्खिणेणं च । ___ अट्ठ दस बारसेव य भवंति जंबूसहस्साई॥ वृ. 'दक्खिण'इत्यादि, दक्षिणपरस्त्ये-आग्नेयकोणेदक्षिणस्यांअपरदक्षिणस्यां-नैऋतकोणे चः समुच्चयेएतासुतिसृषु दिक्षुयथासक्य ।अष्टादश द्वादशजम्बूनांसहस्राणिभवन्ति, एवोऽवधारणे Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003317
Book TitleAgam Suttani Satikam Part 13 Jambudwip pragnapati
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherAgam Shrut Prakashan
Publication Year2000
Total Pages564
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Agam, Canon, & agam_jambudwipapragnapti
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy