________________
३३२
जम्बूद्वीपप्रज्ञप्ति-उपाङ्गसूत्रम् ४/१५२ तेन नाधिकानि न न्यूनानीत्यर्थः, चः प्राग्वत् । मू. (१५३) अणिआहिवाण पञ्चत्थिमेण सत्तेव होति जंबूओ।
सोलस साहस्सीओ चउद्दिसिं आयरक्खाणं ।। वृ. अनीकाधिपजम्बूस्तृतीयपरिक्षेपजम्बूश्च गाथाबन्धेनाह-'अणिआहिवाण इत्यादि, अनीकाधिपाना-गजादिकटकाधीशानां सप्तानांसप्तैवजम्बूः पश्चिमायांभवन्ति, द्वितीयः परिक्षेपः पूर्णः । ___अथतृतीयमाह-आत्मरक्षकानामनातदेवसामानिकचतुर्गुणानांषोडशसहस्राणांजम्ब्वः एकैकदिक्षु चतुःसहस्ररसद्भावात् षोडश सहस्राणि भवन्ति ।
मू. (१५४) जम्बूएणं तिहिं सइएहिं वनसंडेहिं सब्बओ समंता संपरिखित्ता, जंबूएणं पुरथिमेणं पन्नासं जोअणाइं पढमवनसंडं ओगाहित्ता एत्थणं भवणे पन्नत्ते कोसंआयामेणं सो चेववण्णओ सयणिजंच, एवं सेसासुवि दिसासुभवणा, जंबूएणं उत्तरपुरस्थिमेणं पढमवनसण्डं पन्नासंजोअणाइंओगाहित्ताएत्थणंचत्तारि पुक्खरिणीओपन्नताओ, तंजहा-पउमा १ पउमप्पभा २ कुमुदा ३ कुमुदप्पभा ४, ताओ णं कोसं आयामेणं अद्धकोसं विक्खम्भेणं पञ्च-धनुस याई उव्वेहेणं वण्णओ तासि णं मज्झे पासायवडेंसगा कोसं आयामेणं अद्धकोसं विखंभेणं देसूणं कोसं उद्धं उच्चत्तेमं वण्णओ सीहासणा सपरिवारा, एवं सेसासु विदिसासु, गाहा
वृ. यद्यपि चानयोः परिक्षेपयोर्जम्बूनामुच्चत्वादिप्रमाणं न पूर्वाचार्यैश्चिन्तितं तथापि पद्महदपद्मपरिक्षेपन्ययेन पूर्वपूर्वपरिक्षेपजम्बवपेक्षयोत्तरोत्तरपरिक्षेपजम्ब्वोऽर्द्धमाना ज्ञातव्याः, अत्राप्येकैकस्मिन्परिक्षेपेएकैकस्यांपङ्क्तौ क्रियमाणायां क्षेत्रसाङ्कीण्ये नवकाशदोष-स्तथैवोद्भावनीयस्तेनपरिक्षेपजातयस्तिस्रस्तथैव वाच्याः, सम्प्रत्यस्याएव वनत्रयपरिक्षेपान् वक्तुमाहसा चैवंपरिवारेति गम्यं, त्रिभि शतिकैः-योजनशतप्रमाणैर्वनखण्डैः सर्पतः सम्परिक्षिप्ताः, तद्यथा-अभ्यन्तरेण मध्यमेन बाह्येनेति, अथात्र यदस्ति तदाह-'जंबूए ण'मित्यादि, जम्ब्बाः सपरिवारायाः पूर्वेण पञ्चाशदयोजनानिप्रथमवनखण्डमवगाह्यात्रान्तरे भवनंप्रज्ञप्तं, क्रोशमायामेन, उच्चत्वादिकथनायातिदेशमाह-सएव मूलजम्बूपूर्वशाखागतभवन-सम्बन्धी वर्णको ज्ञेयः,शयनीयं तानाध्तयोग्यं, एवं शेषास्वपिदक्षिणादिदिक्षुस्वस्वदिशि पञ्चाशद्योजनान्यवगाह्याद्येवने भवनानि वाच्यानि, अथात्र वने वापीस्वरूपमाह__'जंबूए णं उत्तरे'त्यादि, जम्बवाः उत्तरपौरस्त्ये दिग्भागे प्रथमं वनखण्डं पञ्चाशदयोजनान्यवगाह्यात्रान्तरे चतस्र : पुष्करिण्यः प्रज्ञप्ताः, एताश्च न सूचीश्रेण्या व्यवस्थिताः किन्तु स्वविदिग्गतप्रासादं परिक्षिप्य स्थिताः, तेन प्रादक्षिण्येन तन्नामान्येवं- पद्मा पूर्वस्यां पद्मप्रभा दक्षिणस्यां कुमुदा पश्चिमायां कुमुदप्रभा उत्तरस्यां, एवं दक्षिणपूर्वाविदिग्गतवापीष्वपि वाच्यं, ताश्च क्रोशमायामेन अर्द्धक्रोशं विष्कम्भेन पञ्चधनुःशतान्युद्वेधेनेति।।
अथात्र वापीमध्यगतप्रासादस्वरूपमाह- 'तासि ण'मित्यादि, तासां वापीनां चतसृणां मध्ये प्रासादावतंसकाः प्रज्ञप्ताः, बहुवचनं च उक्तवक्ष्यमाणानां वापीनां प्रासादापेक्षया द्रष्टव्यं, तेन प्रतिवापीचतुष्कमेकैकप्रासादभावेन चत्वारः प्रासादाः, एवं निर्देशो लाघवार्थं, क्रोशमायामेनार्द्धक्रोशं विष्कम्भेन देशोनंक्रोशमुच्चत्वेन, वर्णको मूलजम्बूदक्षिणशाखागतप्रासादवद्ज्ञेयः, एषु चानाद्दतदेवस्य क्रीडा) सिंहासनानि सपरिवाराणि वाच्यानि, जीवाभिगमे त्वपरिवाराणि,
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org