Book Title: Agam Suttani Satikam Part 13 Jambudwip pragnapati
Author(s): Dipratnasagar, Deepratnasagar
Publisher: Agam Shrut Prakashan
View full book text ________________
वक्षस्कारः - ४
३६१
योजनस्येत्येवंविस्तारात् कन्दादारोहणे धरणीतले नवतिर्योजनानि दश चैकादशभागाः कथं त्रुटयेयुरिति, ननु मेखलाद्वये प्रत्येकं परितः पञ्चयोजनशतविस्तारयोर्नन्दनसौमनसवनयोः सद्भावात् प्रत्येकं योजनसहनस्य युगपत् त्रुटि ततः किमित्येकादशभागपरिहाणि ?, उच्यते, कर्णगत्या समाधेयमिति, का च कर्णगतिरिति चेत्, उच्यते, कन्दादारभ्य शिखरं यावदेकातऋजुरूपायां दवरिकायां दत्तायां यदपान्तराले कापि कियदाकाशं तत्सर्वं कर्णगत्या मेरोराभाव्यमिति मेरुतया परिकल्प्य गणितज्ञाः सर्वत्रैकादशभागपरिहाणि परिवर्णयन्ति, अयं चार्थ श्रीजिनभद्रगणिक्षमाश्रमणपूज्यैरपि विशेषण- वत्यां लवणोदधिघनगणितनिरूपणावसरे दृष्टान्तद्वारेण ज्ञापित एवेति ।
"
सम्प्रत्येतदगतवनखण्डवक्तव्यतामाह - 'मन्दरेण 'मित्यादि, प्रश्नसूत्रं व्यक्तं, उत्तरसूत्रे चत्वारि वनानि प्रज्ञप्तानि तद्यथा - भद्राः - सद्भूमिजातत्वेत सरलाः शालाः साला वा-तरुशाला यस्मिन् तत् भद्रशालं भद्रसालं वा, अथवा भद्राः शाला - वृक्षा यत्र तद् द्भद्रशालं नन्दयति-आनन्दयति देवादीनति नन्दनं सुमनसां देवानामिदं सौमनसं देवोपभोग्यभूमिकासनादिमत्वात्पण्डते - गच्छति जिनजन्माभिषेकस्थानत्वेन सर्ववनेष्वतिशायितामिति णकप्रत्यये पण्डकं, इमानि चत्वार्यपि स्वस्थाने मेरुं परिक्षिप्य स्थितानि, आद्यवनं स्थानतः पृच्छति - 'कहिण', प्रश्नः प्राग्वत्, निर्वचनसूत्रे गौ० ! धरणीतलेऽत्र मेरौ भद्रशालवनं प्रज्ञप्तं, प्राचीनेत्यादि प्राग्वत्, सौमनसविद्युत्प्रभगन्धमादनमाल्यवद्भिर्वक्षस्कारपर्वतैः शीताशीतोदाभ्यां च महानदीभ्यामष्टभागप्रविभक्तं - अष्टधाकृतं, तद्यथा-एको भागो मेरोः पूर्वतः १ द्वितीयोऽपरतः २ तृतीयो विद्युत्प्रभसौमनसमध्ये दक्षिणतः ३ चतुर्थो गन्धमादनमाल्यवन्मध्ये उत्तरतः ४ तथा शीतोदया उत्तरतो गच्छन्त्या दक्षिणखण्डं पूर्वपश्चिमविभागेन द्विधा कृतं ततो लब्धः पञ्चमो भागः ५ तथा पश्चिमतो गच्छन्त्या पश्चिमखण्डं दक्षिणोत्तरविभागेन द्विधा कृतं ततो लब्धः षष्ठो भागः ६ तथा शीतया महानद्या दक्षिणाभिमुखं गच्छन्त्या उत्तरखण्डं पूर्वपश्चिमभागेन द्विधा कृतं ततो लब्धः सप्तमो भागः ७ तथा पूर्वतो गच्छन्त्या पूर्वखण्डं दक्षिणोत्तरविभागेन द्विधा कृतं ततो लब्धोऽष्टमो भागः ८ ।
मन्दरस्य पूर्वतः पश्चिमतश्च द्वाविंशतिं २ योजनसहस्राण्यायामेन, कथमिति चेत्, उच्यते, कुरुजीवा त्रिपञ्चाशदयोजनसहस्राणि, एकैकस्यां च वक्षस्कारगिरेर्मूले पृथुत्वं पञ्चयोज - नशतानि ततो द्वयोः शैलयोर्मूले पृथुत्वपरिमाणं योजनसहस्रं तस्मिन् पूर्वराशौ प्रक्षिप्ते जातानि चतुःपञ्चाशद् योजनसहस्राणि तस्मान्मेरुव्यासे शोधिते शेषं चतुश्चत्वारिंशदयोजन सहस्राणि तेषामर्द्धे द्वाविंशतिर्योजनसहस्राणि पूर्वतः पश्चिमतश्च भवन्ति, अथवेदमुपपत्यन्तरं - शीतावनमुखं २९२२ योजनानि अन्तरनदीषट्कं ७५० योजनानि वक्षस्काराष्टकं ४००० योजनानि विजयषोडशकपृथुत्वं ३५४०६ योजनानि शीतोदावनमुखं २९२२ योजनानि एतेषां विस्तारसर्वाग्रमीलने षट्चत्वारिंशद् योजनसहस्रणि एतच्च लक्षप्रमाणमहाविदेहजीवायाः शोध्यते शेषं चतुःपञ्चशदयोजनसहस्राणि एतावद्भद्रशालवनक्षेत्रं तच्च मेरुसहितमिति धरणीतलसत्कदशयोजनसहस्रशोधने शेषं चतुश्चत्वारिंशदयोजनसहस्राणि तस्यार्द्धे एकैकपार्श्वे द्वाविंशतिर्योजनसहस्राणीति, उत्तरतो दक्षिणतश्चार्द्धतृतीयानि योजनसतानि विष्कम्भेन, दक्षिणत उत्तरतश्च तद्भद्रशालवनमर्द्धतृतीययोजनशतानि यावद् देवकुरूत्तरकुरुषु प्रविष्टमित्यर्थः, अत एव देवकुरुमेरूत्तरकुरुव्यासरुद्धे
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org
Loading... Page Navigation 1 ... 362 363 364 365 366 367 368 369 370 371 372 373 374 375 376 377 378 379 380 381 382 383 384 385 386 387 388 389 390 391 392 393 394 395 396 397 398 399 400 401 402 403 404 405 406 407 408 409 410 411 412 413 414 415 416 417 418 419 420 421 422 423 424 425 426 427 428 429 430 431 432 433 434 435 436 437 438 439 440 441 442 443 444 445 446 447 448 449 450 451 452 453 454 455 456 457 458 459 460 461 462 463 464 465 466 467 468 469 470 471 472 473 474 475 476 477 478 479 480 481 482 483 484 485 486 487 488 489 490 491 492 493 494 495 496 497 498 499 500 501 502 503 504 505 506 507 508 509 510 511 512 513 514 515 516 517 518 519 520 521 522 523 524 525 526 527 528 529 530 531 532 533 534 535 536 537 538 539 540 541 542 543 544 545 546 547 548 549 550 551 552 553 554 555 556 557 558 559 560 561 562 563 564