Book Title: Agam Suttani Satikam Part 13 Jambudwip pragnapati
Author(s): Dipratnasagar, Deepratnasagar
Publisher: Agam Shrut Prakashan

View full book text
Previous | Next

Page 372
________________ वक्षस्कारः-४ ३६९ योजनानीत्पादिसूत्रं प्राग्वत्, केवलं सर्वात्मना वैडूर्यमयी नीलवर्णत्वात् । साम्प्रतं सूत्रेऽनुक्तोऽपि वाचयितनामपूर्वार्थजिज्ञापयिषया चूलिकाया इष्टस्थाने विष्कम्भपरिज्ञानाय प्रसङ्गगत्योपायो लिख्यते, यथा तत्राधोमुखगमने करणमिदं-चूलिकायास्सर्वोपरितनभागादवपत्य यत्रयोनादावतिक्रान्ते विष्कम्भजिज्ञासः तस्मिन्नतिक्रान्तयोजनादिके पञ्चभिर्भक्तेलब्धराशिश्चतुर्भिर्युतस्तत्र व्यासः स्यात्, तत् उपरितलाद्विशतियोजनान्यवतीर्णस्ततो विंशतिध्रयते तस्याः पञ्चभिर्भागे लब्धाश्चत्वारः ते चतुर्भि सहिताः अष्टौ एतावानुपरितलाद्विशतियोजनातिक्रमे विष्कम्भः, एवमन्यत्रापि भावनीयं, यदा तूर्ध्वमुखगत्या विष्कम्भजिज्ञासा तदाऽयमुपायः- चूलिकायामूलादुत्पत्य यत्रयोजनादौविष्कम्भिज्ञासातस्मिन्नतिक्रान्तयोजनादिके पंचभिभक्ते यल्लब्धंतावत्प्रमाणे मूलविष्कम्भादपनीतेअवशिष्तंतत्रविष्कम्भः, तथाहि-मूलाकिल विंशतिर्योजनान्यूर्ध्वं गतस्ततो विंशतिध्रयते तस्याः पंचभिर्भागे लब्धानि चत्वारि योजनानि तानि मूलविष्कम्भाद् द्वादशयोजनप्रमाणादपनीयते शेषाण्यष्टौ एतावान् मूलादूर्ध्वं विंशतियोजनातिक्रमे विष्कम्भः, एवमन्यत्रापि भावनीयं, यथा मेरौ एकादशभिरंशैरेकोऽशः एकादशभिर्योजनैरेकंयोजनंव्यासस्य चीयतेअपचीयतेतथाऽस्यांपञ्चभिरंशैरेकोऽशः पञ्चभिर्योजनैरेकं योजनं व्यासस्येति तात्पर्यार्थः । अत्रबीजं-द्वादशयोजनप्रमाणाच्चूलाव्यासादारोहेचत्वारिंशद्योजनेषु गतेषु अष्टौ योजनानि त्रुट्यन्ति अवरोहे च तान्येव वर्धन्ते मध्यराशावन्त्यराशिना गुणिते एकेन गुणितंतदेव भवतीतिजाताअष्टौ अस्य राशेश्चत्वारिंशताभजनेभागाप्राप्तौ द्वयोराश्योरष्टभिरपवर्ते जातं ।।अथास्य वर्णकसूत्रम् साणंएगाए पउमवर जाव'इत्यादि, प्राग्वत्, अथास्यां बहुसमरमणीयभूमिभागवर्णनं सिद्धायतनवर्णनं चातिदेशेनाह-'उप्पिंबहुसम'इत्यादि, अस्याश्चूलिकाया उपरिबहुसमरमणीयो भूमिभागः प्रज्ञप्तः, स च यावत्पदकरणात् ‘से जहा नामए आलिंगपुक्खरे इ वा' इत्यादिको ग्राह्यः, तथा तस्य बहुमध्यदेशभागे सिद्धायतनं वाच्यं,क्रोशमायामेनार्द्धक्रोशं विष्कम्भेनदेशोनं क्रोशमुच्चत्वेन अनेकस्तम्भशतसन्निविष्टमित्यादिकः सिद्धायतनवर्णको वाच्योयावद्धवकडुच्छुकानामष्टोत्तरं शतमिति, अथ प्रस्तुतवने भवनप्रासादादिवक्तव्यगोचरं सूत्रं- मन्दरचूलिकायाः पूर्वतः पण्डकवनं पञ्चाशद्योजनान्यवगाह्य अत्रान्तरे महदेकं भवनं-सिद्धायतनं प्रज्ञप्तं, एवमुक्ताभिलापेन य एव सौमनसवने पूर्ववर्णितो-नन्दनवनप्रस्तावोक्तो गमः कूटवर्ज सिद्धायतनादिव्यवस्थाधायकः सहशालापकः पाठः स एवात्रापि भवनानां पुष्करिणीनां प्रासादावतंसकानां च ज्ञातव्यः, यावच्छक्रेशानप्रासादावतंसकास्तेनैव प्रमाणेनेति, अत्र वापीनामानि प्रागुक्तयुक्त्या सूत्रेऽदृष्टान्यपि ग्रन्थान्तरतो लिख्यन्ते,तद्यथा-ऐशानप्रसादे पूर्वादिक्रमेण पुण्डा १ पुण्ड्रप्रभा २ सुरक्ता ३ रक्तावती ४ आग्नेयप्रासादे क्षीररसा १ इक्षुरसा २ अमृतरसा ३ वारुणी ४ नैऋतप्रासादे शंखोत्तरा १ शङ्खा २ शङ्खावर्ता ३ बलाहका ४ वायव्यप्रासादे पुष्पोत्तरा १ पुष्पवती २ सुपुष्पा ३ पुष्पमालिनी ४ चेति । अथात्राभिषेकशिलावक्तव्यतामाह मू (२००) पंडकवनेणंभंते! वनेकइअभिसेअसिलाओप० गो० चत्तारिअभिसेअसिलाओ प०, तं०-पंडुसिला १ पंडुकंबलसिला २ रत्तसिला ३रतकंबलसिलेति४/ |13| 24 Jain Education International For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 370 371 372 373 374 375 376 377 378 379 380 381 382 383 384 385 386 387 388 389 390 391 392 393 394 395 396 397 398 399 400 401 402 403 404 405 406 407 408 409 410 411 412 413 414 415 416 417 418 419 420 421 422 423 424 425 426 427 428 429 430 431 432 433 434 435 436 437 438 439 440 441 442 443 444 445 446 447 448 449 450 451 452 453 454 455 456 457 458 459 460 461 462 463 464 465 466 467 468 469 470 471 472 473 474 475 476 477 478 479 480 481 482 483 484 485 486 487 488 489 490 491 492 493 494 495 496 497 498 499 500 501 502 503 504 505 506 507 508 509 510 511 512 513 514 515 516 517 518 519 520 521 522 523 524 525 526 527 528 529 530 531 532 533 534 535 536 537 538 539 540 541 542 543 544 545 546 547 548 549 550 551 552 553 554 555 556 557 558 559 560 561 562 563 564