________________
वक्षस्कारः-४
३६९
योजनानीत्पादिसूत्रं प्राग्वत्, केवलं सर्वात्मना वैडूर्यमयी नीलवर्णत्वात् ।
साम्प्रतं सूत्रेऽनुक्तोऽपि वाचयितनामपूर्वार्थजिज्ञापयिषया चूलिकाया इष्टस्थाने विष्कम्भपरिज्ञानाय प्रसङ्गगत्योपायो लिख्यते, यथा तत्राधोमुखगमने करणमिदं-चूलिकायास्सर्वोपरितनभागादवपत्य यत्रयोनादावतिक्रान्ते विष्कम्भजिज्ञासः तस्मिन्नतिक्रान्तयोजनादिके पञ्चभिर्भक्तेलब्धराशिश्चतुर्भिर्युतस्तत्र व्यासः स्यात्, तत् उपरितलाद्विशतियोजनान्यवतीर्णस्ततो विंशतिध्रयते तस्याः पञ्चभिर्भागे लब्धाश्चत्वारः ते चतुर्भि सहिताः अष्टौ एतावानुपरितलाद्विशतियोजनातिक्रमे विष्कम्भः, एवमन्यत्रापि भावनीयं, यदा तूर्ध्वमुखगत्या विष्कम्भजिज्ञासा तदाऽयमुपायः- चूलिकायामूलादुत्पत्य यत्रयोजनादौविष्कम्भिज्ञासातस्मिन्नतिक्रान्तयोजनादिके पंचभिभक्ते यल्लब्धंतावत्प्रमाणे मूलविष्कम्भादपनीतेअवशिष्तंतत्रविष्कम्भः, तथाहि-मूलाकिल विंशतिर्योजनान्यूर्ध्वं गतस्ततो विंशतिध्रयते तस्याः पंचभिर्भागे लब्धानि चत्वारि योजनानि तानि मूलविष्कम्भाद् द्वादशयोजनप्रमाणादपनीयते शेषाण्यष्टौ एतावान् मूलादूर्ध्वं विंशतियोजनातिक्रमे विष्कम्भः, एवमन्यत्रापि भावनीयं, यथा मेरौ एकादशभिरंशैरेकोऽशः एकादशभिर्योजनैरेकंयोजनंव्यासस्य चीयतेअपचीयतेतथाऽस्यांपञ्चभिरंशैरेकोऽशः पञ्चभिर्योजनैरेकं योजनं व्यासस्येति तात्पर्यार्थः । अत्रबीजं-द्वादशयोजनप्रमाणाच्चूलाव्यासादारोहेचत्वारिंशद्योजनेषु गतेषु अष्टौ योजनानि त्रुट्यन्ति अवरोहे च तान्येव वर्धन्ते मध्यराशावन्त्यराशिना गुणिते एकेन गुणितंतदेव भवतीतिजाताअष्टौ अस्य राशेश्चत्वारिंशताभजनेभागाप्राप्तौ द्वयोराश्योरष्टभिरपवर्ते जातं ।।अथास्य वर्णकसूत्रम्
साणंएगाए पउमवर जाव'इत्यादि, प्राग्वत्, अथास्यां बहुसमरमणीयभूमिभागवर्णनं सिद्धायतनवर्णनं चातिदेशेनाह-'उप्पिंबहुसम'इत्यादि, अस्याश्चूलिकाया उपरिबहुसमरमणीयो भूमिभागः प्रज्ञप्तः, स च यावत्पदकरणात् ‘से जहा नामए आलिंगपुक्खरे इ वा' इत्यादिको ग्राह्यः, तथा तस्य बहुमध्यदेशभागे सिद्धायतनं वाच्यं,क्रोशमायामेनार्द्धक्रोशं विष्कम्भेनदेशोनं क्रोशमुच्चत्वेन अनेकस्तम्भशतसन्निविष्टमित्यादिकः सिद्धायतनवर्णको वाच्योयावद्धवकडुच्छुकानामष्टोत्तरं शतमिति, अथ प्रस्तुतवने भवनप्रासादादिवक्तव्यगोचरं सूत्रं- मन्दरचूलिकायाः पूर्वतः पण्डकवनं पञ्चाशद्योजनान्यवगाह्य अत्रान्तरे महदेकं भवनं-सिद्धायतनं प्रज्ञप्तं, एवमुक्ताभिलापेन य एव सौमनसवने पूर्ववर्णितो-नन्दनवनप्रस्तावोक्तो गमः कूटवर्ज सिद्धायतनादिव्यवस्थाधायकः सहशालापकः पाठः स एवात्रापि भवनानां पुष्करिणीनां प्रासादावतंसकानां च ज्ञातव्यः, यावच्छक्रेशानप्रासादावतंसकास्तेनैव प्रमाणेनेति, अत्र वापीनामानि प्रागुक्तयुक्त्या सूत्रेऽदृष्टान्यपि ग्रन्थान्तरतो लिख्यन्ते,तद्यथा-ऐशानप्रसादे पूर्वादिक्रमेण पुण्डा १ पुण्ड्रप्रभा २ सुरक्ता ३ रक्तावती ४ आग्नेयप्रासादे क्षीररसा १ इक्षुरसा २ अमृतरसा ३ वारुणी ४ नैऋतप्रासादे शंखोत्तरा १ शङ्खा २ शङ्खावर्ता ३ बलाहका ४ वायव्यप्रासादे पुष्पोत्तरा १ पुष्पवती २ सुपुष्पा ३ पुष्पमालिनी ४ चेति । अथात्राभिषेकशिलावक्तव्यतामाह
मू (२००) पंडकवनेणंभंते! वनेकइअभिसेअसिलाओप० गो० चत्तारिअभिसेअसिलाओ प०, तं०-पंडुसिला १ पंडुकंबलसिला २ रत्तसिला ३रतकंबलसिलेति४/ |13| 24
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org