Book Title: Agam 24 Chhed 01 Nishith Sutra Sthanakvasi
Author(s): Ghasilal Maharaj
Publisher: A B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
View full book text
________________
चूर्णिभाष्यावचूरिः उ० ३ सू० १०-१३ निषेधानन्तरं पुनर्याचनगृहप्रवेशनिषेधः ८५ छाया-आहृत्य दीयमानं यत्, प्रतिषिध्य पूर्वतः ।
पश्चात्तमनुवर्त्य, याचते दोषमावहेत् ॥ __अवचूरिः-'आहटुं' इत्यादि । 'आहटु' आहृत्य संमुखमानीय 'दिज्जमाणं' दीयमानमशनादिकं यत् 'पुवओ' पूर्वतः पूर्व प्रतिषिध्य ग्रहणार्थं तस्य निषेधं कृत्वा पश्चात् दातरि प्रस्थिते सति तमेव अनुवयं पञ्चसप्तपदानि अनुगमनं कृत्वा पुरतः पृष्ठतः पार्श्वतो वा स्थित्वा परिजल्प्य त्वया यन्मदर्थमानीतमशनादिकं ततस्तव प्रयासो विफलो माभूदिति ग्रहीष्यामि त्वत्तोऽशनादिक'-मिति अवभाष्य पुनरशनादिकं यो भिक्षुर्याचते स दोषमावहेत् दोषमाज्ञाभङ्गादिकं प्राप्नुयादिति ॥ सू० ९ ॥
सूत्रम्-जे भिक्खू आगंतागारेसु वा आरामागारेसु वा गाहावई'कुलेसु वा परियावसहेसु वा अण्ण उत्थिएहिं वा गारथिएहिं वा, असणं वा पाणं वा खाइमं वा साइमं वा अभिहडं आह१ दिज्जमाणं पडिसेहेत्ता तमेव अणुवत्तिय-अणुवत्तिय, परिवेढिय-परिवेढिय, परिजविय-परिज. विय, आभासिय-ओभासिय जायइ जायंतं वा साइज्जइ ॥ सू० १०॥
__छाया-यो भिक्षुः आगन्त्रागारेषु वा आरामागारेषु वा गाथापतिकुलेषु वा पर्यावसथेषु वा अन्ययूथिकैर्वा गार्हस्थिकैर्वा, अशनं वा पानं वा खाद्य वा स्वाद्य वा, अभिहतमाहृत्य दीयमानं प्रतिषेध्य तमेवाऽनुवाऽनुवर्त्य परिवेष्टय परिवेष्टय प्रजल्प्यप्रजल्प्य, अवभाष्याऽवभाष्य याचते, याचमानं वा स्वदते ॥ सू० १०॥
चूर्णी- 'जे भिक्खू आगंतागारेसु वा' इत्यादि सर्वं पूर्ववदेव, विशेष एतावानेव-यत् पूर्वं पुरुषविषयकं तृतीयैकवचनमाश्रित्य सूत्रं प्रोक्तम्, अत्र तु तृतीयाबहुवचनमाश्रित्य सूत्रं प्रवर्तते इति ॥ सू० १०॥
सूत्रम्-जे भिक्खू आगंतागारेसु वा आरामागारेसु वा गाहावइ - कुलेसु वा परियावसहेसु वा अण्णउत्थिणीए वा गारथिणीए वा असणं वा पाणं वा खाइमं वा साइमं वा अभिहडं आहहु दिज्जमाणं पडिसेहेत्ता तमेव अणुवत्तिय-अणुवत्तिय रिवेढिय-परिवेढिय, परिजविय-परिजविय ओभासिय-ओभासिय जायइ जायंतं वा साइज्जइ ॥ सू० ११ ॥
छाया-यो भिक्षुः आगन्त्रागारेषु वा आरामागारेषु वा गाथापतिकुलेषु बा पर्यावसथेषु वा, अन्ययूथिक्या वा गार्हस्थिक्या वा अशनं वा पानं वा खाद्य वा स्वाद्य
શ્રી નિશીથ સૂત્ર