Book Title: Agam 24 Chhed 01 Nishith Sutra Sthanakvasi
Author(s): Ghasilal Maharaj
Publisher: A B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
View full book text
________________
चूर्णिभाष्यावचूरिः उ० १७ सू०-१५-२३८ अन्ययूथिकादिकारितपादामार्जनादिनि० ३८७
छाया-यो भिक्षुः कौतूहलप्रतिज्ञया आजिनानि वा आजिनप्रावराणानि वा कम्बलानि वा कम्बलप्रावरणानि वा कोतराणि वा कोतरप्रावरणानि वा गौरमृगाणि वा कृष्णमृगाणि वा नीलमृगाणि वा श्यामानि वा महाश्यामानि वा उष्ट्राणि वा उष्ट्रलेश्यानि वा व्याघ्राणि वा विव्याघ्राणि वा प्लवङ्गानि वा प्रलक्ष्णानि प्रलक्ष्णकल्पानि वा क्षौमाणि वा दुकूलानि वा तिरीटपट्टाणि वा प्रतुलानि वा पणलानि वा अवरत्राणि वा चीनानि वा अंशुकानि वा कनककान्तानि वा कनकखचिताान वा कनकचित्राणि बा कनकविचित्राणि वा आभरणविचित्राणि वा करोति कुर्वन्तं वा स्वदते ॥ सू० १२॥
'चूर्णी-'जे भिक्खू' इत्यादि । 'जे भिक्खू कोउहल्लवडियाए आईणाणि वा' यो भिक्षुः कौतूहलप्रतिज्ञया आजिनानि वा, तत्र अजिनं-मृगचर्म तेन निर्मितानि आनिनानि-मृगचर्मवस्त्राणि । इत्यारभ्य 'आभरणविचित्ताणि वा' आभरणविचित्राणि-आभूषणमण्डितानि वा, इति पर्यन्तानि वस्त्राणि 'करेइ धरेइ, परिभुजई' करोति १२ , धरति १३, परिभुक्ङ्ते १४, इतिसूत्रत्रयं सप्तमो देशकसूत्रवद् व्याख्येयम् ॥ सू० १२-१३--१४॥
सूत्रम्-जे निग्गंथे णिग्गंथस्स पाए अण्णउत्थिएण वा गारस्थिएण वा आमज्जावेज्ज वा पमज्जावेज्ज वा आमज्जातं वा पमज्जातं वा साइज्जइ॥ सू०१५॥
___ छाया-यो निर्ग्रन्थः निर्ग्रन्थस्य पादौ अन्ययूथिकेन वा गार्हस्थिकेन वा आमार्जयेद् वा प्रमार्जयेद् वा आमाजयन्तं वा प्रमार्जयन्तं वा स्वदते ॥ सू० १५॥
चूर्णी--'जे निग्गंथे' इत्यादि । 'जे निग्गंथे' यः कश्चित् निम्रन्थः श्रमणः निग्गंथस्स' निर्ग्रन्थस्य स्वात्मभिन्नस्य 'पाए' पादौ-चरणौ 'अण्णउथिएण वा' अन्ययूथिकेन अन्यतीर्थिकेन वा 'गारथिएण वा' गाहस्थिकेन गृहस्थेन वा 'आमज्जावेज्ज वा' आमार्जयेद् वा एकवारम् ‘पमज्जावेज्ज वा' प्रमार्जयेद् वा अनेकवारम् 'आमज्जावेंतं वा' आमार्जयन्तं वा 'पमज्जावेंतें वा' प्रमार्जयन्तं वा श्रमणान्तरं 'साइज्जइ' स्वदते स प्रायश्चित्तभागी भवति ॥सू० १५ ॥
सूत्रम्-एवं तइयउद्देसगमो भाणियब्वो जाव जे निग्गंथे निग्गंथस्स गामाणुगामं दूइज्जमाणस्स अण्णउत्थिएण वा गारथिएण वा सीसदुवारिस्य कारावेइ कारावेतं वा साइज्जइ ॥ (५५) ॥ सू० १६-७०॥
एवं जे निग्गंथे निग्गंथीए० (५६) ॥ सू० ७१-१२६॥ एवं जा निग्गंथी निग्गंथी निग्गंथस्स० (५६) ॥ सू० १२७-१८२ ॥ एवं जा निग्गंथी निंग्गंथीए० (५६) ॥ सू० १८३-२३८॥
શ્રી નિશીથ સૂત્ર