Book Title: Agam 24 Chhed 01 Nishith Sutra Sthanakvasi
Author(s): Ghasilal Maharaj
Publisher: A B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
View full book text ________________
निशीथसूत्रे
करोति तथा 'पडिच्छतं वा साइज्जइ' प्रतीच्छन्तं वा- - सूत्रार्थयोरध्ययनं कुर्वन्तं श्रमणान्तरं स्वदते - अनुमोदते स प्रायश्चित्तभागी भवति तस्याऽऽज्ञाभङ्गादिका दोषा अपि भवन्ति तस्मात्कारणात् श्रमणः श्रमणी वा पार्श्वस्थ सकाशात् अध्ययनं न कुर्यात् न कुर्वन्तमनुमोदयेदिति ॥ सू० २८|| एवमवसन्नादीनाम् अष्टौ सूत्राणि वाच्यानि तथाहि—
सूत्रम् - - जे भिक्खू ओसन्नं वाएइ० ॥ सू० २९ ॥ ओसन्नस्स पडिच्छइ || सू० ३० ॥ कुसीलं वाएइ० ॥ सू० ३१ ॥ कुसीलस्स पडिच्छ३० ॥ सू० ३२ ॥ णितियं वाएइ० || सू० ३३ ॥ णितियस्स पडिच्छइ० || सू० ३४ ॥ संसंत्तं वाएइ० || सू० ३५ ॥ जे भिक्खू संसत्तस्स पडिच्छइ पडिच्छंतं वा साइज्जइ ॥ सू० २९-३६॥
॥
४२८
छाया - यो भिक्षुरवसन्नं वाचयति० ॥ सू०२९|| अवसन्नस्य प्रतीच्छति० ॥ सू०३० ॥ कुशीलं वाचयति० ॥ सू० ३१ ॥ कुशीलस्य प्रतीच्छति ।। सू ३२ || नैत्यिकं वाचयति० ० ।। सू०३३|| नैत्यिकस्य प्रतीच्छति० ॥ सू० ३४|| संसक्तं वाचयति० ॥ सू० ३५ | यो भिक्षुः संसक्तस्य प्रतीच्छति प्रतीच्छन्तं वा स्वदते ॥ सू० ३६ ॥
--
चूर्णी - एषां व्याख्या पार्श्वस्थसूत्रस्येव कर्त्तव्येति ॥ सू० २९-३६ ।। सूत्रम् - तं सेवमाणे आवज्जइ चाउम्मासियं परिहारट्ठाणं उग्घा - इयं ॥ सू० ३७ ॥
॥ निसीहज्झयणे एगूणवीस मो उद्देसो समत्तो ॥ १९ ॥
छाया - तत् सेवमान आपद्यते चातुर्मासिकं परिहारस्थानमुद्धातिकम् ॥०३७॥ || निशीथाध्ययने एकोनविंशतितमोद्देशकः समाप्तः ||१९||
चूर्णी - 'तं' इत्यादि । 'तं' तत् - विकृतं - क्रीणातीत्यारभ्य संसक्तस्य प्रतोच्छतीति पर्यन्तम् एकोनविंशत्युदेशकोक्तं प्रायश्चित्तस्थानम् 'सेवमाणे' सेवमानः तस्य प्रतिसेवनां कुर्वन् एकं द्विकमनेकं सर्वं वा प्रायश्चित्तस्थानं प्रतिसेवमानः 'आवज्जइ' आपद्यते - प्राप्नोति 'चाउमा सियं' चातुर्मासिकम् 'परिहारट्ठाणं'' परिहारस्थानं प्रायश्चित्तम् उग्घाइयं' उद्घातिकं लघुकमित्यर्थः लघुचातुर्मासिकं प्रायश्चित्तं प्राप्नोतीत्यर्थः || सू० ३७॥
इति श्री - विश्वविख्यात - जगद्वल्लभ - प्रसिद्धवाचक - पञ्चदशभाषाकलितललितकला पालापक - प्रविशुद्ध गद्यपद्यनैकप्रन्थनिर्मापक - वादिमानमर्दक- श्री शाहू छत्रपति कोल्हापुरराजप्रदत्त" जैनशास्त्राचार्य " - पदभूषित - कोल्हापुरराजगुरु - बालब्रह्मचारि - जैनाचार्य - जैनधर्मदिवाकर - पूज्यश्री - घासीलालवति - विरचितायां " निशीथसूत्रस्य" चूर्णि भाष्यावचूरिरूपायां व्याख्यायाम् एकोनविंशतितमोद्देशकः समाप्तः ॥१९॥
શ્રી નિશીથ સૂત્ર
Loading... Page Navigation 1 ... 517 518 519 520 521 522 523 524 525 526 527 528 529 530 531 532 533 534 535 536 537 538 539 540 541 542 543 544 545 546 547 548 549 550