Book Title: Agam 24 Chhed 01 Nishith Sutra Sthanakvasi
Author(s): Ghasilal Maharaj
Publisher: A B Shwetambar Sthanakwasi Jain Shastroddhar Samiti

View full book text
Previous | Next

Page 520
________________ ॥ विंशतितमोद्देशकः व्याख्यात एकोनविंशतितमोद्देशकः साम्प्रतमव सरप्राप्तो विंशतितमोदेशको व्याख्यायते, अथात्र विंशतितमोद्देशकस्य पूर्वोक्तो देशकैः सह कः संबन्ध: : इति चेदत्राह भाष्यकारःभाष्यम् - हत्थकम्मं समारम्भ, वागणंतमुदाहियं । एत्थ तस्स विसुद्धट्ठा, पायच्छित्तं निगज्जइ ॥ १॥ छाया - हस्तकर्म समारभ्य, वाचनान्तमुदाहृतम् । अत्र तस्य विशुद्धवर्य प्रायश्चित्तं निगद्यते ॥ १ ॥ अवचूरि :- हस्तकर्म समारभ्य पार्श्वस्थादीनां वाचनादान - प्रहणपर्यन्तं कुत्सितकर्मप्रकरणं प्रथमोद्देशकादारभ्य एकोनविंशतितमो देशकपर्यन्तोद्देशकेषु बृहत्कल्पादौ च उदाहृतं कथितम्, तादृशप्रायश्चित्तस्थानानां विशुद्धये विशेषतो न किमपि प्रायश्चित्तं प्रतिपादितमित्यत्र विंशतितमे उद्देशके तेषां हस्तकर्मादिवाचनादानग्रहणपर्यन्तचरणविराधकप्रायश्चित्तस्थानानां विशुद्धथ प्रायश्चित्तं तथा प्रायश्चित्तप्रकारश्च निगद्यत्ते - प्रतिपाद्यते, अयमेव सम्बन्धः पूर्वोदेशकैः सह अस्यो - देशकस्य भवति, तदनेन सम्बन्धेन आयातस्यास्य विंशतितमोदेशकस्य प्रथमं सूत्रं व्याख्यायते— सूत्रम् -- जे भिक्खु मासियं परिहारहाणं पडिसेवित्ता आलोएज्जा अपलिउंचिय आलोएमाणस्स मासियं, पलिउंचियं आलोएमाणस्स दोमासि ॥ सू० १ ॥ छाया -यो भिक्षुर्मासिकं परिहारस्थानं प्रतिसेव्य आलोचयेत् अप्रतिकुच्याssलोचयतो मासिकं प्रतिकुव्याऽऽलोचयतो द्वैमासिकम् ॥ सू० १ ॥ चूर्णी - 'जे भिक्खू' इत्यादि । 'जे भिक्खू' यः कश्चिद्भिक्षुः श्रमणः श्रमणी वा 'मासियं' मासिकम्, तत्र मासेन निर्वृत्तं मासिकम् 'परिहारद्वाणं' परिहारस्थानम्, तत्र परिहार:- वर्जनम् यद्वा परिहारो वहनं, प्रायश्चित्तस्य, यद्वा परिहियते - परित्यज्यते यो गुरुसान्निध्यात् स परिहारः पापम्, तथा तिष्ठन्ति प्राणिनः कर्मकलुषिता अस्मिन् इति स्थानम्, परिहारश्च स्थानं चेति परिहारस्थानम् 'पडिसेवित्ता' प्रतिसेव्य - प्रकर्षेण तत्सेवनं कृत्वा 'आलोएज्जा' आलोचयेत् गुरुसमीपे स्वकृतं पापस्थानं प्रकाशयेत् 'जह बालो जंपतो' इत्यादिरूपेण आलोचयेत् यथा स्वभावतो विशुद्धो बालकः स्वचरितमकपटभावेन पित्रोः पुरतः प्रकाशयति तथैव गुरुसमीपे सर्व प्रकाशये - दित्यर्थः, तत्र आलोचना नाम यथा आत्मना जानाति तथैव गुरोः समीपे प्रकाशनम् तत्र 'अपलिउंचिय आलोएमाणस्स मासियं' अपरिकुष्य आलोचयतो मासिकम्, तत्र परिकुचनम् - माया कपटम्, न परिकुच्य इति अपरिकुच्य मायामकृत्वेत्यर्थः, तथा च मायामकृत्वा आलोचयत आलोचनां શ્રી નિશીથ સૂત્ર

Loading...

Page Navigation
1 ... 518 519 520 521 522 523 524 525 526 527 528 529 530 531 532 533 534 535 536 537 538 539 540 541 542 543 544 545 546 547 548 549 550