Book Title: Agam 24 Chhed 01 Nishith Sutra Sthanakvasi
Author(s): Ghasilal Maharaj
Publisher: A B Shwetambar Sthanakwasi Jain Shastroddhar Samiti

View full book text
Previous | Next

Page 536
________________ चूर्णिभाष्यावचूरिः उ०२० सू०२१ परिहारस्थानप्रस्थापितस्याऽऽरोपणाविधिः ४४५ कपाञ्चमासिकं वा एतेषां परिहारस्थानानाम् अन्यतम परिहारस्थानं प्रतिसेव्य मालोचयेत् परिकुच्य आलोचयतः स्थापनोयं स्थापयित्वा करणीयं वैयावृत्यं, स्थापितेऽपि प्रतिसेव्य तदपि कृत्स्नं तत्रैव आरोहयितव्यं स्यात्,पूर्व प्रतिसेवितं पूर्वमालोचितम् ।, पूर्व प्रतिसेतितं पश्चादालोचितम् २, पश्चात्प्रतिसेवितं पूर्वमालोचितम् ३ पश्चात्प्रतिसेवितं पश्चादालोचितम् ।। अप्रतिकुञ्चिते अप्रतिकुञ्चितम् १, अप्रतिकुञ्चिते प्रतिकुश्वितम् २, प्रतिकुञ्चिते अप्रतिकुञ्चितम् ३, प्रतिकुञ्चिते प्रतिकुञ्चितम् ४। प्रतिकुञ्चिते प्रतिकुञ्चितमालोचयतः सर्वमेतत् स्वकृतं संहृत्य य पतया प्रस्थाग्नया प्रस्थापितो निर्विशमानः प्रतिसेवते तदपि कृत्स्नं तत्रैव आरोहयितव्यं स्यात् ॥ सू० १९॥ यो भिक्षुर्बहुशोऽपि मासिकं वा बहुशोऽपि सातिरेकमासिकं वा बहुशोऽपि द्वैमासिक वा बहुशोऽपि सातिरेकद्वैमासिकं वा बहुशोऽपि त्रैमासिकं वा बहुशोऽपि सातिरेकत्रैमासिकं वा बहुशोऽपि चातुर्मासिकं वा बहुशोऽपि लातिरेकचातुर्मासिक वा बहुशोऽपि पाञ्चमासिकं वा बहुशोऽपि सातिरेकपाञ्चमासिकं वा, एतेषां परिहारस्थानानामन्यतमम् परिहारस्थानं प्रतिसेव्य आलोचयेत् प्रतिकुच्य आलोचयतः स्थापनीयं स्थापयित्वा करणीयं वैयावृत्यं स्थापितेऽपि प्रतिसेव्य तदपि कृत्स्नं तत्रैव आरोहयितव्यं स्यात्, पूर्व प्रतिसेवितं पूर्वमालोचितम् १, पूर्व प्रतिसेवितं पञ्चादालोचितम् २, पञ्चात्प्रति सेवितं पूर्वमालोचितम् ३, पञ्यात्प्रतिसेवितं पश्चादालोचितम् ४ । अप्रतिकुञ्चिते अप्रतिकुञ्चितम् १, अप्रतिकुञ्चिते प्रतिकुन्वितम् २, प्रतिकुञ्चिते अप्रतिकुश्चितम् 3, प्रतिकुश्चिते प्रतिकुञ्चितम् ४ । प्रतिकुञ्चिते प्रतिकुञ्चितमालोचयतः सर्वमेतत् स्वकृतं संहृत्य य एतया प्रस्थापनया प्रस्थापितो निर्विशमानः प्रतिसेवते तदपि कृत्स्नं तत्रैव आरोहयितव्यं स्यात् ॥सू० २०॥ चूर्णी-- इदं सूत्रत्रयं ( १८-१९-२० ) बहुशः सातिरेकेति संयोगरूपं प्रायश्चित्सारोपणाविषयकं बहुशः सातिरेकेति संयोगमधिकृत्य पूर्ववदेव व्याख्येयम् । पूर्वोक्तानां सर्वेषा परिहारस्थानसेवनविषयकप्रायश्चित्तसूत्राणामुपसंहारं वक्तुकामों भाष्यकारः पूर्वसूत्रातिदेशेन प्राह सुत्तविभासा जा उ, हिडिमसत्तेसु सोलसेसु य । सा चेव इहं णेया, ठवणा-परिहार-णाणत्तं ॥१॥ छाया--सूत्रविभाषा या तु अधस्तनसूत्रेषु षोडशसु च। सैव इह ज्ञातव्या, स्थापना-परिहार-नानात्वम् ॥१॥ अवचूरिः - या तु सूत्रविभाषा 'जे भिक्खू' इत्यादि सूत्रावयवव्याख्या एकद्विकत्रिकादिसंयोगप्रदर्शनस्वरूपा अधस्तनसूत्रेषु-आधसूत्रेषु षोडशसंख्यकेषु वर्णिता सा एव विभाषा इह उपरितनेषु सप्तदशादारभ्य 'बहसोवि साइरेग' इति संयोगसूत्रपर्यन्तेष्वपि सूत्रेषु ज्ञातव्या वक्तव्येत्यर्थः । अथ यदि सैव वक्तव्यता इहापि तदा पूर्वसूत्रेभ्य एतेषां सूत्राणां को विशेषस्तत्राह શ્રી નિશીથ સૂત્ર

Loading...

Page Navigation
1 ... 534 535 536 537 538 539 540 541 542 543 544 545 546 547 548 549 550