Book Title: Agam 24 Chhed 01 Nishith Sutra Sthanakvasi
Author(s): Ghasilal Maharaj
Publisher: A B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
View full book text ________________
चूर्णिभाष्यावचूरिः उ० २० सू० ४०-४३ परिहारस्थानप्रस्थापितस्याऽऽरोपणाविधिः ४५५
चूर्णी- 'दोमासिय' इत्यादि । 'दोमासियं परिहारहाणं' द्वैमासिकं पूर्व सूत्रसंप्राप्त परिहारस्थानम् 'पट्टविए अणगारे' प्रस्थापितोऽनगार; इत्यादि व्याख्या स्पष्टा । अत्र विशेषस्त्वयम्-यदा द्वैमासिकपरिहारस्थानसेवनायां पाक्षिकी आरोपणा संमेल्यते तदा 'अड्डाइज्जा दोमासा' अर्धतृतीयौ द्वौ मासौ प्रायश्चित्तरूपेण भवतः इति ॥ सू० ३९ ।।
सूत्रम्-अड्डाइज्जमासियं परिहारट्ठाणं पठविए अणगारे अंतरा मासियं परिहारहाणं पडिसेवित्ता आलोएज्जा अहावरा पक्खिया आरोबणा आइमज्झावसाणे सअट्ठ सहेउं सकारणं अहीणमइरितं तेण परं तिण्णि मासा ॥ सू० ४०॥
छाया-सार्धद्वैमासिक परिहारस्थान प्रस्थापितोऽनगारोऽन्तरा मासिक परिहारस्थान प्रतिसेव्य आलोचयेत् अथापरा पाक्षिकी आरोपणा आदिमध्यावसाने सार्थ सहेतु सकारणमहीनमतिरिक्त तेन परं त्रयो मासा ॥सू० ४०॥
चूर्णी- 'अट्ठाइज्जमासियं' इत्यादि । 'अडूढाइज्जमासियं' अर्धतृतीयमासिकम् सार्धमासद्वयं पूर्वसूत्रसंप्राप्तम् 'परिहारहाणं' परिहारस्थानं प्रति 'पट्टविए' प्रस्थापितोऽनगारः, इत्यादि व्याख्या प्राग्वत्, अत्र सार्धद्वैमासिकपरिहारस्थानप्रतिसेवनायां पाक्षिकी मारोपणा संमेल्यते तदा 'तिण्णि मासा' त्रयो मासाः प्रायश्चित्तरूपेण भवन्तीति ।। सू० ४० ॥
सूत्रम्-तेमासियं परिहारट्ठाणं पट्ठविए अणगारे अंतरा मासियं परिहारट्ठाणं पडिसेवित्ता आलोएज्जा अहावरा पक्खिया आरोवणा आइमज्झावसाणे सअटुं सहेउं सकारणं अहीणमइरितं तेण परं अद्भुट्ठा मासा ।। सू० ४१॥
लाया त्रैमासिक परिहारस्थान प्रस्थापितोऽनगारोऽन्तरा मासिक परिहारस्थान प्रतिसेव्य आलोचयेत् अथापरा पाक्षिकी आरोपणा आदिमध्यावसाने सार्थ सहेतुं सकारणमहीनमतिरिक्त तेन परम् अर्धचतुथा मासाः ॥ सू० ४१॥
चूर्णी- 'तेमासियं' इत्यादि । 'तेमासियं परिहारहाणं पहविए' त्रैमासिकं पूर्वसूत्रसंप्राप्त परिहारस्थानं प्रस्थापितोऽनगारः, शेषं पूर्ववत्, अत्र सर्व प्रायश्चित्तम् 'अदधट्टामासा' इति अर्धचतुर्थाः, चतुर्थः अ! यत्र ते अर्धचतुर्थाः-सार्धात्रयो मासा भवन्ति, यदा त्रिषु मासेषु पाक्षिकी आरोपणा संमेल्यते तदा सार्धास्त्रयो मासाः प्रायश्चित्तरूपेण भवन्तीति भावः ॥ सू० ४१ ॥
શ્રી નિશીથ સૂત્ર
Loading... Page Navigation 1 ... 544 545 546 547 548 549 550