Book Title: Agam 24 Chhed 01 Nishith Sutra Sthanakvasi
Author(s): Ghasilal Maharaj
Publisher: A B Shwetambar Sthanakwasi Jain Shastroddhar Samiti

View full book text
Previous | Next

Page 518
________________ चूणि० उ० १९ सू० २५-३७ अन्यतीर्थिकादिपार्श्वस्थादीनां वाचनादानाऽऽदाननि० ४२७ सूत्रम् — जे भिक्खू अण्णउत्थियं वा गारत्थियं वा वाएइ वाएंतं वा साइज्जइ ॥ सू० २५ ॥ छाया - यो भिक्षुरन्ययूथिकं वा गृहस्थं वा वाचयति वाचयन्तं वा स्वदते ॥ चूर्णी - 'जे भिक्खू' इत्यादि । 'जे भिक्खू' यः कश्चिद् भिक्षुः श्रमणः श्रमणी वा 'अण्णउत्थियं वा' अन्ययूथिकं अन्यतीर्थिकं तापसपरिव्राजकादिकम् 'गारत्थियं, गृहस्थ वा 'वाएइ' वाचयति - सूत्रवाचनां ददाति सूत्रमध्यापयति तथा 'वाएंतं वा साइज्जइ' वाचयन्तम्एवं वाचनां ददतं श्रमणान्तरं यः श्रमणः श्रमणी वा स्वदते- अनुमोदते स प्रायश्चित्तभागी भवति ॥ २५ ॥ सूत्रम् -- जे भिक्खू अण्णउत्थियस्स वा गारत्थियस्स वा पडिच्छर पडिच्छंतं वा साइज्जइ ॥ सू० २६ ॥ छाया - यो भिक्षुरन्ययूथिकस्य वा गृहस्थस्य वा प्रतीच्छति प्रतीच्छन्तं वा स्वदते ॥ ० २६ ॥ चूर्णी – 'जे भिक्खू' इत्यादि । 'जे भिक्खू' यः कश्चिद्भिक्षुः श्रमणः श्रमणी वा 'अण्णउत्थियस्स वा' अन्ययूथिकस्य वा तापसपरिव्राजकादिकस्य 'गारत्थियस्स वा गृहस्थस्य वा सकाशात् 'पडिच्छइ' प्रतीच्छति - वाचनां स्वीकरोति, तापसादितो गृहस्थाद वा सूत्रमर्थ वा अधीते तथा 'पडिच्छंतं वा साइज्जइ' प्रतीच्छन्तं वा तापसादितः सूत्रमर्थ वा अधीयानं श्रमणान्तरं स्वदते - अनुमोदते स प्रायश्चित्तभागी भवति ॥ २६ ॥ सूत्रम् -- जे भिक्खू पासत्थं वाएइ वाएंतं वा सइज्जइ ॥ सू० २७ ॥ छाया -यो भिक्षुः पार्श्वस्थं वाचयति वाचयन्तं वा स्वदते ||२७ ॥ चर्णी - 'जे भिक्खू' इत्यादि । 'जे भिक्खू' यः कश्चिद भिक्षु श्रमणः श्रमणी वा 'पासत्थं' पार्श्वस्थम् - ज्ञानदर्शनचारित्रस्य पार्श्वे - समीपे तिष्ठति यः स पार्श्वस्थः ज्ञानादिसमीपे स्थितः किन्तु न तदाराधकः, स द्रव्येण श्रमणः न तु भावेन तादृशं पार्श्वस्थं यः श्रमणः श्रमणी ar 'ates' वाचयति - सूत्रार्थयोर्वाचनां ददाति तथा 'वाएंतं वा साइज्जइ' वाचयन्तं पार्श्वस्थं सूत्रार्थयोः वाचनां ददतं श्रमणान्तरं स्वदते - अनुमोदते स प्रायश्चित्तभागी भवति ||सू०२७॥ सूत्रम् - जे भिक्खू पासत्थस्स पडिच्छइ पडिच्छंतं वा साइज्जइ ॥ छाया - यो भिक्षुः पार्श्वस्थस्य प्रतीच्छति प्रतीच्छन्तं वा स्वदते ॥ सू० २२ ॥ चूर्णी - 'जे भिक्खू' इत्यादि । 'जे भिक्खू' यः कश्चिद् भिक्षुः श्रमणः श्रमणी वा 'पासत्थस्स' पार्श्वस्थस्य-यथोक्तलक्षणस्य सकाशात् 'पडिच्छर' प्रतीच्छति - पार्श्वस्थात् सूत्रार्थयोरध्ययनं શ્રી નિશીથ સૂત્ર

Loading...

Page Navigation
1 ... 516 517 518 519 520 521 522 523 524 525 526 527 528 529 530 531 532 533 534 535 536 537 538 539 540 541 542 543 544 545 546 547 548 549 550