Book Title: Agam 24 Chhed 01 Nishith Sutra Sthanakvasi
Author(s): Ghasilal Maharaj
Publisher: A B Shwetambar Sthanakwasi Jain Shastroddhar Samiti

View full book text
Previous | Next

Page 516
________________ चूणिभाष्यावचूरिः उ० १९ सू० २१-२३ अव्यक्तव्यक्तादीनां वाचनादानाऽदाननिषेधः ४२५ यः खलु आचार्य प्रति असंबद्धप्रलापी, वामावर्तस्तु स यः खलु आचार्यस्य प्रति कूलं कार्य करोति, पिशुनः स यः परोक्षनिन्दकः (चुगलखोर) इति भाषाप्रसिद्धः, एत्ते अपात्राः प्रवचनवाचनानधिकारिणः, एतेभ्यो यः प्रवचनस्य वाचनां ददाति स प्रायश्चित्तभागी भवति । ___यः खलु आचार्यः श्रमणः श्रमणी वा विपरीतम्-एतद्भिन्नं पात्रं वाचनाधिकारिणं न वाचयति स आज्ञाभङ्गादिदोषान् मिथ्यात्वं च प्राप्नोति, तस्येमे दोषा भवन्ति, तथाहि-यदि पात्रमपि न वाचयति तदा लोके महती अपकीतिर्भवति यदयं योग्यमपि न वाचयति, एवं प्रवचनस्य हानिरपि भवति. एवं पात्रं यदि न वाचयति तदा क्रमशः सूत्रार्थयोरुच्छेदोऽपि स्यात्, तस्मात् पात्रं तु अवश्यमेव वाचयेत्. ततश्च यः श्रमणः श्रमणी वा अपात्रं वाचयति तथा पात्रं न वाचयति स प्रायश्चित्तभागी भवति, तथा तस्याज्ञाभङ्गादिका दोषा अपि भवन्ति तस्मादपात्रं न वावयेत् , पात्रं तु देशकालादिकमाश्रित्य अवश्यमेव वाचयेदिति ॥ सू० २०॥ सूत्रम्-जे भिक्खू अव्वत्तं वाएइ वाएंतं वा साइज्जइ ॥सू० २१॥ छाया--यो भिक्षुरव्यक्तं वाचयति वाचयन्तं वा स्वदते ॥२१॥ चूर्णी-'जे भिक्खू' इत्यादि । 'जे भिक्खू' यः कश्चिद्भिक्षुः श्रमणः श्रमणी वा 'अव्वत्तं वाएइ'अव्यक्तं वाचयति, तत्र अव्यक्तः यावत्पर्यन्तं कक्षादिषु रोमाणि न भवन्ति तावत् सोऽव्यक्तः, अथवा यावत्पर्यन्तं षोडशवर्षपरिमितो न भवति तावदव्यक्तः, एतादृशमव्यक्तं यः श्रमणः श्रमणी वा वाचयति दृष्टिवादादिशास्त्रवाचनां दादाति. तथा 'वाएंतं वा साइज्जई' वाचयन्तं श्रमणान्तरं स्वदते-अनुमोदते स प्रायश्चित्तभागी भवति ॥ सू० २१॥ सूत्रम्--जे भिक्खू वत्तं ण वाएइ ण वाएंतं वा साइज्जइ ॥ सू० २२॥ छाया--यो भिक्षुव्यक्तं न वाचयति न वाचयन्तं वा स्वदते ॥ सू० २२॥ चूर्णी—'जे भिक्खू' इत्यादि । 'जे भिक्खू' यः कश्चिद्भिक्षुः श्रमणः श्रमणी वा 'वत्तं ण वाएइ' व्यक्तं न वाचयति, तत्र कक्षादिषु जातरोमा व्यक्तः, अथवा परिसमाप्तषोडशवर्षो व्यक्तः, एतादृशं व्यक्तं यः श्रमणो वाचनां न ददाति तथा 'ण वाएंतं वा साइज्जइ' न वाचयन्तंव्यक्ताय वाचनामददतं श्रमणान्तरं स्वदते-अनुमोदते स प्रायश्चित्तभागी भवति ॥ सू० २२॥ सूत्रम्-जे भिक्खू दोण्हं सरिसगाणं एकं सिक्खावेइ एकं न सिक्खावेइ, एकं वाएइ एक्कं न वाएइ, एक्कं सिक्खावेतं एक्कं न सिक्खावेतं वा, एक्कं वाएंतं एक्कं ण वाएंतं वा साइज्जइ ॥ सू० २३॥ छाया-थो भिक्षुः द्वयोः सदृशयोरेक शिक्षर्यात एकं न शिक्षयति एकं वाचर्यात एकं न वाच यति, एकं शिक्षयन्तं एकं न शिक्षयन्तं वा, एकं वाचयन्तं एक न वाचयन्तं वा स्वदते ।। सू० २३॥ શ્રી નિશીથ સૂત્ર

Loading...

Page Navigation
1 ... 514 515 516 517 518 519 520 521 522 523 524 525 526 527 528 529 530 531 532 533 534 535 536 537 538 539 540 541 542 543 544 545 546 547 548 549 550