Book Title: Agam 24 Chhed 01 Nishith Sutra Sthanakvasi
Author(s): Ghasilal Maharaj
Publisher: A B Shwetambar Sthanakwasi Jain Shastroddhar Samiti

View full book text
Previous | Next

Page 522
________________ चूर्णिभाष्यावचूरिः उ०२० सू०१-३ मासिकादिपापस्थानप्रति सेविनां प्रायश्चित्तप्रकारः ४३१ भक्षणेन तस्योदरे विकृतिर्जाता अजीर्णरोगश्च प्रादुरभूत्, ततः स तापसस्तं रोगमपाकर्तुं कमपि वैद्य पृष्टवान्-हे वैद्य ! मदुदरे रोगो जातः, वैद्यः प्राह त्वया किं भक्षितम् ? तापसेन कथितम् - फलादिभक्षणं कृतम्, ततो वैद्यः तदनुकूलमौषधं दत्तवान् परन्तु तादृशौषधेन तस्य रोगो न शान्तः । पुनरपि तापसो वैधान्तिकं गत्वा प्रोवाच- मदुदराद रोगो न गतः, ततो वैद्यः प्राह-भो तापस ! सत्यं वद किं त्वया भक्षितम्, ततः स तापसः कपटरहितः सन् सत्यमेव कथितवान् यन्मया मत्स्यभक्षणं कृतमिति, ततो वैद्यो वमनविरेचनतः रोगस्य निवारणं कृतवान्, तापसः स्वस्थः सबलश्चापि अभूत् । एवमेव पापस्थानं प्रतिसेव्य यः श्रमणः श्रमणी वा सकपटमालोचयति तस्य शुद्धिर्न भवति क्रयासिद्धिरपि न भवति । अथ यदि मायारहितः आलोचयति तदा स शुध्यति; यथा वैद्यस्तं तापसं शुद्धं कृतवान् तथैव वैद्यरूप आचार्यः तापसतुल्यं श्रमणं श्रमणी वा प्रायश्चित्तलक्षणवमनविरेचनादिना शोधयति । अथ च शुद्धः श्रमणः श्रमणी वा जन्मजरामरणरोगरहितोऽनन्तसुखभागी भवतीति ॥१॥ एज्जा सूत्रम् - जे भिक्खू दामासियं परिहारट्ठाणं पडिसेवित्ता आलोलिउंचि आलोएमाणस्स दोमासियं, पलिउंचिय आलोए माणस्स तेमासियं ॥ सू० २ ॥ छाया - यो भिक्षुः द्वैमासिकं परिहारस्थानं प्रतिसेव्य आलोचयेत् अपरिकुच्य आलोचयतो द्वैमासिकं परिकुच्य आलोचयतस्त्रैमासिकम् ॥ सू० २ ॥ चूर्णी - 'जे भिक्खू' इत्यादि । 'जे भिक्खू' यः कश्चिद्भिक्षुः श्रमणः श्रमणी वा 'दोमासिय' द्वैमासिकम् द्वाभ्यां मासाभ्यां निष्पन्नं मासद्वयेन निर्वर्त्तनयोग्यम् ' परिहारद्वाणं' परिहारस्थानं पापं पापजनकसावद्यकर्मानुष्ठानम् 'पडिसेवित्ता' प्रतिसेव्य- कुत्सितकर्मणः प्रतिसेवनां कृत्वेत्यर्थः ' आलोएज्जा' आलोचयेत् - आलोचनां कुर्यात् तत्र 'अषलिउंचिय आलोएमा - णस्स' अपरिकुच्य आलोचयतः, तत्रापरिकुध्य-मायामन्तरेणैव शुद्धान्तःकरणेन आलोचयत आलोचनां कुर्वतः गुरुसमीपे प्रायश्चित्तस्थानं प्रकाशयतः श्रमणादेः 'दोमासियं' द्वैमासिकं - लघुकं गुरुकं वा प्रायश्चित्तं प्रतिसेवनानुसारि गुरुर्दद्यात्, 'पलिउंचिय आलोएमाणस्स' परिकुच्य आलोचयतः, तत्र परिकुच्य सकपटमालोचयतः आलोचनां प्रायश्चित्तं कुर्वतः श्रमणादेः 'तेमासियं' त्रैमासिकं प्रायश्चित्तं दद्यात् गुरुः, प्रतिकुञ्चनानिष्पन्नस्य गुरुमासस्याधिकस्य प्रक्षेपात् । अयं भावः - यदि कोsपि श्रमणः श्रमणी वा द्वैमासिकं प्रायश्चित्तस्थानं प्रतिसेव्य शुद्धभावेन गुरुसमीपे प्रायश्चित्तमभिलषति तदा गुरुः तादृशशिष्याय द्वैमासिकं लघुकं गुरुकं वा प्रायश्चित्तं दद्यात्, अथ यदि सकपटमालोचयति तदा त्रैमासिकं लघुकं गुरुकं वा प्रायश्चित्तं दद्यात् - मायाप्रयुक्तमासाधिकस्याऽऽवश्यकत्वात् । उदाहरणादिकं पूर्वसूत्रवदेव बोद्धव्यमिति ॥ सू० २ ॥ શ્રી નિશીથ સૂત્ર

Loading...

Page Navigation
1 ... 520 521 522 523 524 525 526 527 528 529 530 531 532 533 534 535 536 537 538 539 540 541 542 543 544 545 546 547 548 549 550