________________
चूर्णिभाष्यावचूरिः उ०२० सू०१-३ मासिकादिपापस्थानप्रति सेविनां प्रायश्चित्तप्रकारः ४३१ भक्षणेन तस्योदरे विकृतिर्जाता अजीर्णरोगश्च प्रादुरभूत्, ततः स तापसस्तं रोगमपाकर्तुं कमपि वैद्य पृष्टवान्-हे वैद्य ! मदुदरे रोगो जातः, वैद्यः प्राह त्वया किं भक्षितम् ? तापसेन कथितम् - फलादिभक्षणं कृतम्, ततो वैद्यः तदनुकूलमौषधं दत्तवान् परन्तु तादृशौषधेन तस्य रोगो न शान्तः । पुनरपि तापसो वैधान्तिकं गत्वा प्रोवाच- मदुदराद रोगो न गतः, ततो वैद्यः प्राह-भो तापस ! सत्यं वद किं त्वया भक्षितम्, ततः स तापसः कपटरहितः सन् सत्यमेव कथितवान् यन्मया मत्स्यभक्षणं कृतमिति, ततो वैद्यो वमनविरेचनतः रोगस्य निवारणं कृतवान्, तापसः स्वस्थः सबलश्चापि अभूत् । एवमेव पापस्थानं प्रतिसेव्य यः श्रमणः श्रमणी वा सकपटमालोचयति तस्य शुद्धिर्न भवति क्रयासिद्धिरपि न भवति । अथ यदि मायारहितः आलोचयति तदा स शुध्यति; यथा वैद्यस्तं तापसं शुद्धं कृतवान् तथैव वैद्यरूप आचार्यः तापसतुल्यं श्रमणं श्रमणी वा प्रायश्चित्तलक्षणवमनविरेचनादिना शोधयति । अथ च शुद्धः श्रमणः श्रमणी वा जन्मजरामरणरोगरहितोऽनन्तसुखभागी भवतीति ॥१॥
एज्जा
सूत्रम् - जे भिक्खू दामासियं परिहारट्ठाणं पडिसेवित्ता आलोलिउंचि आलोएमाणस्स दोमासियं, पलिउंचिय आलोए माणस्स तेमासियं ॥ सू० २ ॥
छाया - यो भिक्षुः द्वैमासिकं परिहारस्थानं प्रतिसेव्य आलोचयेत् अपरिकुच्य आलोचयतो द्वैमासिकं परिकुच्य आलोचयतस्त्रैमासिकम् ॥ सू० २ ॥
चूर्णी - 'जे भिक्खू' इत्यादि । 'जे भिक्खू' यः कश्चिद्भिक्षुः श्रमणः श्रमणी वा 'दोमासिय' द्वैमासिकम् द्वाभ्यां मासाभ्यां निष्पन्नं मासद्वयेन निर्वर्त्तनयोग्यम् ' परिहारद्वाणं' परिहारस्थानं पापं पापजनकसावद्यकर्मानुष्ठानम् 'पडिसेवित्ता' प्रतिसेव्य- कुत्सितकर्मणः प्रतिसेवनां कृत्वेत्यर्थः ' आलोएज्जा' आलोचयेत् - आलोचनां कुर्यात् तत्र 'अषलिउंचिय आलोएमा - णस्स' अपरिकुच्य आलोचयतः, तत्रापरिकुध्य-मायामन्तरेणैव शुद्धान्तःकरणेन आलोचयत आलोचनां कुर्वतः गुरुसमीपे प्रायश्चित्तस्थानं प्रकाशयतः श्रमणादेः 'दोमासियं' द्वैमासिकं - लघुकं गुरुकं वा प्रायश्चित्तं प्रतिसेवनानुसारि गुरुर्दद्यात्, 'पलिउंचिय आलोएमाणस्स' परिकुच्य आलोचयतः, तत्र परिकुच्य सकपटमालोचयतः आलोचनां प्रायश्चित्तं कुर्वतः श्रमणादेः 'तेमासियं' त्रैमासिकं प्रायश्चित्तं दद्यात् गुरुः, प्रतिकुञ्चनानिष्पन्नस्य गुरुमासस्याधिकस्य प्रक्षेपात् । अयं भावः - यदि कोsपि श्रमणः श्रमणी वा द्वैमासिकं प्रायश्चित्तस्थानं प्रतिसेव्य शुद्धभावेन गुरुसमीपे प्रायश्चित्तमभिलषति तदा गुरुः तादृशशिष्याय द्वैमासिकं लघुकं गुरुकं वा प्रायश्चित्तं दद्यात्, अथ यदि सकपटमालोचयति तदा त्रैमासिकं लघुकं गुरुकं वा प्रायश्चित्तं दद्यात् - मायाप्रयुक्तमासाधिकस्याऽऽवश्यकत्वात् । उदाहरणादिकं पूर्वसूत्रवदेव बोद्धव्यमिति ॥ सू० २ ॥
શ્રી નિશીથ સૂત્ર