________________
४३०
निशीथसूत्रे स्वपापप्रकाशनरूपां-कुर्वतः श्रमणस्य श्रमण्या वा मासिकं गुरुकं लघुकं वा प्रतिसेवनाऽनुसारि प्रायश्चित्तं भवति, पापस्थानस्य प्रतिसेवनां कृत्वा कपटरहितभावेन उपागताय शिष्याय प्रतिसेवनानुसारि लघुकं गुरुकं वा प्रायश्चित्तं गुरुर्दद्यात् इत्यर्थः । 'पलिउंचिय आलोएमाणस्स दोमासियं' परिकुच्य आलोचयतो द्वैमासिकम् परिकुच्य द्वैमासकपटम् आलोचयत आलोचनां कुर्वतः शिष्यस्य सिकं लघुकं गुरुकं वा प्रायश्चित्तं गुरुर्दद्यादिति । यदत्र मासिकं प्रायश्चित्तं कथितं तत्र मासः पञ्चप्रकारको भवति तद्यथा-नक्षत्रमासश्चन्द्रमास ऋतुमास आदित्यमासोऽभिवर्द्धितमासश्च, तत्र नक्षत्रमासः सप्तविंशत्यहोरात्रप्रमाणः तथा एकस्याहोरात्रस्य च एकविंशतिः सप्तषष्टिभागाश्च (२७२२ एष लक्षणतः परिमाणतश्च नक्षत्रमासः । चन्द्रमास एकोनत्रिंशदहोरात्रप्रमाणः तथा एकस्याहोरात्र दिनस्य च द्वात्रिंशद् द्वाष. ष्टिभागाश्च ( २९-१३)। ऋतुमासः त्रिंशदहोरात्रप्रमाणः (३०)। आदित्यमासः सार्द्ध त्रिंशदिनप्रमाणः (३०॥)। अभिवर्द्धितमासस्तु एकत्रिंशदिनानि, एकस्य च दिनस्य चतुर्विशत्यधिकशतखण्डितस्य एकविंशत्यधिकं भागशतम् (३१२२१)। उक्तञ्च
एक्कत्तीसं च दिणा, दिणभागसयं तहेक्कवीसं च ।
अभिवढिओ उ मासो, चउवीससएण छेदेण ॥ छाया-एकत्रिंशच्च दिनानि दिनभागशतं तथैकविंशतिश्च ।
अभिवद्धितस्तु मासः, चतुर्वि शशतेन छेदेन ॥ इति। अत्र तेषां पञ्चानामपि मासानां मध्ये कर्ममासेनाऽधिकारः, तत्र कर्ममासः ऋतुमासः त्रिंशदिनात्मकः, तपश्चर्यादिकं प्रायश्चित्तं च ऋतुमासेनैव भवति । प्रायश्चित्तदाने ऋतुमासस्यैवाधिकारादिति । अथ यदत्र सूत्रे प्रतिसेवनमशुभकर्मणां कथितं तत् प्रतिसेवनं द्विविधं मूलगुणप्रतिसेवनमुत्तरगुणप्रतिसेवनं च, तत्र पुनर्मूलगुणप्रतिसेवनं पञ्चविधं पञ्चमहावतात्मकम् , उत्तरगुणप्रतिसेवन दशविधम् आलोचनाई १-प्रतिक्रमणाई २-तदुभयाई ३-विवेकाई ४-व्युत्सर्गार्ह ५-तपोऽर्ह ६-छेदाई७ - मूलारे ८-नवस्थाप्यारी ९-पाराञ्चिक १०-भेदात् । पुनरपि एकैकं द्विविधं द्रव्येण कल्पेन च, इदं प्रति सेवनं कर्मोदयेन भवति, कर्म च प्रतिसेवनया भवति बीजाङ्कुरवत् अनयोः परस्परापेक्षत्वम्, एतादृशप्रतिसेवनस्याऽऽलोचनं द्विप्रकारेण भवति शुद्धभावेन कपटभावेच, तत्र शुद्धभावेन आलोचयतः शुद्धिर्भवति, कपटभावेन आलोचयतस्तु शुद्धिर्न भवति । तत्र दृष्टान्तो यथा-आसीत् कश्चित् नर्मदातटे निवसन् बुभुक्षया खिन्नः तापसः फलमूलादिकमानेतुं वनं गतवान्, तत्र इस्तत परिभ्रमन् नर्मदातटे कुत्रचित् मृतमत्स्यकलेवरं प्राप्तवान्, प्राप्य तमेवानीय भक्षयित्वा बुभुक्षामपनीतवान् परन्तु मत्स्य
શ્રી નિશીથ સૂત્ર