________________
निशीथसूत्रे
सूत्रम् -- जे भिक्खू तेमासियं परिहारट्ठाणं पडिसेवित्ता आलोएज्जा अपलिंउंचिय आलोएमाणस्स तेमासियं, पलिउंचिय, आलो एमाणस्स चाउम्मासि ॥ सू० ३ ॥
४३२
छाया - यो भिक्षुः त्रैमासिकं परिहारस्थानं प्रतिसेव्य आलोचयेत् अपरिकुच्य आलोचयतः त्रैमासिकम् परिकुच्य आलोचयतश्चातुर्मासिकम् ॥ सू० ३ ॥
चूर्णी - 'जे भिक्खू' इत्यादि । 'जे भिक्खू' यः कश्चिद्भिक्षुः श्रमणः श्रमणी वा 'तेमासियं' त्रैमासिकम् - मासत्रयेण निर्वर्तनयोग्यम् मासत्रय संपाद्यमित्यर्थः ' परिहारद्वाणं परिहारस्थानम् - पापं पापजनकं वा सावद्यकर्मानुष्ठानम् 'पडिसेवित्ता' प्रतिसेव्य - प्रकर्षेण सेवनां कृत्वा 'आलोएज्जा' आलोचयेत्-स्वकृत सावद्यकर्मणो गुरुसमीपे आलोचनां दद्यात्, तत्र च 'अपलिउंचिय आलोएमाणस्स' अपरिकुच्य - आलोचयतः - मायामकृत्वा शुद्धभावेन गुरसमीपे स्वकीयं पापं निवेदयित्वा पापस्थानमालोचयतः 'तेमासियं' त्रैमासिकं प्रायश्चित्तं लघुकं गुरुकं वा प्रतिसेवनानुसारि गुरुर्दद्यादिति । 'पलिउंचिय' परिकुच्य - मायापूर्वकम् 'आलोएमाणस्स' आलोचयतः श्रमणादेः 'चाउम्मासियं' चातुर्मासिकम् - मासचतुष्टयेन निर्वर्त्तनयोग्यं लघुकं गुरुकं वा प्रतिसेवनानुसारि प्रायश्चित्तं गुरुर्दद्यात् इति । अयं भावः - मासिकपापस्थानस्य प्रतिसेवनां कृत्वा यदि कश्चित् श्रमणः श्रमणी वा स्वकीयपापनिवारणाय गुरुसमीपे शुद्धमनोभावेन प्रायश्चित्तमिच्छेत् तदा गुरुस्तादृशशिष्याय त्रैमासिकं लघुकं गुरुकं वा प्रायश्चित्तं प्रतिसेवनानुसारि दद्यात् । अथ यदि कदाचित् मायापूर्वकमालोचयितुमिच्छेत्तदा गुरुः प्रतिसेवनानुसारि चातुर्मासिकं लघुकं गुरुकं वा प्रायश्चित्तं दद्यात् - मायादण्डरूपेण मासाधिक्यं वदेत् । अत्रायं दृष्टान्तः - अस्तिकस्यचिद्राज्ञोऽतीव वल्लभः एकः सेनापतिः, स च सङ्ग्रामे विविधशस्त्रेणाहतः तच्छरीरे अनेकानि शल्यानि प्रविष्टानि तेन दुर्बलः स वैद्यमाहूतवान्, आहूय च स्वस्यास्वास्थ्यकारणं प्रोवाच, ततो वैद्यो निर्दिष्टस्थानात् शल्योद्धरणं कृतवान् परन्तु स स्वस्थो नाभूत् प्रतिदिनं दुर्बल एव भवति, शल्यनिष्कासनसमये शल्यपीडया पीडितः एकं शल्यस्थानं न दर्शितवान् तेन स्वस्थो नाभूत् शल्यस्य शरीरे विद्यमानत्वात् तच्छल्यं शरीरान्तर्विद्यमानं तस्य स्वस्थतायां प्रतिबन्धकम् अत एव स दुर्बल एव भवति, पुनरपि वैद्यमाहूतवान्, आहूय च अवशिष्टशल्यस्थानं दर्शितवान, ततो वैद्यः शल्यं निष्कासितवान् तेन योधः स्वस्थो जातः । एवं वैद्यस्थानीय आचार्यः योधस्थानीयश्रमणादेः पापरूपं शल्यं प्रायश्चित्तद्वारा निष्कास्य ज्ञानदर्शनचारित्रलक्षणं बलं संपादयति तस्मात् शुद्धभावेनाऽऽलोचनां कुर्यात् न तु कपटपूर्वकमालोचयेत्, यदि कपटभावेनालोचयेत् तदा कपटापराधनिमित्तकं मासाधिक्यं प्रायश्चित्तं गुरुर्दद्यादिति ॥ सू० ३ ॥
શ્રી નિશીથ સૂત્ર