________________
चूणिभाष्यावचूरिः उ० १९ सू० २१-२३ अव्यक्तव्यक्तादीनां वाचनादानाऽदाननिषेधः ४२५ यः खलु आचार्य प्रति असंबद्धप्रलापी, वामावर्तस्तु स यः खलु आचार्यस्य प्रति कूलं कार्य करोति, पिशुनः स यः परोक्षनिन्दकः (चुगलखोर) इति भाषाप्रसिद्धः, एत्ते अपात्राः प्रवचनवाचनानधिकारिणः, एतेभ्यो यः प्रवचनस्य वाचनां ददाति स प्रायश्चित्तभागी भवति ।
___यः खलु आचार्यः श्रमणः श्रमणी वा विपरीतम्-एतद्भिन्नं पात्रं वाचनाधिकारिणं न वाचयति स आज्ञाभङ्गादिदोषान् मिथ्यात्वं च प्राप्नोति, तस्येमे दोषा भवन्ति, तथाहि-यदि पात्रमपि न वाचयति तदा लोके महती अपकीतिर्भवति यदयं योग्यमपि न वाचयति, एवं प्रवचनस्य हानिरपि भवति. एवं पात्रं यदि न वाचयति तदा क्रमशः सूत्रार्थयोरुच्छेदोऽपि स्यात्, तस्मात् पात्रं तु अवश्यमेव वाचयेत्. ततश्च यः श्रमणः श्रमणी वा अपात्रं वाचयति तथा पात्रं न वाचयति स प्रायश्चित्तभागी भवति, तथा तस्याज्ञाभङ्गादिका दोषा अपि भवन्ति तस्मादपात्रं न वावयेत् , पात्रं तु देशकालादिकमाश्रित्य अवश्यमेव वाचयेदिति ॥ सू० २०॥
सूत्रम्-जे भिक्खू अव्वत्तं वाएइ वाएंतं वा साइज्जइ ॥सू० २१॥ छाया--यो भिक्षुरव्यक्तं वाचयति वाचयन्तं वा स्वदते ॥२१॥
चूर्णी-'जे भिक्खू' इत्यादि । 'जे भिक्खू' यः कश्चिद्भिक्षुः श्रमणः श्रमणी वा 'अव्वत्तं वाएइ'अव्यक्तं वाचयति, तत्र अव्यक्तः यावत्पर्यन्तं कक्षादिषु रोमाणि न भवन्ति तावत् सोऽव्यक्तः, अथवा यावत्पर्यन्तं षोडशवर्षपरिमितो न भवति तावदव्यक्तः, एतादृशमव्यक्तं यः श्रमणः श्रमणी वा वाचयति दृष्टिवादादिशास्त्रवाचनां दादाति. तथा 'वाएंतं वा साइज्जई' वाचयन्तं श्रमणान्तरं स्वदते-अनुमोदते स प्रायश्चित्तभागी भवति ॥ सू० २१॥
सूत्रम्--जे भिक्खू वत्तं ण वाएइ ण वाएंतं वा साइज्जइ ॥ सू० २२॥ छाया--यो भिक्षुव्यक्तं न वाचयति न वाचयन्तं वा स्वदते ॥ सू० २२॥
चूर्णी—'जे भिक्खू' इत्यादि । 'जे भिक्खू' यः कश्चिद्भिक्षुः श्रमणः श्रमणी वा 'वत्तं ण वाएइ' व्यक्तं न वाचयति, तत्र कक्षादिषु जातरोमा व्यक्तः, अथवा परिसमाप्तषोडशवर्षो व्यक्तः, एतादृशं व्यक्तं यः श्रमणो वाचनां न ददाति तथा 'ण वाएंतं वा साइज्जइ' न वाचयन्तंव्यक्ताय वाचनामददतं श्रमणान्तरं स्वदते-अनुमोदते स प्रायश्चित्तभागी भवति ॥ सू० २२॥
सूत्रम्-जे भिक्खू दोण्हं सरिसगाणं एकं सिक्खावेइ एकं न सिक्खावेइ, एकं वाएइ एक्कं न वाएइ, एक्कं सिक्खावेतं एक्कं न सिक्खावेतं वा, एक्कं वाएंतं एक्कं ण वाएंतं वा साइज्जइ ॥ सू० २३॥
छाया-थो भिक्षुः द्वयोः सदृशयोरेक शिक्षर्यात एकं न शिक्षयति एकं वाचर्यात एकं न वाच यति, एकं शिक्षयन्तं एकं न शिक्षयन्तं वा, एकं वाचयन्तं एक न वाचयन्तं वा स्वदते ।। सू० २३॥
શ્રી નિશીથ સૂત્ર