________________
કર૪
निशीथसूत्रे 'वाइए' वाचति-वाचनां ददाति. तत्र को यमपात्रको यस्मै वाचनां न दद्यात् ? तत्रोच्यते-अपात्रको नाम क्रमानधीतश्रुतकः यथाक्रमं श्रुतं यो नाधीतवान् सोऽपात्रकः अयोग्य इति, तस्मै-ताहशाय अपात्राय वाचनां ददाति, तथा 'वाएंतं वा साइज्जई' वाचयन्तं वा श्रमणान्तरं स्वदतेअनुमोदते स प्रायश्चित्तभागी भवति, यतो हि अपात्राय वाचनादाने स तदत्तां वाचनां वैपरीत्येन परिणमयति तदा तद्वाचनादाता तदोषभाग भवति, उक्तं चात्र---
"आमे घडे निहितं, जहा जलं तं घडं विणासेइ । इय सिद्धंतरहस्सं, अप्पाहारं विणासेइ ॥१॥” इति । छाया-आमे (अपक्वे) घटे निहितं यथा जलं धटं विनाशयति ।
इति सिद्धान्तरहस्यं अल्पाधारं विनाशर्यात ॥१९॥ इति ॥सू० १९॥ जे भिक्खू पत्तं ण वाएइ ण वाएतं वा साइज्जइ ॥सू० २०॥ छाया-यो भिक्षुः पात्र न वाचयति न वाचयन्तं वा स्वदते । सू० २०॥
चूर्णी- 'जे भिक्ख' इत्यादि । 'जे भिक्खू' यः कश्चिद्भिक्षुः श्रमणः श्रमणी वा 'पत्तं ण वाएई' पात्रं न वाचयति. तत्र-अपात्रप्रतिपक्षभूतं पात्रं वाचनाग्रहणयोग्यम् अवस्थाविनयादिभि. योग्यं क्रमाधीतश्रुतं वा श्रमणं वाचनां न ददाति तथा 'ण वाएंतं वा साइज्जई' न वाचयन्तं वा, न वाचयन्तमिति-अवाचयन्तं-पात्राय वाचनामददतं श्रमणान्तरं यः स्वदते-अनुमोदते स प्रायश्चित्तभागी भवति ।।
अथ कोदशोऽपात्रको यस्मै वाचना न देया, तथा कोदशश्च पात्रको यस्मै वाचनाऽदाने दोषस्तत्राह भाष्यकारःभाष्यम्-तितिणिए चलचित्ते, गाणंगणिए य दुब्बलचरित्ते ।
आयरियप्पडिभासी, वामावडे य पिसुणे य ॥१॥ एयं जो वाएई, विवरीयं नो य वायए जो उ ।
आणाभंगप्पभिई दोसे पावेइ सो नियमा ॥२॥ छाया- तितिणिकश्चलचित्तः गाणंगणिकश्च दुर्बलचरित्रः ।
आचार्यप्रतीभाषी वामावत्तश्चपिशुनश्च ॥१॥ एतं यो वाचयति, विपरीतं नो च वावयेद् यस्तु ।
आज्ञामङ्गप्रभृतीन्, दोषान् प्राप्नोति स नियमात् ॥२॥ अवचूरिः-तत्र तितिणिकः बडबडेति भाषकः रूक्षस्वभावकः १, चलचित्तः-अस्थिरचित्तः २, गाणंगणिकः स यः खलु कारणं विनैव एकस्मात् गणात् गणान्तरे गच्छति ३, दुर्बलचरित्रः स यः खलु मूलगुणोत्तरगुणविराधनायाः प्रतिसेवनां करोति तथा धृतिबलपरिहीनः ४, आचार्यप्रतिभाषी सः
શ્રી નિશીથ સૂત્ર