SearchBrowseAboutContactDonate
Page Preview
Page 514
Loading...
Download File
Download File
Page Text
________________ चूर्णिभाष्यावचूरिः उ०१९ सू०१७-२० सूत्रवाचनोत्क्रमापात्रपात्रवाचनाऽवाचननि० ४२३ तथा यत् सूत्रं यस्य सूत्रस्याग्रेसनं तत् तस्य उपरितनं सूत्रं कथ्यते, यथा दशवेकालिकसूत्रस्यावश्यकसूत्रम् अघस्तनमिति भवति, एवमुत्तराध्ययनसूत्रस्य दशवैका लिकसूत्रमधस्तनं भवति, अथवा - द्रव्यक्षेत्र कालभावाः एते सर्वे यत्र समवगाढाः भवन्तीत्युच्यते तत् समवसरणम् । तत् समवसरणं, पुनः किस्वरूपकम् ? तत्रोच्यते-अङ्गम्, श्रुतस्कन्धः, अध्ययनम्, उद्देशकश्च तत्राङ्गं यथा - आचाराङ्गादिकम् तथा च सूत्रकृताङ्गादाचाराङ्गमधस्तनमिति, आचाराङ्गसूत्रमवाचयित्वा यदि सूत्रकृताङ्गसूत्रं वाचयति तदा सूत्रोक्तो दोषो भवति । श्रुतस्कन्धो यथा आवश्यकसूत्रम् तथावश्यकसूत्रमवाचयित्वा दशवैकालिकसूत्र वाचयति तदा श्रुतस्कन्धोक्तो दोषो भवति । अध्ययनं यथा - सामायिकमवाचयित्वा चतुर्विंशतिस्तवं वाचयति तदा अध्ययनोक्तो दोषः, अथवा शस्त्रपरिज्ञाध्ययनमवाचयित्वा लोकविजयनामकमध्ययनं वाचयति तस्य तदा अध्ययनोक्तो दोषो भवति । उद्देशकेषु यथा - शखपरिज्ञाध्ययने प्रथमं श्रामण्यो देशकमवाचयित्वा द्वितोयं पृथिवीकायिकोदेशकं वाचयति । एवमाचाराङ्गादिसूत्रेष्वपि पूर्वापरातिक्रमणे दोषो ज्ञातव्यः । एवं व्युत्क्रमेण सूत्रार्थवाचना न कर्त्तव्येति ॥सू०१७॥ सूत्रम् - - जे भिक्खू णवबंभ चेराई अवाएत्ता उवरिमसुयं वाएइ वाएंतं वा साइज्जइ ॥ सू० १८ ॥ छाया -यो भिक्षुर्नव ब्रह्मचर्याणि अवाचयित्वा उपरिमसूत्रं वाचयति वाचयन्त वा स्वदते ॥ सू० १८ ॥ चूर्णी - 'जे भिक्खू' इत्यादि । 'जे भिक्खू' यः कश्विद्भिक्षुः श्रमणः श्रमणी वा 'णवबंभचेराई' नवत्रह्मचर्याणि आचाराङ्गसूत्रस्य प्रथमश्रुतस्कन्धगतानि शस्त्रपरिज्ञादीनि महापरिज्ञापर्यन्तानि नवाध्ययनानि, अत्र नवब्रह्मचर्यग्रहणेन सर्वोऽपि आचारो गृहीतो भवति, अथवा सर्वोऽपि चरणानुयोगो गृहीतो भवति, एतादृशानि नवब्रह्मचर्याणि 'अवाएत्ता' अवाचयित्वा 'उवरिमस्यं' उपरिमश्रुतम् छेदसूत्रम् 'वाएइ' वाचयति - अध्यापयति-अधीते वा ब्रह्मचर्याद्याचाराङ्ग प्रथमतोऽवाचयित्वा यः श्रमणः श्रमणी वा धर्मानुयोगम् समुत्थानसूत्रादि वा वाचयति यद्वा सूर्यप्रज्ञप्त्यादिकं गणितानुयोगं वाचयति, अथवा दृष्टिवादं द्रव्यानुयोगं वाचयति, अथवा यदा चरणानुयोगो वाचितो भवेत्तदा धर्मानुयोगमवाचयित्वा गणितानुयोगं वाचयति । एवम् 'वाएंतं वा साइज्जइ' वाचयन्तं वा श्रमणान्तरं यः स्वदते- अनुमोदते स प्रायश्चित्तभागी भवति ॥ सू० १८ ॥ सूत्रम् - जे भिक्खू अपत्तं वाएइ वाएंतं वा साइज्जइ ||सू०१९ || छाया - यो भिक्षुः अपात्र वाचयति वाचयन्तं वा स्वदते ||१९|| चूर्णी - 'जे भिक्खू' इत्यादि । 'जे भिक्खू' यः कश्चिद्भिक्षुः श्रमणः श्रमणी वा 'अपत्तं ' अपात्रम् - अनधिकारिणम्, यो हि शास्त्रवाचनाग्रहणस्य नाधिकारी तादृशमपात्रम् श्रमणं तद्भिन्नं वा શ્રી નિશીથ સૂત્ર
SR No.006362
Book TitleAgam 24 Chhed 01 Nishith Sutra Sthanakvasi
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1969
Total Pages550
LanguageSanskrit, Hindi, Gujarati
ClassificationBook_Devnagari, Agam, Canon, & agam_nishith
File Size28 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy