________________
निशीथसूत्रे चूर्णी- 'जे भिक्खू' इत्याद । 'जे भिक्खू' यः कश्चिद्भिक्षुः श्रमणः श्रमणी वा 'दोहं सरिसगाणं' द्वयोः सदृशयोः विनयबुद्धिम्यां तुल्ययोः द्वयोः, सादृश्यं च संविग्नत्वेन समनुज्ञातत्वेन परिणामकत्वेन च, तथा च द्वयोः संविग्नयोर्मध्यात् 'एक्कं सिक्खावेई' एकं संविग्नं शिक्षयति-सम्यग् चरणादिसम्बन्धिनी शिक्षा ददाति एक्कं न सिक्खावेइ' एक संविग्नं न शिक्षयति- चरणादिसंबन्धिनी शिक्षा सम्यकू न ददाति 'एवकं वाएइ' एकं वाचयति-शास्त्रवाचना ददाति 'एक न वाएई' एकं संविग्नं न वाचयति-वाचनां न ददाति तथा 'एक्कं सिक्खावेत' एकं शिक्षयन्तं 'एक्कं न सिक्खावेंतं वा' द्वयोः सदृशयोः संविग्नयोर्मध्यादेकं संविग्नं न संशिक्षयन्तं श्रमणान्तरम् तथा- 'एक्कं वाएंतं' एकं वाचयन्तं 'एक्कं न वाएंतं' एकं द्वयोः सदृशयोः संविग्नयोर्मध्यादेकं संविग्नं न वाचयन्तं श्रमणान्तरं यः स्वदते-अनुमोदते स प्रायश्चित्तभागी भवति । तथा तस्याऽऽज्ञाभङ्गादिका दोषा अपि भवन्ति । अथ यदि द्वयोः सदृशयोमध्यादेकं शिक्षयति वाचयति च, एकं न शिक्षयति तथैकं न वाचयति तदा को दोषः ! इति चेत् अत्राह-तुल्ययोर्द्वयोर्मध्यात् यदि एकं शिक्षयेत् एकं वाचयेत् तदा तदुपरि रागः प्रकटितः स्यात् , अथ यं नाध्यापयिष्यति तदुपरि द्वेषः प्रख्यापितो भवेत् , तेन स बहिर्भावं गच्छेत् , तत्प्रत्ययां कर्मनिर्जरां न प्राप्नोति अन्यं प्रति स प्रद्वेषं च गच्छेत् , प्रद्विष्टश्च यत् करिष्यति तन्निमित्तं प्रायश्चित्तं प्रसज्येत । एभिः कारणैः सदृशद्वयोर्मध्यात् एकं शिक्षयेत् अपरं न शिक्षयेत् , एकं वाचयेत् अपरं न बाचयेत् , इत्येवं न कुर्यात् न वा एवं कुर्वन्तमनुमोदयेत् इति, किन्तु यदि शिक्षयेत्तदा द्वावपि शिक्षयेत् यदि न शिक्षयेत् तदा द्वावपि न शिक्षयेत् भेदबुद्धिं न कुर्यादिति भावः ॥ सू० २३॥
सूत्रम्--जे भिक्खू आयरियउवज्झाएहिं अविदिण्णं गिरं आइयइ आइयंतं वा साइज्जइ ॥सू० २४ ॥
छाया-यो भिक्षुगचार्योपाध्यायैरविदत्तां गिरमाददाति आददतं वा स्वदते ॥२४॥
चूर्णी--'जे भिक्खू' इत्यादि । 'जे भिक्खू' यः कश्चिद् भिक्षुः श्रमणः श्रमणी वा 'आयरियउवज्झाएहि' आचार्योपाध्यायैः आचार्येन उपाध्ययेन उपलक्षणात् रत्नाधिकः 'अविदिणं गिरं' अविदत्तां गिरम् शास्त्रवाणीम् अविदत्ताम्-अनध्यापितां गिरं-सूत्रार्थरूपाम् 'आइयइ'
आददाति-स्वीकरोति अधीते इत्यर्थः, यं सूत्रमर्थ वा आचार्य उपाध्यायो वा नाध्यापयति तमपि स्वयमेवाघीते-तदध्ययनं करोति 'अहं बहुश्रुतः सर्वरनिकः' इति कृत्वा गर्वेण आचार्यादिकमना. दृत्य स्वयमेव तदध्ययनं करोति तथा 'आइयंत वा साइज्जई' आददतं वा-आचार्याद्यनध्यापित स्वयमेवाधीयानं श्रमणान्तरं स्वदते-अनुमोदते स प्रायश्चित्तभागी भवति । आ वायर्यादिभिरदत्ताम्-अनध्यापितां शास्त्रवाचनां यः स्वयं वाचयति तदा तस्य अपूर्णज्ञानत्वेन तदुक्तमादिकं भ्रमबुद्धया वैपरीत्येन परिणमते, तेन स जिनवचनाशातनां मिथ्यात्वं च प्राप्नोति ॥ सू० २४॥
શ્રી નિશીથ સૂત્ર